श्रीकृष्णजन्माष्टमीशुभाशयाः

समेभ्यः श्रीकृष्णजन्माष्टमीपर्वणः शुभाशयान् वितरामि । अस्मिन् सन्दर्भे मदीया काचन कविता अत्र प्रस्तूयते । तद्विदाङ्कुर्वन्तु सज्जनाः ।

स मातापितृभ्यां नयनशुभगाभ्यां परिलसन्-

मुखश्रीसक्ताभ्यां हरिरिह सदामोदजनकः ।

क्वणत्काञ्चीदामप्रकटसुममालाविलसितः

शिशोर्भावं यातः सुतकलितदृग्भ्यां परिदधे ।।

इह नयनशुभगाभ्यां परिलसन्मुखश्रीसक्ताभ्यां सुतकलितदृग्भ्यां मातापितृभ्यां शिशोर्भावं यातः क्वणत्काञ्चीदामप्रकटसुममालाविलसितः सदामोदजनकः सः हरिः परिदधे ।।

साक्षान्नारायणः देवकीवसुदेवयोः सुतत्वेन अवततार । तदा जनकौ आश्चर्यचकिताभ्यां स्वनयनाभ्यां श्रीकृष्णं दधतुः । तौ जनकौ सदा श्रीकृष्णमुखकान्तिं अवलोक्य तत्रव अनुरक्ताः अभूताम् । श्रीकृष्णः तयोः आनन्दप्रदः आसीत् । न केवलं तेषां अपि तु सर्वेषां जनानां अपि श्रीकृष्णः आन्दामोददायकः एव । स भगवान् महतो महीयान् अपि इदीनां शिशोर्भावं प्राप्तः सर्वोषां मनोनयनशुभगः सन् विराजते । तादृशः कृष्णः अस्मान् सदा रक्षतु ।।

विश्वसंस्कृतदिनाचरणम् आत्माश्रमे

कृपया अभिवीक्ष्यताम् । जयतु गीर्वाणतरङ्गिणी

ऊर्जा – 2

आत्माश्रमगुरुकुलम्

प्रस्तुतिः – प्रकृतिवर्णनम्

बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते

अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।।

सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये ।

अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् ।

ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।

बहुचित्रजगद्वर्णनपटीयांसः नवनवोन्मेषशालिनः अविरतकवितागुम्फनदुरन्धराः जोषं जोषं प्रकृतिसौन्दर्यवर्णनान्दरसपीयूषपानमत्तचित्ताः कविताकामिनीकान्ताः नैके महाकवयः विराजन्तेतमामस्यां वसुन्धरायाम् ।। ते हि खलु नैसर्गिकनिसर्गासक्तस्वान्ताः पर्वतनदीवी रुध्मरुद्वनदिनकरनिशाकरकलहंसचकोरादीन् हृदयङ्गमया शैल्या वर्णयन्तः रसिकानां रसपानं कारयन्तो विराजन्ते ।। क्षणं क्षणं यन्नवतामुपैति तदेव रूपं रमणीयतायाः इत्युक्तदिशा तेषां मनः पटले प्रकृतिः प्रतिक्षणं नवीनतां भजन्ती समुल्लसति ।

अद्य अस्माभिः नित्यान्तं कृतार्थता समनुभूयते यद् विद्वद्वर्याः सुप्रसिद्धकवयः अष्टावधानिनश्च श्रीयुताः रामकृष्ण पेजत्ताय महोदयाः आश्रमपदमिदं साम्प्रतं स्वागमनेन भूषयाञ्चक्रुरिति । साहित्यनभोमण्डले स्निग्धशीतांशुरिव विहरन्तः ते स्वास्यनिस्स्यन्दिभिः कविताशीकरैः श्रोतृचातकान् संपोषयन्तहो । धन्याः सुकृतिनः सरसिद्धाः ईदृशाः सुकृतिनः कीवश्वराः येषां जन्मदात्रीयं अवनिः स्वस्याः कृतार्थतां समाकलयति ।

अथ कालोयं सम्प्राप्तोधुना काव्यरसपानाय प्रकृतिकन्यायाः नवरूपलावण्याविष्करणाय । तदस्मदन्तेवासिनः भू-भूधरादि-वर्णनेन अस्माकं मनः अरञ्जयन् । तदवलोक्यन्तां साहित्यरसिकाः इति भवन्तः सामोदं समाहूयन्ते ।

।।जीवत्रैविध्यं।।

जीवाः त्रिविधाः मुक्तियोग्याः,नित्यसंसारिणः,तमोयोग्याः चेति।तत्र प्रमाणं तु नीच मध्योच्च भेदेन जीवास्ते त्रिविध मताः इति च। तथा हि गीतायाम् त्रिविधा भवति श्रध्दा देहिनां सा स्वभवजा। सात्विकी राजसी चैव तामीसी चेति तां श्रुणु।।सम्पत्तु त्रिविधा प्रोक्ता उत्तमाधममध्यमाः ।। इति।।तथाहि त्रिगुणात्मकानां जीवानांअनुसारेण  श्रीकृष्णः तेषां फलं कथयति ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृतिस्था अधोगच्छन्ति तामसाः।।उत्तमा देवतास्तत्र ऋष्याद्या मध्यमामताः।अधमा मनुष्योत्कृष्टाः ते चापि त्रिविधा मताः ।।तत्र उत्तमाः-देवताः,मध्यमाः-ऋषयः,अधमाः-मनुष्येषु श्रेष्ठाः इत्यर्थः।

मुक्तियोग्याः-

उच्चास्तु मोक्षयोग्या हि सदा नारायणप्रियाः। ज्ञानानन्दवैराग्यभक्त्यादि गुणरूपकाः।।एते मुक्तियोग्याः मोक्षयोग्याः,सर्वदा नारायणप्रियाः,सुज्ञानाः आनन्दवैराग्यदिभिः भरिताःमुक्तियोग्याः उच्चाः इत्यर्थः।

मध्यमयोग्याः-

नित्यसंसारिणो ये तु मध्यमास्ते प्रकीर्तिताः। सदा संसृतिबद्धाश्च गुणदोशोभयात्मकाः।।ये संसारे बद्धाः,गुणदोशाभ्यां युताः नित्यसंसारिणःमध्यमाः।

अधमयोग्याः-

नीचास्तत्र तमोयोग्याः दुःखाज्ञनादिरूपिणः। अनादिद्वेषिणो विष्णौ दुर्लक्षणयुताः क्रमात्।।

दुर्लक्षणैः युताः विष्णौ द्वेषिणः । द्वेषादिभिः युताः।।

।।श्रीकृष्णार्पणमस्तु।।

जीवनस्य महत्वम्

आयुषः क्षण एकोsपि सर्वरत्नैर्न लभ्यते ।नीयते तद्वृथा येन प्रमादः सुमहानहो ।।

Even after giving all the gems, not a single movement of life returns. Those who spend these precious movements of life unnecessarily are making such a big mistake.  

विजयदासगुरुभ्यो नमः

हरिदासवरेण्याः सिद्धपुरुषाः महामहिमोपेताः श्रीविजयदासाः भक्तिमार्गं अवलम्ब्य नैकानि गीतरत्नानि कन्नडभाषया रचितवन्तः । तेषां पुण्यतिथिं पुरस्कृत्य रचितं किञ्चित् पद्यं प्रस्तूयते ।

संस्कृतदीपिका 2021

संस्कृतदीपिका 2021 वर्षीया षाण्मासिककक्ष्यायाः आरम्भः अस्मिन् नवम्बर् मासस्य विंशतौ दिनाङ्के भविष्यति । शताधिकं छात्राः अस्यां कक्ष्यायां पञ्जीकरणाय अभ्यर्थनानि प्रेषितवन्तः । तेषां सौकर्याय गूगल् ग्रूप संस्कृतिदीपिका इति नाम्ना आविष्कृतः । संस्कृतदीपिका 2021 इति वाट्सप् गणः अपि समारब्धः । सर्वेषां नवीनानां छात्राणां कृते आत्माश्रमस्य अध्यक्षाः आचार्याः स्वागतं व्याहृतवन्तः । अनेन माध्यमेन छात्राः अचिरादेव संस्कृतभाषायां निरर्गलतया सम्भाषयितुं प्रभवन्ति । आगच्छन्तु सर्वे । संस्कृतमातरं वयं आराधयामः ।

नरसिंहमन्त्रजपसमर्पणम्

सर्वेषां नरसिंहजयन्तीपर्वणः शुभाशयाः । जगदाद्यन्तं अस्मान् पीडयन्तीं कोरोनामहामारीं जगतः विद्रावयितुं कृतपरिकराः जगद्गुरवः श्री 1008 श्री सत्यात्मतीर्थाः 14,000 नरसिंहमन्त्रजपं कर्तुं आज्ञापयापासुः । अस्मिन् नरसिंहजयन्ती पर्वणि तत्समारोपं पुरस्कृत्य नरसिंहमन्त्रस्थपदकदम्बेन समुल्लसन्तीं कांश्चन कवितां जनोयं उपनिबबन्ध । तदास्वाद्यतां पद्यरसः ।

उग्रं ह्युग्रनखत्विषा प्रमुषिताज्ञानान्धकारापदं

वीरं घोररिपुप्रचण्डनिनदप्रध्वंससर्वाननम्

मुत्योर्मृत्युमनन्तसौख्यदमहाविष्णुं नृसिंहाकृतिं

वन्दे भद्रमभद्रभीषणमहं प्रत्युज्वलन्तं हरिम् ।।