बालानां मुग्धता सर्वान् आकर्षत्येव । अस्माकं गुरुकुले अद्य बालानां मुग्धभावं अधिकृत्य आशुश्लोकरचनस्पर्धा समभवत् । तत्सन्दर्भे मया सह छात्रैः गुम्फितेयं पद्यावली अत्र प्रस्तूयते ।
किं रे त्वं वद जग्धवानिह मृदं रामो वदत्यग्रजो
नैवाम्बाहमनिन्दितो न जघस प्रेक्षस्व कामं मुखम् ।
इत्येवं प्रसमीक्ष्य बालचरितं तस्थौ स्मयन्ती प्रसूः
बालानां किल मुग्धचेष्टितरसैः को वा न सन्तुष्यति ।। – मदीयं पद्यं
अन्तरात्मा राचूरि
मुग्धास्यस्रुतपीतदुग्धसुचणैः आस्यस्थतत्तर्जकैः
जग्धिप्राशनदुःसहद्विजजनिप्रोद्दष्टताताङ्गजैः ।
मासृण्यापटुवाग्भिराशु मसृणप्रोद्गण्डसच्चूटनैः
मुग्धैः बालकलस्मयैर् जितहृदो धन्याः पितृृणां गणाः ।।
शुभाङ्ग कट्टे
पयःफेनस्मायो मधुरवदनोद्भूतचिबुक-
प्रभूताभीष्वाश्लिष्टसकलजनोन्मेषनयनः ।
कलाकीर्णव्यामोहरसनिनदोन्मेषलसितः
करार्धास्यो बालः कमिह मुदितं नोपचिनुते ।।
हसितसुवदनप्रभूतलालारसमसृणश्रमताम्यदुद्घलीलः ।
करकलितलवामितक्षिपः सच्छिशुरशिवं न रुणद्धि कं महान्तम् ।।
अनन्तराचूरि
क्वचित् विमुच्यासमयान् सुगोधनान्
हसन् स्वगोप्यः परिपीडयिष्यति ।
कुर्वन् ह्यकार्याण्यपि मोहयन् प्रजाः
मुग्धस्वभावैः परिपातु नः प्रभुः ।।