प्लवयुगादिः

अयि सृहदः,

साम्प्रतं नूतनवर्षोदयः । आदधाति कामपि विनूतनां शोभाम् । पल्लविता नववनराजिः । स्वागतीकरोति एनां कोकिलध्वनिः । समुल्लसति नृणां चेतसि कापि आशाज्योतिः । प्राप्तकालोयं विकारिवर्षस्य करोनाकृतान् विकारान् विस्मृत्य प्लवं आरुढाः सन्तः दुःखसागरं तर्तुम् । यद्यप्यस्ति प्लवेपि करोनासङ्कटः । किन्तु नूतनाब्दस्य नवीनस्फूर्तिः प्लव इव क्लेशात् अस्मात् संतारयिष्यति इति आशास्यते । प्लवेति अस्य नूतनवर्षस्य अन्वर्थकं नाम । तदिदं पद्यम् –

दुःखानलोत्तप्तधियां नराणां

क्लेशाम्बुधौ लीनमनोरथानाम् ।

वितारकाणां प्लवनोत्सुकानां

भूयात् प्लवोऽयं प्लवनामकोऽब्दः ।।

बालानां मुग्धभावः

बालानां मुग्धता सर्वान् आकर्षत्येव । अस्माकं गुरुकुले अद्य बालानां मुग्धभावं अधिकृत्य आशुश्लोकरचनस्पर्धा समभवत् । तत्सन्दर्भे मया सह छात्रैः गुम्फितेयं पद्यावली अत्र प्रस्तूयते ।

किं रे त्वं वद जग्धवानिह मृदं रामो वदत्यग्रजो

नैवाम्बाहमनिन्दितो न जघस प्रेक्षस्व कामं मुखम् ।

इत्येवं प्रसमीक्ष्य बालचरितं तस्थौ स्मयन्ती प्रसूः

बालानां किल मुग्धचेष्टितरसैः को वा न सन्तुष्यति ।। – मदीयं पद्यं

अन्तरात्मा राचूरि

मुग्धास्यस्रुतपीतदुग्धसुचणैः आस्यस्थतत्तर्जकैः

जग्धिप्राशनदुःसहद्विजजनिप्रोद्दष्टताताङ्गजैः ।

मासृण्यापटुवाग्भिराशु मसृणप्रोद्गण्डसच्चूटनैः

मुग्धैः बालकलस्मयैर् जितहृदो धन्याः पितृृणां गणाः ।।

शुभाङ्ग कट्टे

पयःफेनस्मायो मधुरवदनोद्भूतचिबुक-

प्रभूताभीष्वाश्लिष्टसकलजनोन्मेषनयनः ।

कलाकीर्णव्यामोहरसनिनदोन्मेषलसितः

करार्धास्यो बालः कमिह मुदितं नोपचिनुते ।।

हसितसुवदनप्रभूतलालारसमसृणश्रमताम्यदुद्घलीलः ।

करकलितलवामितक्षिपः सच्छिशुरशिवं न रुणद्धि कं महान्तम् ।।

अनन्तराचूरि

क्वचित् विमुच्यासमयान् सुगोधनान्

हसन् स्वगोप्यः परिपीडयिष्यति ।

कुर्वन् ह्यकार्याण्यपि मोहयन् प्रजाः

मुग्धस्वभावैः परिपातु नः प्रभुः ।।

श्री१००८श्रीमत्सत्यात्मतीर्थानां वर्धन्तीमहोत्सवः

सद्यः प्रद्योतनत्विड्विकसितकमलप्रोदयेनैव गोभिः

प्रातर्लोकोयाप्तिर्भवति जगति सद्भास्करोद्यत्करैश्चेत् ।

एवं सत्यात्मतीर्थस्फुटशुचिकमलोद्यन्मनोज्ञोदयेन

प्राप्नोत्वानन्दतीर्थागममहदुदयो मन्मनीषाप्रपञ्चे ।।1।।

वाग्धाटीशोधिताशः पटुकरणनतासङ्ख्यकोटीश्वरो यः

शाटीभाषस्तटी यो भवपृथुजलधेः पाटिताशेषदोषः ।

टीकाप्रज्ञो नटी यः स्फुटहरिभगवत्पादभावप्रकाशे

टीकामाटङ्क्य चित्ते दिशतु पदरतिं श्रीसदात्मा गुरुर्मे ।।2।।

श्री श्री श्री १००८ श्री सत्यात्मतीर्थश्रीपादानां वर्धन्ती महोत्सवः

श्री जयतीर्थगुरुभ्यो नमः

श्री पादानां वर्धन्तीनिमित्तं रचितः श्लोकः

श्लोकरचयिता – अनन्तः

गोकुलम्

प्रातर्यास्यति माधवो मधुपुरीमित्थं मिथो जल्पितम्

कर्णाकर्णिकयाकलय्य सहसा सर्वं सदा गोकुलम् ।

ऊरुन्यस्तकफोणि गण्डविलसत्पाणि प्रकामस्खलद्बा

ष्पश्रेणि पदाङ्गुलीविलिखितक्षोणि क्षणेनाभवत् ।।

गोकुलं श्रीकृष्णसन्निधानेन प्रेमोत्फुल्ला समुल्लसति । कूजद्भिः विहङ्गमैः, नृत्यद्भिः बर्हिभिः, लुटद्भिः प्लवङ्गमैः, रणद्भिः नूपुरैः, क्वणद्भिः किङ्किणीभिः, झींकुर्वद्भिः कुञ्जरैः, गर्जद्भिः शार्दूलैः, कूर्दद्भिः हरिणैः, झणक्षणायमाणवलयसङ्घट्टनैः, रासोत्सवरताभिः गोपीभिः भुवमवतीर्णं वैकुण्ठपुरमिव शुशुभे वृन्दावनम् । कंसप्रेशितः अक्रूरः श्रीकृष्णं मधुरापुरीं नेतुं समाजगाम । इमां वार्तां श्रुत्वा गोकुलस्य का दशा जाता इति अस्मिन् पद्ये निरूप्यते ।

बन्नञ्जे संस्मरणम्

बन्नञ्जे संस्मरणम्

श्रीबन्नञ्जेत्युपाह्वो विलसतु हृदये पूज्यगोविन्दवर्यो

वेदव्यासाङ्घ्रिपद्म-प्रणतमहिमसन्मध्वसिद्धान्तदक्षः ।

प्रत्यग्र-प्रेमपूर्ण-प्रवचनपरिपाटीप्रबन्धप्रबुद्धो

नानाशिष्यप्रकीर्ण-प्रमुदकुमुदसं-तोषकेन्दुप्रकल्पः ।।   – कविराघवेन्द्रः

Let us always remember Sri Poojya Bannanje Govindacharya, Who was an unparalleled authority on Madhwa Siddhanta, propounded by Acharya Madhwa, the ever devoted at the feet of Lord Vedavyasa.

Who was a foremost exponent of the art of discoursing, remarkably filled with creativity, compassion and care.

Who is the harbinger of pure bliss to multitude of Sishyas worldwide, like the splendid moon bringing joy to the lotuses.

ವೇದವ್ಯಾಸಾಂಘ್ರಿನಿಷ್ಠರಾದ ಶ್ರೀಮಧ್ವಾಚಾರ್ಯರ ಸಿದ್ಧಾಂತದಲ್ಲಿ ದಕ್ಷರು,

ಶ್ರೇಷ್ಠವೈಚಾರಿಕತೆಯನ್ನೊಳಗೊಂಡ, ಶಿಷ್ಯವಾತ್ಸಲ್ಯದಿಂದ ಕೂಡಿದ ಪ್ರವಚನ ಕಳಾ ಪ್ರಬುದ್ಧರು,

ವಿವಿಧ ಬಗೆಯ ಶಿಷ್ಯ ಕುಮುದಾವಳಿಗಳಿಗೆ ತುಂಬು ಸಂತಸವವೆಂಬ ವರವಿತ್ತ ಚಂದ್ರರು.