श्रीगुरुभ्यो नमः
श्रीजयतीर्थगुरुभ्यो नमः
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । तद्दृष्ट्वा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ।।
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् …….
श्रीमन्महाभारतम्,आदिपर्व,संभवपर्व,सप्ताधिकशततमोऽध्यायः

आसीत्पुरा तुङ्गतरङ्गगङ्गानन्दनः, अधीतसकलशास्त्रः, भार्गवेण अभ्यस्तशस्त्रवेदः, शन्तनुमनोरथरथसारथिः,रक्तः कृष्णपादयोः,विरक्तः दूषणेषु,सिंहसंहननः शान्तनवो भीष्मो नाम । अयमंशो वसूनां शापान्मानुषत्वमवाप । त्रिपथगाप्रसूनः बाल्य एव अभ्यस्तसकलशस्त्रास्त्रः बृहस्पतिपरशुरामयोः पञ्चशतवर्षमधिजगे । सकलनिगमपक्वान्तःकरणोऽसौ आरूढयौवराज्योऽपि पितृपुनर्विवाहाय भीष्मं प्रतिजज्ञे । नाम्ना भीष्मतां जगाम। तत्याज च सिंहासनम् । अप्यायत पितुर्मोदम् । सोऽयं भीष्मोऽपि साधुष्वभीष्मः । वज्रकायः देवलावण्यवान् विजितसकलनृपतिः अम्बिकाम्बालिके प्राप्य स्वानुजाभ्यामवाहयत् । अद्यायत्स्वपरिणयाय । द्वैपायनानुग्रहसम्भूतविचित्रवीर्यात्मजान् संदृश्य सुमोदमन्वभवत् । अमोदत पौत्रैः धृतराष्ट्रपाण्डुविदुरैः । कालान्तरे स्वदुष्टपौत्रान्नाशनेन क्षारपय इव कालतः कुबुद्धिलीनबुद्धिः दुष्कर्माणि चकार । कदाचित् महाभारते तत्समयमपहाय स्वप्रतिज्ञामृतमधिकर्तुं कृपाकरः दैवकिः पाणिकृतरथचरणः संहर्तुं गाङ्गेयं ससर्प । तेन कृतार्थोऽसौ प्रसङ्गान्तरे पाण्डवेन छिन्नकायः भगवति कृतरतिः शरशय्यां स्वाधिवासं मनुते स्म । अन्ते कृतोपदोशो युधिष्ठिराय भगवन्तमनुस्मरन् स्वासून् जहौ ।