संस्कृतसुरभिः – 2

प्रियसंस्कृतरसिकाः, स्वागतम् । अद्य वयं सस्कृतसुरभ्याः द्वितीयं कुसुममादाय समुपस्थिताः । अद्यतनशब्दः अस्ति अश्वः । ननु भवद्भिः कदाचित् धावन् अश्वो दृष्टः । धावन्तं अश्वं दृष्ट्वा खलु बालाः पश्य – अश्वो धावति – इति सहर्षं उद्गिरन्ति । अश्वाः विविधवर्णाः भवन्ति । श्वेताः, कृष्णाः, रक्ताः, धूसराः इत्यादि । अश्वाः आशुगाः भवन्ति । प्राचीनकाले अश्वाः युद्धे गमनागमने च प्रधानसाधनानि भवन्ति स्म । क्षत्रियाः अश्वविद्यायां सुशिक्षिताः भवन्ति स्म । अश्वाः रथेषु अपि योज्यन्ते स्म । अद्यत्वे अश्वानां स्पर्धाः अपि संयोज्यन्ति । अश्वस्वामी बहुलं धनं समुपार्जयति । अश्वाः रज्जुशारदं उदकं पिबन्ति ।

कठिनपदानि

रज्जुशारदम् उदकम् – रज्जुना प्रत्यग्रं उद्धृतं उदकंम् । शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारामुच्यते। रज्जुशदः सृजेरसुम् चेति उप्रत्ययान्तः आदिलोपश्च। धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment