श्रीमद्भागवते द्वितीयस्कन्धे प्रथमाध्याये वैराजाख्यस्थूलरूपस्य धारणाश्रयत्वं –
विशेषस्तस्य देहोयं स्थविष्ठश्च स्थवीयसाम् ।
यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ।।
आण्डकोशे शरीरेस्मिन् सप्तावरणसंयुते ।
वैराजः पुरुषो योसौ भगवान् धारणाश्रयः ।।
इत्यादिभिः श्लोकैः प्रतिपादितम् । एतच्च भगवतो विराण्णामकस्य स्थूलरूपस्य धारणं मनोयजसाधनीभूतोपाययोः आद्यत्वेन संक्षेपविस्तराभ्यां प्रतिपादितम् । ततः द्वितीयाध्याये मनोजये मुख्यतो भगवद्वाचकैः इन्द्राग्न्यादिभिः पदैः इतरार्थास्मरणरूपं द्वितीयसाधनं विधातुं सर्वनाम्नां भगवानेव मुख्यवाच्यः इति सप्रमाणं प्रपञ्चितं
शब्दस्य हि ब्रह्मण एष पन्थाः यन्नामभिर्ध्यायति धीरपार्थैः ।
परिभ्रमंस्तत्र न विन्दतेर्थान् मायामये वासनया शयानः ।।
इति श्लोके ।
जीवः इन्द्रादिनामभिः यत्पुरन्दरादिकं ध्यायति तर्हि ततः पुरुषार्थान् न प्राप्नोति । इन्द्रादिनाम्नां मुख्यतो तदवाचकत्वात् । यच्च तस्य जीवस्य पुरन्दरादिकमेव इन्द्रादिशब्दवाच्यं इति मतिः सा भ्रान्तिरेव । यतोहि अस्मिन् भगवदिच्छाधीनप्रकृतिनिर्मिते संसारे अनादिभूतया अविद्यया संस्कारेण वा बद्धः जीव। अतो सः ईशमायया मोहितः विभ्रमति । अपरिमितस्यापि शब्दजातस्य श्रीहरिः एव पन्थाः मुख्यमार्गः मुख्यवाच्यः इति सः न जानाति । पुरन्दरादिष्वपि इन्द्रादिशब्दप्रवृत्तौ श्रीहरिरेव मार्गः इत्यपि च ज्ञातव्यम् । मां विधत्ते अभिधत्ते माम् विकल्पापोह्य इत्यहं इत्यादि प्रमाणसिद्धमिदम् ।
अनेन अनुमानमपि श्रीहरेः सर्वशब्दमुख्यवाच्यत्वे कथितं भवति –
हरिः अशेषेन्द्रागिशब्दमुख्यवाच्यः तथा ध्यानेन पुरुषार्थत्वात् व्यतिरेकेण इन्द्रादिवत् इति ।