हिमालयः

भारतवर्षमूर्धन्यालङ्कृतः नगाधिराजः हिमालयो नाम पृथिव्याः मानदण्ड इव पूर्वपश्चिमौ समुद्रौ प्रविश्य विराजते । तस्मिन् भरतवर्षस्य मुकुटायमाने पर्वते भास्वन्ति रत्नानि भास्वत्यः महौषधयः च भूरिशः समुल्लसन्ति । स भारतीयानां सर्वकामानां दोग्धा इव विराजते । धरित्र्याः शोभां वर्धयन् अयं नगः देवतया अधिष्ठितः इति अस्य नगस्य देवभूमित्वं पुराणेषु प्रसिद्धम् । सर्वासु जातिषु यद् यद् उत्कृष्टं तत्सर्वं अत्र समुपलभ्यते । प्रायः अनेनैव कारणेन सर्वोत्कृष्टरत्नविशेषभोक्तृत्वात् अस्य नगाधिराजत्वं उपपन्नं इति मन्यामहे ।

अतिमेघमण्डलमस्यौन्नत्यं तिष्ठति । सिद्धाः वृष्टिभिः उद्वेजिताः अस्याः आतपवन्ति श्रृङ्गाणि आश्रयन्ति ।

Published by आत्माश्रमगुरुकुलम्

गीर्वाणतरङ्गिणीविलसत्पृषत्बिन्दुः

Leave a comment