• नवरात्रोत्सवे दुर्गामाहात्म्यम्

    विदितमेव तत्र भवतां भवतां यत् –  
    अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् 
    गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ।।
     
    इत्यादिना भारतस्य पुण्यक्षेत्रत्वेन प्रसिद्धिः संवर्तते । इह भारते उत्पन्नाः पुण्यकर्मिणः पुण्यात्मान इत्येव गदितुमलम् । भारतीयाः खलु उत्सवप्रियाः। वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्वचित् प्रचलत्येव । महती खलु भारतीया सांस्कृतिकपरम्परा । विदेशेषु अपि उत्सवाः क्रियन्ते तथापि नैव ते भारतीयोत्सवसदृशाः । तेषु धार्मिकतापि विरलायते । विरामदिनेेष्वेव उत्सवानां आचरितत्वेन उत्सवाः इच्छानुगुण्येन कादाचित्काः न अवश्यमेव आचरणीया इति वैदेशिकाः मन्यन्ते । भारते तु  दीपवली गणेशचतुर्दशी होलिका कृष्णाष्टमी इत्यादयः उत्सवाः स्वीय-सांस्कृतिकतायाः धार्मिकतायाश्च प्रतीकाः सन्तः इहत्यजनानां आचारनिष्ठां अध्यात्मनिष्ठां च प्रतिमानयन्ति । भारतीयाजनानां आचारान्तर्गतत्वेन एते उत्सवाः आचारा इत्येव कथ्यन्ते । तथा च भारतीयानामाचारा एव उत्सवा इति सिद्ध्यति । एतेषु आश्वीनशुक्लप्रतिपदमारभ्य आश्वीनशुक्लदशम्यन्तं आचर्यमाणः नवरात्रोत्सवः अन्यतमः सर्वेषां मुदावहः उत्सवः वर्तते । नवानां रात्रीणां समूहः नवरात्रिरिति कथ्यते । नवरात्रमिति नवरात्रिरिति च व्यपदिशन्ति जनाः । जनैः नवरात्रोत्सवे भगवती अष्टादशभुजवती महालक्ष्मीस्वरूपिणी चतुःसिंहरथस्थिता दुर्गा प्रपूज्यते ।
    स्वसृष्टमिदमापीय शयानं सह शक्तिभिः।

    तदन्ते बोधयाञ्चक्रुस्तैर्लिङ्गैः श्रुतयः परं ।।

    इत्युक्तरीत्या भागवते अपि श्रुतिगीतायां दुर्गायाः माहात्म्यं कथितम् । स्वेन(भगवता) सृष्टं इदं(विश्वं) प्रलयाकाले आपीय(संहृत्य) शक्तिभिः(शक्तिशब्दवाच्य-श्रीभूदुर्गाः ताभिः) सह शयानं तं परं परमात्मानं श्रीभूदुर्गाः बोधयाञ्चक्रुः (समस्तुवन्)।। मूलप्रकृतिः श्रीभूदुर्गारूपैः नारायणेन सह प्रलयकाले शेते। लक्ष्मीः श्रुतिनामकेन दुर्गारूपेण विष्णुं जयजयेत्यादिभः वचनैः स्तवीति । महालक्ष्मीस्वरूपिणी दुर्गा अनन्तेषु वेदेषु काळी,भद्रेत्यादि नाना शब्दवाच्या भवति । श्रीभूदुर्गाः सृष्टिस्थित्यन्तकारिण्यः । तत्र श्रीरूपेण सृजति, भूरूपेण रक्षति, दुर्गारूपेण च नाशयति । एवं लक्ष्मीरेव रूपभेदेन महान्तं
    कार्यजातं सम्पादयति । एवं लक्ष्मीरूपेष्वन्यतमं यद्दुर्गारूपं सैव नवरात्रिसन्दर्भे विशिष्य पूजनीया बहुषु देशेषु तत्प्रान्तमाश्रिताः विवधरूपेण पूजयन्ति । सैव महिषासुरमर्दिनी दुर्गा भविष्यत्काले केरळदेशे पयस्विनीतटे समुद्भूता सती सर्वान् दुष्टजनान् संहृत्य शिष्टजनान् परिरक्षति । एषा एव हि दुष्टं सर्वजनभयप्रदं कंसं भाययितुं कंसहस्तात् नभस्थलमुत्पपात । अपि च धर्मस्थितः धर्मराजः विराटयुद्धार्थं प्रस्थितस्सन् सन् बहुधा दुर्गां अस्तावीत् । तया स्तुत्या सन्तुष्टया महादेव्या अनुगृहीतः सः सङ्ग्रामे शत्रान् अजैषीत् । तस्याः स्मरणमात्रेणैव चिन्तितं सर्वमपि सम्पन्नं भवति । यथोक्तम् – दुःखदारिद्र्यनाशाय संग्रामे विजयाय च । क्रूरशत्रुविनाशर्थं तथोग्रकर्मसाधने । दुर्गाञ्च पूजयेत् भक्त्या परलोकसुखाय च इति। दुर्गायाः पूजा दुखदारिद्र्यनाशाय, सङ्ग्रामे विजयाय, परलोकसुखाय समर्था भवति । दुर्गाशब्दोच्चारणमाहात्म्यं तु – दकारः दैत्यनाशकः,उकारः विघ्ननाशकः,रेफः रोगघ्नः, गकारः पापघ्नः,अकारः भयनाशकः। सर्वाणि दुर्गाणि नाशयति इति दुर्गा । दुर्गापूजा विशिष्य नवरात्रोत्सवे तदीयदुष्टमहिषासुर -संहाररूपघटनायाः स्मरणार्थं नवरात्रोत्सवम् आचरन्ति । विजयदशम्याः संयोजनेन अयं दशदिनोत्सवः सम्पद्यते । मैसूरुनगरस्य राजसु नवमः ‘राजवडेयर’ इति ख्यातनामधेयः राजा दशाधिकषोडशशत (१६१०)तमे क्रिस्ताब्दे नवरात्रमहोत्सवं प्रारभत । श्रीरङ्गपत्तनम् उत्सवस्य स्थानम् आसीत् नवनवत्यधिकसप्तदशशत (१७९९) तमे वर्षे मुम्मडिकृष्णराजवडेयरमहोदयः मैसूरुनगरे नवरात्रोत्सवम् आचरितुम् आरब्धवान् । तत आरभ्य मैसूरुनगरे महता वैभवेन अनुष्ठीयते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः मैसूरुनगरे अतिशयेन वैभवेन अनुवर्तते । राजस्थानराज्ये महालक्ष्मीं पूजयन्ति । तत्र जनाः महालक्ष्मीदेवालयस्य गमनमेव जैत्रयात्रा इति मन्यमानाः भगवत्याः
    देवालयं गत्वा पूजाम् अर्पयन्ति । महाराष्ट्रराज्ये अलङ्कृतानां गजानां शोभायात्रा प्रचलति । उत्तरभारते नवरात्रदिनेषु ‘रामलीला’ इति प्रसिद्धम् उत्सवं आचरन्ति। बहुषु राज्येषु शमीपूजा, शमीपत्रवितरणं च प्रवर्तते । नवतिथिषु दुर्गारूपिण्याः महालक्ष्म्याः नवरूपाणि पूज्यन्ते १)शैलपुत्री २)ब्रह्मचारिणी ३)चन्द्रघण्टा ४)कूष्माण्डा ५)स्कन्दमाता ६)कात्यायनी ७)कालरात्रिः ८)महागौरी ९)सिद्धिदात्री एताः नवदुर्गाः नवरात्रे पूज्यन्ते । नवभिर्लभते भूमिमैश्वर्यं लभते ननु इत्युक्तदिशा दुर्गायाः नवरूपपूजनेन विद्यापेक्षिणः विद्यां, धनार्थिनः धनं लभन्ते । भगवती जगदम्बा दुर्गामाता जगति सर्वेभ्यः श्रद्धालुभ्यः शक्ति-विद्या-बुद्धि-मेधेत्यादिभिः संपुष्णातु ।।

  • ATTENTION : All Sanskrit Learners and Enthusiasts! [High School Students, College Students and Everyone]

    Ramotsava – Padyabhiramam (श्रीरामोत्सवपद्याभिरामम्) from Atmashrama

    Dear All,

    As you all know, we have a grand inauguration (Praana Pratishtapane) of Sri Rama at Ayodhya on Jan 22, 2024. As part of the celebration of this auspicious and mega event through out the country, Atmashrama invites all Sanskrit enthusiasts to participate in an exciting Sanskrit Shloka Competition on Lord Sri Rama.

    I am interested. How can I participate?

    The participants are required to carefully follow the instructions and compose the verse(s) in Sanksrit. After completing the composition and verification they are required to submit their entries using the google form link provided below before JAN 17, 2024.

    Google form link to submit your entries http://bit.ly/ramotsava

    Please share this post and google form with all your friends, relatives and colleagues to get it a wide reach and maximum participation accross all schools, colleges, universities and gurukulas. As there is no age restriction, all Sanskrit enthusiasts can participate to show the world how much Lord Sri Rama is valued in this country.

    For more information, visit : https://atmashrama.org/index.php/aa-pages/content/announcements/402-ramotsava-padyabhiramam

  • श्रीमद्भागवते द्वितीयस्कन्धे प्रथमाध्याये वैराजाख्यस्थूलरूपस्य धारणाश्रयत्वं –

    विशेषस्तस्य देहोयं स्थविष्ठश्च स्थवीयसाम् ।

    यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ।।

    आण्डकोशे शरीरेस्मिन् सप्तावरणसंयुते ।

    वैराजः पुरुषो योसौ भगवान् धारणाश्रयः ।।

    इत्यादिभिः श्लोकैः प्रतिपादितम् । एतच्च भगवतो विराण्णामकस्य स्थूलरूपस्य धारणं मनोयजसाधनीभूतोपाययोः आद्यत्वेन संक्षेपविस्तराभ्यां प्रतिपादितम् ।  ततः द्वितीयाध्याये मनोजये मुख्यतो भगवद्वाचकैः इन्द्राग्न्यादिभिः पदैः इतरार्थास्मरणरूपं द्वितीयसाधनं विधातुं सर्वनाम्नां भगवानेव मुख्यवाच्यः इति सप्रमाणं प्रपञ्चितं

    शब्दस्य हि ब्रह्मण एष पन्थाः यन्नामभिर्ध्यायति धीरपार्थैः ।

    परिभ्रमंस्तत्र न विन्दतेर्थान् मायामये वासनया शयानः ।।

    इति श्लोके ।

    जीवः इन्द्रादिनामभिः यत्पुरन्दरादिकं ध्यायति तर्हि ततः पुरुषार्थान् न प्राप्नोति । इन्द्रादिनाम्नां मुख्यतो तदवाचकत्वात् । यच्च तस्य जीवस्य पुरन्दरादिकमेव इन्द्रादिशब्दवाच्यं इति मतिः सा भ्रान्तिरेव । यतोहि अस्मिन् भगवदिच्छाधीनप्रकृतिनिर्मिते संसारे अनादिभूतया अविद्यया संस्कारेण वा बद्धः जीव। अतो सः ईशमायया मोहितः विभ्रमति । अपरिमितस्यापि शब्दजातस्य श्रीहरिः एव पन्थाः मुख्यमार्गः मुख्यवाच्यः इति सः न जानाति । पुरन्दरादिष्वपि इन्द्रादिशब्दप्रवृत्तौ श्रीहरिरेव मार्गः इत्यपि च ज्ञातव्यम् । मां विधत्ते अभिधत्ते माम् विकल्पापोह्य इत्यहं इत्यादि प्रमाणसिद्धमिदम् ।

    अनेन अनुमानमपि श्रीहरेः सर्वशब्दमुख्यवाच्यत्वे कथितं भवति –

    हरिः अशेषेन्द्रागिशब्दमुख्यवाच्यः तथा ध्यानेन पुरुषार्थत्वात् व्यतिरेकेण इन्द्रादिवत् इति ।

  • प्रियसंस्कृतरसिकाः, ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति । स हि सर्वस्य कर्ता , पालकः, संहारकश्च । स एव सर्वस्य स्वामी । सः सर्वस्य ईष्टे । अत एव वेदाः तं जगज्जन्मादिकारणत्वेन वर्णयन्ति । यतो वा इमानि भूतानि जायन्ते यतो जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति इत्यादीनि वचनानि सन्ति ।

  • प्रियसंस्कृतरसिकाः, स्वागतम् । अद्य वयं सस्कृतसुरभ्याः द्वितीयं कुसुममादाय समुपस्थिताः । अद्यतनशब्दः अस्ति अश्वः । ननु भवद्भिः कदाचित् धावन् अश्वो दृष्टः । धावन्तं अश्वं दृष्ट्वा खलु बालाः पश्य – अश्वो धावति – इति सहर्षं उद्गिरन्ति । अश्वाः विविधवर्णाः भवन्ति । श्वेताः, कृष्णाः, रक्ताः, धूसराः इत्यादि । अश्वाः आशुगाः भवन्ति । प्राचीनकाले अश्वाः युद्धे गमनागमने च प्रधानसाधनानि भवन्ति स्म । क्षत्रियाः अश्वविद्यायां सुशिक्षिताः भवन्ति स्म । अश्वाः रथेषु अपि योज्यन्ते स्म । अद्यत्वे अश्वानां स्पर्धाः अपि संयोज्यन्ति । अश्वस्वामी बहुलं धनं समुपार्जयति । अश्वाः रज्जुशारदं उदकं पिबन्ति ।

    कठिनपदानि

    रज्जुशारदम् उदकम् – रज्जुना प्रत्यग्रं उद्धृतं उदकंम् । शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारामुच्यते। रज्जुशदः सृजेरसुम् चेति उप्रत्ययान्तः आदिलोपश्च। धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः

  • संस्कृतसुरभिः – 1

    प्रियाः संस्कृतप्रणयिनः, सुस्वागतम् । संस्कृतसुरभिः स्वसुगन्धगन्धं सर्वरसजुषां परितोषाय परिवेशयत्यस्मिन् मञ्चे प्रेषक्रमेण ।

    अद्यतनः शब्दः अस्ति अनलः । अनलो नाम अग्निः । अस्य क्वचित् वह्निः, कृष्णवर्त्मा इत्यादीनि पर्यायपदान्यपि कोशेषु पठ्यन्ते । भवन्तः अस्मिन् विषये अधिकज्ञानार्थं अमरकोषं द्रष्टुमर्हन्ति ।

    अनलस्य स्वभावः अस्ति उष्णस्पर्शवत्त्वम् । अग्निस्पर्शनेन दाहो जायते इति सर्वानुभवसिद्धमिदम् । परं शिशवः एतन्नाजानन्ति । अतः पितरौ चिन्ताक्रान्ताः भवन्ति । वदन्ति च – अग्निं मा स्पृश , सः त्वां दहेत् इति ।

  • भारतवर्षमूर्धन्यालङ्कृतः नगाधिराजः हिमालयो नाम पृथिव्याः मानदण्ड इव पूर्वपश्चिमौ समुद्रौ प्रविश्य विराजते । तस्मिन् भरतवर्षस्य मुकुटायमाने पर्वते भास्वन्ति रत्नानि भास्वत्यः महौषधयः च भूरिशः समुल्लसन्ति । स भारतीयानां सर्वकामानां दोग्धा इव विराजते । धरित्र्याः शोभां वर्धयन् अयं नगः देवतया अधिष्ठितः इति अस्य नगस्य देवभूमित्वं पुराणेषु प्रसिद्धम् । सर्वासु जातिषु यद् यद् उत्कृष्टं तत्सर्वं अत्र समुपलभ्यते । प्रायः अनेनैव कारणेन सर्वोत्कृष्टरत्नविशेषभोक्तृत्वात् अस्य नगाधिराजत्वं उपपन्नं इति मन्यामहे ।

    अतिमेघमण्डलमस्यौन्नत्यं तिष्ठति । सिद्धाः वृष्टिभिः उद्वेजिताः अस्याः आतपवन्ति श्रृङ्गाणि आश्रयन्ति ।

  • समेभ्यः श्रीकृष्णजन्माष्टमीपर्वणः शुभाशयान् वितरामि । अस्मिन् सन्दर्भे मदीया काचन कविता अत्र प्रस्तूयते । तद्विदाङ्कुर्वन्तु सज्जनाः ।

    स मातापितृभ्यां नयनशुभगाभ्यां परिलसन्-

    मुखश्रीसक्ताभ्यां हरिरिह सदामोदजनकः ।

    क्वणत्काञ्चीदामप्रकटसुममालाविलसितः

    शिशोर्भावं यातः सुतकलितदृग्भ्यां परिदधे ।।

    इह नयनशुभगाभ्यां परिलसन्मुखश्रीसक्ताभ्यां सुतकलितदृग्भ्यां मातापितृभ्यां शिशोर्भावं यातः क्वणत्काञ्चीदामप्रकटसुममालाविलसितः सदामोदजनकः सः हरिः परिदधे ।।

    साक्षान्नारायणः देवकीवसुदेवयोः सुतत्वेन अवततार । तदा जनकौ आश्चर्यचकिताभ्यां स्वनयनाभ्यां श्रीकृष्णं दधतुः । तौ जनकौ सदा श्रीकृष्णमुखकान्तिं अवलोक्य तत्रव अनुरक्ताः अभूताम् । श्रीकृष्णः तयोः आनन्दप्रदः आसीत् । न केवलं तेषां अपि तु सर्वेषां जनानां अपि श्रीकृष्णः आन्दामोददायकः एव । स भगवान् महतो महीयान् अपि इदीनां शिशोर्भावं प्राप्तः सर्वोषां मनोनयनशुभगः सन् विराजते । तादृशः कृष्णः अस्मान् सदा रक्षतु ।।