• ATTENTION : All Sanskrit Learners and Enthusiasts! [High School Students, College Students and Everyone]

    Ramotsava – Padyabhiramam (श्रीरामोत्सवपद्याभिरामम्) from Atmashrama

    Dear All,

    As you all know, we have a grand inauguration (Praana Pratishtapane) of Sri Rama at Ayodhya on Jan 22, 2024. As part of the celebration of this auspicious and mega event through out the country, Atmashrama invites all Sanskrit enthusiasts to participate in an exciting Sanskrit Shloka Competition on Lord Sri Rama.

    I am interested. How can I participate?

    The participants are required to carefully follow the instructions and compose the verse(s) in Sanksrit. After completing the composition and verification they are required to submit their entries using the google form link provided below before JAN 17, 2024.

    Google form link to submit your entries http://bit.ly/ramotsava

    Please share this post and google form with all your friends, relatives and colleagues to get it a wide reach and maximum participation accross all schools, colleges, universities and gurukulas. As there is no age restriction, all Sanskrit enthusiasts can participate to show the world how much Lord Sri Rama is valued in this country.

    For more information, visit : https://atmashrama.org/index.php/aa-pages/content/announcements/402-ramotsava-padyabhiramam

  • श्रीमद्भागवते द्वितीयस्कन्धे प्रथमाध्याये वैराजाख्यस्थूलरूपस्य धारणाश्रयत्वं –

    विशेषस्तस्य देहोयं स्थविष्ठश्च स्थवीयसाम् ।

    यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ।।

    आण्डकोशे शरीरेस्मिन् सप्तावरणसंयुते ।

    वैराजः पुरुषो योसौ भगवान् धारणाश्रयः ।।

    इत्यादिभिः श्लोकैः प्रतिपादितम् । एतच्च भगवतो विराण्णामकस्य स्थूलरूपस्य धारणं मनोयजसाधनीभूतोपाययोः आद्यत्वेन संक्षेपविस्तराभ्यां प्रतिपादितम् ।  ततः द्वितीयाध्याये मनोजये मुख्यतो भगवद्वाचकैः इन्द्राग्न्यादिभिः पदैः इतरार्थास्मरणरूपं द्वितीयसाधनं विधातुं सर्वनाम्नां भगवानेव मुख्यवाच्यः इति सप्रमाणं प्रपञ्चितं

    शब्दस्य हि ब्रह्मण एष पन्थाः यन्नामभिर्ध्यायति धीरपार्थैः ।

    परिभ्रमंस्तत्र न विन्दतेर्थान् मायामये वासनया शयानः ।।

    इति श्लोके ।

    जीवः इन्द्रादिनामभिः यत्पुरन्दरादिकं ध्यायति तर्हि ततः पुरुषार्थान् न प्राप्नोति । इन्द्रादिनाम्नां मुख्यतो तदवाचकत्वात् । यच्च तस्य जीवस्य पुरन्दरादिकमेव इन्द्रादिशब्दवाच्यं इति मतिः सा भ्रान्तिरेव । यतोहि अस्मिन् भगवदिच्छाधीनप्रकृतिनिर्मिते संसारे अनादिभूतया अविद्यया संस्कारेण वा बद्धः जीव। अतो सः ईशमायया मोहितः विभ्रमति । अपरिमितस्यापि शब्दजातस्य श्रीहरिः एव पन्थाः मुख्यमार्गः मुख्यवाच्यः इति सः न जानाति । पुरन्दरादिष्वपि इन्द्रादिशब्दप्रवृत्तौ श्रीहरिरेव मार्गः इत्यपि च ज्ञातव्यम् । मां विधत्ते अभिधत्ते माम् विकल्पापोह्य इत्यहं इत्यादि प्रमाणसिद्धमिदम् ।

    अनेन अनुमानमपि श्रीहरेः सर्वशब्दमुख्यवाच्यत्वे कथितं भवति –

    हरिः अशेषेन्द्रागिशब्दमुख्यवाच्यः तथा ध्यानेन पुरुषार्थत्वात् व्यतिरेकेण इन्द्रादिवत् इति ।

  • प्रियसंस्कृतरसिकाः, ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति । स हि सर्वस्य कर्ता , पालकः, संहारकश्च । स एव सर्वस्य स्वामी । सः सर्वस्य ईष्टे । अत एव वेदाः तं जगज्जन्मादिकारणत्वेन वर्णयन्ति । यतो वा इमानि भूतानि जायन्ते यतो जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति इत्यादीनि वचनानि सन्ति ।

  • प्रियसंस्कृतरसिकाः, स्वागतम् । अद्य वयं सस्कृतसुरभ्याः द्वितीयं कुसुममादाय समुपस्थिताः । अद्यतनशब्दः अस्ति अश्वः । ननु भवद्भिः कदाचित् धावन् अश्वो दृष्टः । धावन्तं अश्वं दृष्ट्वा खलु बालाः पश्य – अश्वो धावति – इति सहर्षं उद्गिरन्ति । अश्वाः विविधवर्णाः भवन्ति । श्वेताः, कृष्णाः, रक्ताः, धूसराः इत्यादि । अश्वाः आशुगाः भवन्ति । प्राचीनकाले अश्वाः युद्धे गमनागमने च प्रधानसाधनानि भवन्ति स्म । क्षत्रियाः अश्वविद्यायां सुशिक्षिताः भवन्ति स्म । अश्वाः रथेषु अपि योज्यन्ते स्म । अद्यत्वे अश्वानां स्पर्धाः अपि संयोज्यन्ति । अश्वस्वामी बहुलं धनं समुपार्जयति । अश्वाः रज्जुशारदं उदकं पिबन्ति ।

    कठिनपदानि

    रज्जुशारदम् उदकम् – रज्जुना प्रत्यग्रं उद्धृतं उदकंम् । शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारामुच्यते। रज्जुशदः सृजेरसुम् चेति उप्रत्ययान्तः आदिलोपश्च। धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः

  • संस्कृतसुरभिः – 1

    प्रियाः संस्कृतप्रणयिनः, सुस्वागतम् । संस्कृतसुरभिः स्वसुगन्धगन्धं सर्वरसजुषां परितोषाय परिवेशयत्यस्मिन् मञ्चे प्रेषक्रमेण ।

    अद्यतनः शब्दः अस्ति अनलः । अनलो नाम अग्निः । अस्य क्वचित् वह्निः, कृष्णवर्त्मा इत्यादीनि पर्यायपदान्यपि कोशेषु पठ्यन्ते । भवन्तः अस्मिन् विषये अधिकज्ञानार्थं अमरकोषं द्रष्टुमर्हन्ति ।

    अनलस्य स्वभावः अस्ति उष्णस्पर्शवत्त्वम् । अग्निस्पर्शनेन दाहो जायते इति सर्वानुभवसिद्धमिदम् । परं शिशवः एतन्नाजानन्ति । अतः पितरौ चिन्ताक्रान्ताः भवन्ति । वदन्ति च – अग्निं मा स्पृश , सः त्वां दहेत् इति ।

  • भारतवर्षमूर्धन्यालङ्कृतः नगाधिराजः हिमालयो नाम पृथिव्याः मानदण्ड इव पूर्वपश्चिमौ समुद्रौ प्रविश्य विराजते । तस्मिन् भरतवर्षस्य मुकुटायमाने पर्वते भास्वन्ति रत्नानि भास्वत्यः महौषधयः च भूरिशः समुल्लसन्ति । स भारतीयानां सर्वकामानां दोग्धा इव विराजते । धरित्र्याः शोभां वर्धयन् अयं नगः देवतया अधिष्ठितः इति अस्य नगस्य देवभूमित्वं पुराणेषु प्रसिद्धम् । सर्वासु जातिषु यद् यद् उत्कृष्टं तत्सर्वं अत्र समुपलभ्यते । प्रायः अनेनैव कारणेन सर्वोत्कृष्टरत्नविशेषभोक्तृत्वात् अस्य नगाधिराजत्वं उपपन्नं इति मन्यामहे ।

    अतिमेघमण्डलमस्यौन्नत्यं तिष्ठति । सिद्धाः वृष्टिभिः उद्वेजिताः अस्याः आतपवन्ति श्रृङ्गाणि आश्रयन्ति ।

  • समेभ्यः श्रीकृष्णजन्माष्टमीपर्वणः शुभाशयान् वितरामि । अस्मिन् सन्दर्भे मदीया काचन कविता अत्र प्रस्तूयते । तद्विदाङ्कुर्वन्तु सज्जनाः ।

    स मातापितृभ्यां नयनशुभगाभ्यां परिलसन्-

    मुखश्रीसक्ताभ्यां हरिरिह सदामोदजनकः ।

    क्वणत्काञ्चीदामप्रकटसुममालाविलसितः

    शिशोर्भावं यातः सुतकलितदृग्भ्यां परिदधे ।।

    इह नयनशुभगाभ्यां परिलसन्मुखश्रीसक्ताभ्यां सुतकलितदृग्भ्यां मातापितृभ्यां शिशोर्भावं यातः क्वणत्काञ्चीदामप्रकटसुममालाविलसितः सदामोदजनकः सः हरिः परिदधे ।।

    साक्षान्नारायणः देवकीवसुदेवयोः सुतत्वेन अवततार । तदा जनकौ आश्चर्यचकिताभ्यां स्वनयनाभ्यां श्रीकृष्णं दधतुः । तौ जनकौ सदा श्रीकृष्णमुखकान्तिं अवलोक्य तत्रव अनुरक्ताः अभूताम् । श्रीकृष्णः तयोः आनन्दप्रदः आसीत् । न केवलं तेषां अपि तु सर्वेषां जनानां अपि श्रीकृष्णः आन्दामोददायकः एव । स भगवान् महतो महीयान् अपि इदीनां शिशोर्भावं प्राप्तः सर्वोषां मनोनयनशुभगः सन् विराजते । तादृशः कृष्णः अस्मान् सदा रक्षतु ।।

  • कृपया अभिवीक्ष्यताम् । जयतु गीर्वाणतरङ्गिणी

    ऊर्जा – 2

    आत्माश्रमगुरुकुलम्

    प्रस्तुतिः – प्रकृतिवर्णनम्

    बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते

    अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।।

    सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये ।

    अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् ।

    ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।

    बहुचित्रजगद्वर्णनपटीयांसः नवनवोन्मेषशालिनः अविरतकवितागुम्फनदुरन्धराः जोषं जोषं प्रकृतिसौन्दर्यवर्णनान्दरसपीयूषपानमत्तचित्ताः कविताकामिनीकान्ताः नैके महाकवयः विराजन्तेतमामस्यां वसुन्धरायाम् ।। ते हि खलु नैसर्गिकनिसर्गासक्तस्वान्ताः पर्वतनदीवी रुध्मरुद्वनदिनकरनिशाकरकलहंसचकोरादीन् हृदयङ्गमया शैल्या वर्णयन्तः रसिकानां रसपानं कारयन्तो विराजन्ते ।। क्षणं क्षणं यन्नवतामुपैति तदेव रूपं रमणीयतायाः इत्युक्तदिशा तेषां मनः पटले प्रकृतिः प्रतिक्षणं नवीनतां भजन्ती समुल्लसति ।

    अद्य अस्माभिः नित्यान्तं कृतार्थता समनुभूयते यद् विद्वद्वर्याः सुप्रसिद्धकवयः अष्टावधानिनश्च श्रीयुताः रामकृष्ण पेजत्ताय महोदयाः आश्रमपदमिदं साम्प्रतं स्वागमनेन भूषयाञ्चक्रुरिति । साहित्यनभोमण्डले स्निग्धशीतांशुरिव विहरन्तः ते स्वास्यनिस्स्यन्दिभिः कविताशीकरैः श्रोतृचातकान् संपोषयन्तहो । धन्याः सुकृतिनः सरसिद्धाः ईदृशाः सुकृतिनः कीवश्वराः येषां जन्मदात्रीयं अवनिः स्वस्याः कृतार्थतां समाकलयति ।

    अथ कालोयं सम्प्राप्तोधुना काव्यरसपानाय प्रकृतिकन्यायाः नवरूपलावण्याविष्करणाय । तदस्मदन्तेवासिनः भू-भूधरादि-वर्णनेन अस्माकं मनः अरञ्जयन् । तदवलोक्यन्तां साहित्यरसिकाः इति भवन्तः सामोदं समाहूयन्ते ।

  • जीवाः त्रिविधाः मुक्तियोग्याः,नित्यसंसारिणः,तमोयोग्याः चेति।तत्र प्रमाणं तु नीच मध्योच्च भेदेन जीवास्ते त्रिविध मताः इति च। तथा हि गीतायाम् त्रिविधा भवति श्रध्दा देहिनां सा स्वभवजा। सात्विकी राजसी चैव तामीसी चेति तां श्रुणु।।सम्पत्तु त्रिविधा प्रोक्ता उत्तमाधममध्यमाः ।। इति।।तथाहि त्रिगुणात्मकानां जीवानांअनुसारेण  श्रीकृष्णः तेषां फलं कथयति ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृतिस्था अधोगच्छन्ति तामसाः।।उत्तमा देवतास्तत्र ऋष्याद्या मध्यमामताः।अधमा मनुष्योत्कृष्टाः ते चापि त्रिविधा मताः ।।तत्र उत्तमाः-देवताः,मध्यमाः-ऋषयः,अधमाः-मनुष्येषु श्रेष्ठाः इत्यर्थः।

    मुक्तियोग्याः-

    उच्चास्तु मोक्षयोग्या हि सदा नारायणप्रियाः। ज्ञानानन्दवैराग्यभक्त्यादि गुणरूपकाः।।एते मुक्तियोग्याः मोक्षयोग्याः,सर्वदा नारायणप्रियाः,सुज्ञानाः आनन्दवैराग्यदिभिः भरिताःमुक्तियोग्याः उच्चाः इत्यर्थः।

    मध्यमयोग्याः-

    नित्यसंसारिणो ये तु मध्यमास्ते प्रकीर्तिताः। सदा संसृतिबद्धाश्च गुणदोशोभयात्मकाः।।ये संसारे बद्धाः,गुणदोशाभ्यां युताः नित्यसंसारिणःमध्यमाः।

    अधमयोग्याः-

    नीचास्तत्र तमोयोग्याः दुःखाज्ञनादिरूपिणः। अनादिद्वेषिणो विष्णौ दुर्लक्षणयुताः क्रमात्।।

    दुर्लक्षणैः युताः विष्णौ द्वेषिणः । द्वेषादिभिः युताः।।

    ।।श्रीकृष्णार्पणमस्तु।।