अस्ति पुरा  द्वापरीयः पठनपाठनादिना  अनूचानपरंपराप्राप्त – वेदरक्षकः धौम्याचार्यः। तस्य च आरुणिरुपमन्युर्बैदश्चेति शिष्या ह्यासन्। तत्रोपमन्युञ्चाह गुरुर्गाः रक्षेति। स चोपाध्याय वचस्यादरवान्ररक्ष गाः। सोहनि गाः प्रचार्य क्षणदानुवृत्तिं उपल लक्ष्य गमनोन्मुखी सन् गुरुमुपुपेत्याभ्यवन्दत। तञ्च पीवानं दृष्ट्वा गुरुरपृच्छच्चैनं केन जीविकां कल्पयसीति। तदोवाचोपमन्युः भैक्षेणाहं पुष्टात्मास्मीति । तमुपाध्यायोब्रवीत् मह्यमनिवेद्य नोप भोक्तव्यं। तथोक्तःसः भैक्षञ्चरित्वोपाध्याय न्यवेदयत् । स तस्मादुपाध्यायो सर्वमेव भैक्षमगृह्णात्। स तथा कृत्वा पुनररक्षद्गाः अहनि परिपाल्य निशामुखे गुरुं निकषानमत्। तथापि पीवानमेव दृष्ट्वा गुरुरप्राक्षीत्। त्वया चरितं सर्वमेव भैक्षमहं स्वीकरोमि तथापि पुष्टात्मा विभासि। तमुपमन्युरवीवचत् भवते निवेदयितुं पूर्वं प्रचार्य परं मदर्थं भैक्षं याचे।नैषा न्याया वृत्तिःपरेषां भैक्षोपजीविनां विरोधञ्करोषि। एवञ्कृते लोलुपो भवसि ततस्स बाढमिति वदन् दिवा सुरभ्यः परिपाल्य दिवसक्षये गुरुकुलं प्राप्य गुरुमभिवाद्य गुरोरन्तिके तस्थौ। तथाप्यकृशं दृष्ट्वा सर्वमेव भैक्षं मे निवेदयसि नाप्यन्तरञ्चरसि केनेदानीं वृत्तिं कल्पयसि तदोवाच शिष्यो गुरुं एतासां गवां क्षरेणपूर्णोदरो ह्यस्मि। तमुवाच गुरुर्भवते मया नाप्यनुज्ञातं पय उपभोक्तुं अतो नैतन्न्यायं। सतथेत्युक्त्वा पुनर्गाः परिपाल्य निशा गृहमेत्य गुरोरग्रतस्थित्वा अनेमीत्। तथाप्युपाध्यायः क्षीणरहितं दृष्ट्वा उवाच वत्स भैक्षं नाश्नासि नापरं चरसि नोपभुङ्क्षे पयः केनेदानीं वृत्तिं कलप्यसि इति। स उपाध्यायं प्रत्युवाच भो फेनं पिबामि यमिमे वत्साः मातृणां स्तमं पिबन्तः उद्गिरन्ति। तमाह एते वत्साः त्वदनिकम्पया प्रभूततरं फेनमुखेन उद्गिरेयुः तोषां वृत्युपरोधञ्करोष्येवं वर्तमानः। त्वं फेनमपि पातुं नार्हसि। सतथेति प्रतिश्रुत्य निराहारः पुनररक्षद्गाः। तथा प्रतिषिद्धो भैक्षं नाश्नाति। मपरञ्चरति। पयो नोपभुङ्क्ते। फेनं नोपयुङ्क्ते। स कदाचिदेवमरण्ये क्षुधार्दितः अर्कपत्राण्यभुनक्। तदीयतिक्तकठव्म्लादिभिरपगतचक्षुरन्धो बभूव। एवं भियाटमानो कूपे पपात। अथ तस्मिन्ननागच्छति सति इने च अस्ताचलाश्रये सत्युपाध्यायो शिष्यानब्रवीत्। मया सः सर्वतःप्रतिषिद्धःतस्मात्स नितान्तं कुपितः आश्रमपदं न प्रत्यागच्छति।अतः सः अन्वेष्टव्यः। ततस्स उपाध्यायो सशिष्यस्सन् विपिनं प्रतिगम्य उपमन्युमाह्वयामास भो उपमन्यो क्वासि वत्स इत एहि इति। सोपाध्यावचःप्रिश्रुत्येदमब्रवीदुच्चैः अयमस्मि कूपे पतितः। तमपृच्छदुपाध्यायः कथंत्वस्मिन्कूपे पतितः। तमुवाचार्कपत्राणि प्रभुज्य अपगतचक्षुः पुनश्चाटमानः कूपे पतितःतदा शिष्यानुजिघृक्षया क्षेमङ्करावश्विनौ स्तुहि तौ देवभिषजौ त्वच्छक्षुदातारौ इति। एवमुक्तो सः विविधैस्तवैरश्विनौ तुष्टाव। ताभिस्तुतिभिस्तुष्टावश्विनौ तत्पुरत्स्थित्वाहतुः। तुष्टौ स्वःइह तेपूपः एन खादितेन चक्षुश्मान्भवसीति। तावाह नाहं भक्षये गुरवेनिवेद्य इति। तदीयगुरुभक्त्या तदीयगुर्वाज्ञानिष्ठया प्रीतावब्रूतां त्वदीयगुरुभक्त्या प्रसन्नौ स्वः चक्षुष्मान् भव यशस्वी भवेति तमनुगृह्य अन्तर्दधिरे। तदा प्रीतो धौम्याचार्यः आह वत्स उपमन्यो अयं सर्वतः प्रतिषेधः त्वदीयगुरुभक्तिपरीक्षणाय अस्यां परीक्षायामुत्तीर्णोसि। यथा अश्विनावब्रूतां तथा यशस्वी भव सकलवेदपारङ्गतो भव। एवमाशिषा  तमतोषयत्। पश्यत  गुरुभक्तिमहिमहिमानं। यया  गुरुभक्त्या  अन्धाकरो  नष्टः   इत्यदः  न  चित्रं   यतः —    गुकारो ह्यन्धकारस्स्यात् रुकारस्तन्निरोधकः       अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते। अस्य च गुरुभक्त्या बाह्यान्तरान्धकारौ निरस्तौ अहो । यद्गुरुस्सुप्रसन्नःसन्दद्यातन्नान्यथा भवेत्। इत्यस्य उपमन्युः उपमेयो बभूव।।

रचयिता चि सुधर्मा कट्टे

।।श्रीकृष्णार्पणमस्तु।।

Posted in

Leave a comment