गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

  • कृपया अभिवीक्ष्यताम् । जयतु गीर्वाणतरङ्गिणी

    ऊर्जा – 2

    आत्माश्रमगुरुकुलम्

    प्रस्तुतिः – प्रकृतिवर्णनम्

    बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते

    अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।।

    सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये ।

    अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् ।

    ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।

    बहुचित्रजगद्वर्णनपटीयांसः नवनवोन्मेषशालिनः अविरतकवितागुम्फनदुरन्धराः जोषं जोषं प्रकृतिसौन्दर्यवर्णनान्दरसपीयूषपानमत्तचित्ताः कविताकामिनीकान्ताः नैके महाकवयः विराजन्तेतमामस्यां वसुन्धरायाम् ।। ते हि खलु नैसर्गिकनिसर्गासक्तस्वान्ताः पर्वतनदीवी रुध्मरुद्वनदिनकरनिशाकरकलहंसचकोरादीन् हृदयङ्गमया शैल्या वर्णयन्तः रसिकानां रसपानं कारयन्तो विराजन्ते ।। क्षणं क्षणं यन्नवतामुपैति तदेव रूपं रमणीयतायाः इत्युक्तदिशा तेषां मनः पटले प्रकृतिः प्रतिक्षणं नवीनतां भजन्ती समुल्लसति ।

    अद्य अस्माभिः नित्यान्तं कृतार्थता समनुभूयते यद् विद्वद्वर्याः सुप्रसिद्धकवयः अष्टावधानिनश्च श्रीयुताः रामकृष्ण पेजत्ताय महोदयाः आश्रमपदमिदं साम्प्रतं स्वागमनेन भूषयाञ्चक्रुरिति । साहित्यनभोमण्डले स्निग्धशीतांशुरिव विहरन्तः ते स्वास्यनिस्स्यन्दिभिः कविताशीकरैः श्रोतृचातकान् संपोषयन्तहो । धन्याः सुकृतिनः सरसिद्धाः ईदृशाः सुकृतिनः कीवश्वराः येषां जन्मदात्रीयं अवनिः स्वस्याः कृतार्थतां समाकलयति ।

    अथ कालोयं सम्प्राप्तोधुना काव्यरसपानाय प्रकृतिकन्यायाः नवरूपलावण्याविष्करणाय । तदस्मदन्तेवासिनः भू-भूधरादि-वर्णनेन अस्माकं मनः अरञ्जयन् । तदवलोक्यन्तां साहित्यरसिकाः इति भवन्तः सामोदं समाहूयन्ते ।

  • जीवाः त्रिविधाः मुक्तियोग्याः,नित्यसंसारिणः,तमोयोग्याः चेति।तत्र प्रमाणं तु नीच मध्योच्च भेदेन जीवास्ते त्रिविध मताः इति च। तथा हि गीतायाम् त्रिविधा भवति श्रध्दा देहिनां सा स्वभवजा। सात्विकी राजसी चैव तामीसी चेति तां श्रुणु।।सम्पत्तु त्रिविधा प्रोक्ता उत्तमाधममध्यमाः ।। इति।।तथाहि त्रिगुणात्मकानां जीवानांअनुसारेण  श्रीकृष्णः तेषां फलं कथयति ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृतिस्था अधोगच्छन्ति तामसाः।।उत्तमा देवतास्तत्र ऋष्याद्या मध्यमामताः।अधमा मनुष्योत्कृष्टाः ते चापि त्रिविधा मताः ।।तत्र उत्तमाः-देवताः,मध्यमाः-ऋषयः,अधमाः-मनुष्येषु श्रेष्ठाः इत्यर्थः।

    मुक्तियोग्याः-

    उच्चास्तु मोक्षयोग्या हि सदा नारायणप्रियाः। ज्ञानानन्दवैराग्यभक्त्यादि गुणरूपकाः।।एते मुक्तियोग्याः मोक्षयोग्याः,सर्वदा नारायणप्रियाः,सुज्ञानाः आनन्दवैराग्यदिभिः भरिताःमुक्तियोग्याः उच्चाः इत्यर्थः।

    मध्यमयोग्याः-

    नित्यसंसारिणो ये तु मध्यमास्ते प्रकीर्तिताः। सदा संसृतिबद्धाश्च गुणदोशोभयात्मकाः।।ये संसारे बद्धाः,गुणदोशाभ्यां युताः नित्यसंसारिणःमध्यमाः।

    अधमयोग्याः-

    नीचास्तत्र तमोयोग्याः दुःखाज्ञनादिरूपिणः। अनादिद्वेषिणो विष्णौ दुर्लक्षणयुताः क्रमात्।।

    दुर्लक्षणैः युताः विष्णौ द्वेषिणः । द्वेषादिभिः युताः।।

    ।।श्रीकृष्णार्पणमस्तु।।

  • श्रीजयतीर्थगुरुभ्यो नमः

    श्रीरघूत्तमतीर्थगुरुभ्यो नमः

    श्रीसत्यप्रमोदतीर्थगुरुभ्यो नमः

    उपक्रमः

    अवातंसदिमं भरतवर्षं पुरा अशेषसांयुगीनभीमार्जुनभ्राता पादपीठन्यस्तसमस्तमही-शासनभागधेयकिरीटः अरिप्रापितपञ्चत्वः मदोत्कटरभसगामी प्रजाविशङ्कटसङ्कटसातिः धृतमहाहेतिः युधिष्ठिराभि-धानश्चक्रवर्ती । स च विधिभ्रुकुटिपटलविन्यासेन कैतव-पराभूतनिखिलधनकनकः प्रतस्थे प्रडीनोड्डीनसण्डीनसङ्कुलं स्वप्रविष्टत्वादनाकुलं वनकुलम् । कन्दमूलादिसमाकुलेऽपि कानने राकाननविकासकतुल्यो राजा भास्करा-त्ताक्षयभाजनेन संततर्प ब्रह्मबन्धुपारिकाङ्क्षिणः । अथ च चरितसकलाङ्गपावनतीर्थक्षेत्रः एकहायनमुवास सयवीयो विराटभवने वेषान्तरभस्मलीनः । अथ च समाप्ताज्ञातवासः यवीयैर्विजित-त्रिगर्तकौरवः स्वानुजात्मजविराटात्मजोत्तरापाणिग्रहणं कारयित्वा सम्प्रा-प्ताच्युतदर्शन अवात्सीदुपप्लाव्यपदे नगरे । अथ च भगवान् कृष्णः युधिष्ठिरहितचिकीर्षुः धर्मं रिरक्षयिषुः सन्धानेन वञ्चयितुमरीन् कुरून् प्रास्थत् । तत्र दौत्यैन वञ्चयित्वारीन् सकलजगतीविभवप्रभवविपत्तिकरमात्मानमपि बन्धितुमुत्सुकान् धूर्तान् स्वविश्वरूपेण मोहयित्वा तिरस्कृतभीष्मद्रोणदुर्योधनहार्घोपधः उज्झितबहुधनं कौरवधार्मिकविदुरगृहं जगाम । तत्र संवीक्ष्य कुन्तीं युधिष्ठिरसन्देशं भवत्या किं दीयत इत्यप्राक्षीत् । तदा बभाषे कुन्ती वाचम् ।

    “हे केशव, त्वमिमां वाचं कुरु युधिष्ठिरकर्णपुटसङ्क्लिन्नम् । ‘हे युधिष्ठिर त्वया संस्थातव्यः धर्मः अन्तं प्राप्तुकामोऽस्ति । हे पुत्रक वृथा मा जहिहि कर्तव्यं धर्मम् । यथा मन्दत्वावगूढमनसः अविवेकावृतस्य श्रोत्रियस्य स्वान्तं वेदवाक्यानुवाकैर्हीयते एवं त्वदीया मतिरपि तुच्छधर्मे आसक्ता वस्तुतो महीभुग्भिराचरणीयं धर्मं विस्मरन्ती अस्ति । विश्वसृट् अस्राक्षीत् भूभुजान् स्वबाहुभ्यो बाहुना जीवितुम् । ते प्रजाः पालयितुं नृशंसकर्माणि कर्तुं च सृष्टाः । विषयेऽस्मिन् पुरा मया गुरुभिरुपन्यस्तो वृत्तान्त एकः स्मृतिपथे विहरति ।

    पुरा सकलजगद्वसुरक्षको गुह्यकेश्वरः मुचुकुन्दाय प्रादादिमां क्षपाम् । स च न स्वीचकार । स अभाणीत् ‘अहमुपबुभुक्षामि स्वबाहुवीर्यार्जिताम्” इति । आकर्ण्येदं धीरं वचः व्यस्मेष्ट धनदः । ततश्च क्षत्रधर्ममनुव्रतः स्वभुजवीर्येणैव महीमिमां स्वहस्तन्यस्तां व्यधत्त ।

    हे युधिष्ठिर, यं धर्मं राज्ञा गुप्ताः प्रजाः चरन्ति तस्य धर्मस्य चतुर्थमंशं विन्दति राजा । धर्मः साङ्ग आचरितो राज्ञा अमृतान्धःस्वभावप्रदो भवति । आचरिते ह्यधर्मे निरयगतरक्तसि-क्तद्वारातिथिर्भवति राजा । राजप्रयुक्ता दण्डनीतिः चातुर्वर्ण्यं नियच्छति । अपिच अधर्मपङ्किलानङ्कितान् विधत्ते । यदा राजा अधिगतसकलदण्डनीतिर्महीभुजो शास्ति दण्डनीतं तदानीमेव सकलजगतीप्रमोद-सम्भारप्रह्वीभूतजनसम्मर्दावतंसितः कृतयुगो भवति । “कालो वा कारणं राज्ञः राजा वा कालकारणम् । इति ते संशयो मा भूद्राजा कालस्य कारणम् ।।”(महा.उद्यो.१३१.१८) राजैव कृतयुगस्रष्टा स एव त्रेताया द्वारस्याथवा कलियुगस्य । यदि राजा धर्माचरणचणं कृतं सृजति स त्रिदिवगसुधापान-प्रमोदसम्भृतोऽश्नात्यन्तं स्वर्गम् । त्रेतायाः करणान्नाश्नोति तावन्तं सुखम् । द्वापरस्य च निर्माणात् एकमेवात्ति स्वर्गफलम् । कलेः सर्जनात् प्रभूतं पापमश्नाति । ततश्च शाश्वतीः समाः वसति नरके । राजदोषेण जगत् स्पृश्यते । जगद्दोषेण राजापि स्पृश्यते । हे पाण्डुतनय पितृपैतामहोचितान् राजधर्मानवेक्षस्व, त्वं यत्र स्थातुमिच्छसि तन्नास्माकं पितृपैतामहोचितं कार्यम् । वैक्लव्यसंस्पृष्टो वा अभिघातिषु आनृशंस्ये व्यवस्थितो वा कोऽपि राजा प्रजापालनसम्भूतं फलमलप्सीत् । त्वमिदानीं त्वन्मेधया यथा चरसि तामाशिषं न पाण्डुर्नचाहं नवा पितामहः पूर्वं ते प्रायुञ्ज्महि । यज्ञो दानं तपः शौचं प्रजा सन्तानं माहात्म्यं बलमोजश्च मया आशंसितम् । हे कुलीन कुलीनाः तदुचितां वृत्तिमनाचरन्ति ते नपण्डिताः । यत्र दानपतिं शूराः क्षुधिताः पृथिवीचराः । प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ।।(महा.उद्यो.१३१.३०) प्रतिगृह्णीयादभिषिक्तो धार्मिको राजा प्रजाः दानबलसामादिभिः । ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् । वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ।। क्षित्रियत्वादेव तव भैक्षं विप्रतिषिद्धम् । कृषिरपि नोपपद्यते । किन्तु क्षत्रियस्त्वं तद्बाहुबलैकजीवातून् पौरान् कण्टकेन त्राता असि । हे महाबाहो निमग्नं पित्र्यमंशं सामादिभिरुपायैः पुनरुद्धर । इतो दुःखतरं किं नु यदहं हीनबान्धवा । परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दनम् ।

    युध्यस्व राजधर्मेण मा निमज्जेः पितामहान् ।

    मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ।।

    कुन्ती । महाभारतम् । उद्योगपर्व । भगवद्यानपर्व १३१.३६

    विदुलावृत्तान्तः

    अत्रास्मिन्नेव विषये कथयन्ति सूरयो कथां विदुला-सृञ्जयसंवादांसलाम् । पुरा प्रावातंसीत् इमं भरतवर्षं कुलीना सकलाशाप्रसृतनिजाच्छलकीर्तिः दीर्घदर्शिनी दुष्टेषु मन्युमती बहुश्रुतराजविद्यातत्वा सम्यज्ज्ञाना विदुला नाम साध्वी सीमन्तिनी । तस्या औरस्यो अजनिष्ट सृञ्जयाभिधेयः । अथ च सिन्धुदेशसिन्धुपराभूतमत एव दीनचेतस्तं शयानमनन्दनं द्विषतां हर्षवर्धनं पुत्रं जगर्हे विदुला । अरे रे कुनन्दन द्विषद्धृदयप्रमोदसम्भारभरणकारिन् न मया त्वं न च पित्रा जातः क्वाभ्यागतो ह्यसि । निर्मन्युः क्लीबसमः यावज्जीवं निराशोऽसि । कल्याणाय वह धुरम् । न जातु आत्मानमवमन्यस्व किञ्च अल्पैरेव वस्तुभिस्तृप्त्या मा जीवनं व्यथापय । मनः कल्याणविषयविषयं विधाय भीतिं प्रतिसंहर ।

  • आयुषः क्षण एकोsपि सर्वरत्नैर्न लभ्यते ।नीयते तद्वृथा येन प्रमादः सुमहानहो ।।

    Even after giving all the gems, not a single movement of life returns. Those who spend these precious movements of life unnecessarily are making such a big mistake.  

  • हरिदासवरेण्याः सिद्धपुरुषाः महामहिमोपेताः श्रीविजयदासाः भक्तिमार्गं अवलम्ब्य नैकानि गीतरत्नानि कन्नडभाषया रचितवन्तः । तेषां पुण्यतिथिं पुरस्कृत्य रचितं किञ्चित् पद्यं प्रस्तूयते ।
  • संस्कृतदीपिका 2021 वर्षीया षाण्मासिककक्ष्यायाः आरम्भः अस्मिन् नवम्बर् मासस्य विंशतौ दिनाङ्के भविष्यति । शताधिकं छात्राः अस्यां कक्ष्यायां पञ्जीकरणाय अभ्यर्थनानि प्रेषितवन्तः । तेषां सौकर्याय गूगल् ग्रूप संस्कृतिदीपिका इति नाम्ना आविष्कृतः । संस्कृतदीपिका 2021 इति वाट्सप् गणः अपि समारब्धः । सर्वेषां नवीनानां छात्राणां कृते आत्माश्रमस्य अध्यक्षाः आचार्याः स्वागतं व्याहृतवन्तः । अनेन माध्यमेन छात्राः अचिरादेव संस्कृतभाषायां निरर्गलतया सम्भाषयितुं प्रभवन्ति । आगच्छन्तु सर्वे । संस्कृतमातरं वयं आराधयामः ।

  • सर्वेषां नरसिंहजयन्तीपर्वणः शुभाशयाः । जगदाद्यन्तं अस्मान् पीडयन्तीं कोरोनामहामारीं जगतः विद्रावयितुं कृतपरिकराः जगद्गुरवः श्री 1008 श्री सत्यात्मतीर्थाः 14,000 नरसिंहमन्त्रजपं कर्तुं आज्ञापयापासुः । अस्मिन् नरसिंहजयन्ती पर्वणि तत्समारोपं पुरस्कृत्य नरसिंहमन्त्रस्थपदकदम्बेन समुल्लसन्तीं कांश्चन कवितां जनोयं उपनिबबन्ध । तदास्वाद्यतां पद्यरसः ।

    उग्रं ह्युग्रनखत्विषा प्रमुषिताज्ञानान्धकारापदं

    वीरं घोररिपुप्रचण्डनिनदप्रध्वंससर्वाननम्

    मुत्योर्मृत्युमनन्तसौख्यदमहाविष्णुं नृसिंहाकृतिं

    वन्दे भद्रमभद्रभीषणमहं प्रत्युज्वलन्तं हरिम् ।।