• अपरमिदं भारतसाम्राज्यं खलु निश्शेषमाखण्डलस्येव । बहवः खलु विशेषाः । यदेकेनापि समग्रं जीवनमानन्दोदग्रं जीवेः । अथापि कश्चित् ग्रासी राहुः चन्द्रलेखामिव । यमाहुः वैदेशिक इति । तथा हि सन्ति बहवो देशाः तत्र भवाश्च देशीयाः । येषामत्ययेनापि, सम्प्रति उपजीवनेन जीवातुभूतेन निर्बाधं जीवनमातिष्ठामहे । एषु विश्वेष्वपि देशेषु साध्व्यो राज्यतदङ्गप्रकृतयः सक्रममास्थिषत । तदेतन्निरीक्षणाक्षिप्तविक्षेपात्मानो अस्वस्थात्मानो मानवापसदाः कुनयदनुयोनयो विकृतयोनयस्तुरुष्काः स्ववशमनैषत । कथं नु भगवत्सु मूर्धाभिषिक्तेषु साम्राज्यदीक्षितेषु अन्यायत्तता ? शृणु । mugals इति वंशो गणो वा इति अन्तर्जालाः । यद्वाचकमपि पदमपदं भवति । अर्थोप्यनर्थो भवति । ईश्वरेच्छात्मिका शक्तिरपि अशक्तीभवति । स्फोटोपि अस्फुटो भवति । अपाकुरुते च सर्वापि प्रकृतिः । समुद्रजीमूतजम्बूकभस्त्रप्रभृतयो विरोधं शब्दापयन्ति । न हि तन्नामकृत्वा गीर्वाणा व्याहरन्ति पुनर्लज्जन्ति । मोच्चैर्वोचः परोपि शृणुयादिति कर्णावघातभीरुणा मन्दं वक्तव्यम् । अतो यथास्थिमेव उट्टङ्कितम् । तथा च ते पुनर्गणाः भूतगणा इव अभूतमात्रां श्रियमुत्कृन्तितुमापतन् । काले काले कालनामा कृतान्तः प्रायः अवतरेद्वा । दर्शं दर्शं निर्ममन्थुः । यं बालं यं यूनं यां बालां यां युवतिं वा पश्येत् तं तं तां तां च वध्यात् इति तदभिमता वेदवाणी । न किमपि आवेदयति ऋते कामम् । दुष्कामसम्पूरिताशयाः । पदं पदं जनपदं घ्नन्तः आसेदिरे । पञ्चदशे शतके aurangzeb इति कश्चित् विश्वनियमबहिष्कृतः दुष्कृतः आस । अत्र विरुरुवुः – aurangzeb इति सिंहासनाधीश इत्यर्थः । तदतीव हदयकुहरक्रकचायितम् । न हि असिंहं सिंहम्मन्यमाना तदर्थमासनकल्पनहिंसामासदन्ति । न हि क्रोष्टुः सिंहासनं प्रष्टुमर्हति ।

    – अनुवर्तते

  • विद्या ह वै ब्राह्मणमाजगाम गोपाय माम् इति हि श्रुतिः । नाम्ना इयं श्रुतिरपि श्रवणकुहरकुणकायिता । या खल्वमरभारतीति प्रथिततमापि सरस्वती निस्स्वार्थं सकलजनमानसचोदयित्री गिरामावेदयित्री, भानुदारं दारित स्यामिति भूरिमनोभीरुः प्रार्थितपत् । तदनु यथाकालं वैदिकपरम्परापर्यवसितप्रयतमानसा कालत्रयविहितत्रियुगकृतिमन्तो ब्राह्मणा अमरभारतीमरणयोगमुत्कृन्तन्तो यथाकालं स्वाचारपरिचरणादिना इह परिरेमिरे । सेयं परम्परा अनादिकालतो निलिम्पपतिसमुपदिष्टा आस्यादास्यं धिषणाधिषणं हृदयाद्धृदयं प्रावृतत् । उपदेष्टा गुरुः । शिरोनिहितानुदेशशिष्टः शिष्यः । सोयं यज्ञः । तथाहि –

    बह्वर्थप्रतिसन्धिपूर्णपदवीसम्पुष्टहृद्वेदिका

    मूलाकर्षनिघातगोमयरसप्रस्विन्नभावस्मिता ।

    आबन्धप्रशमेष्टसाधनमहादीक्षाव्रतेन प्रधी-

    तीर्थेन क्षणशो विविच्य हविषा निर्धूममेवेज्यते ।।

    तदत्र सत्रे परमो गुरुः कारणीभूतः । न हि अगरुणा विना गुरुर्गन्धसम्बन्धः सम्भवति । न वा गुुरुं विना गोरवपदमुपस्थापितं भवति । न हि सवितारमन्तरा प्रकाशो जगदन्तः सूयते । नापि निशाविषसम्प्रमोषः सुधांशुमन्तरा निष्पद्यते । समं तदेतदृततमं यद्गुरुजनचरणपरिचरणं हिरुक् वागर्थः सङ्गच्छते । अनन्यं परिचरणं श्रेयसे परिकल्पते। यथाहुर्महाभारते –

    आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भं ब्रह्मचर्यं चरन्ति

    इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ।। इति ।

    ब्रह्मचर्यं नाम ब्रह्मणि गुरौ चरणं परिचरणं ब्रह्मचर्या । आचार्यो ब्रह्मणो मूर्तिरिति मनुमननात् । आचार्यपरिचरणं च न केवलं नैमित्तिकम् । किन्तु निर्व्याजमेव । तस्य सदासेव्यत्वात् । आचार्यस्य च सर्वदा प्रियं कुर्यादित्युक्तेः । तद्धि तप इति निगद्यते । तपः सर्वं समाप्यते इति मनुविबोधनाच्च । इदमत्रोदहरामः – अनन्नः इह न प्राणिति । प्राणस्य अन्नगतत्वात् । अविद्यः इहामुत्र च न विद्यते । आत्मगतत्वात् विद्यायाः । अत एवेदमध्यात्ममिति औपनिषदाः । एवं च गुरुजनपरमपदपरिचरणोपवृत्त्या अपरिव्युप्तयाथात्म्यबीजोsपरिरब्धतमःपरिवर्जनपरविद्याचञ्चलः कथं नु संसारसंसर्गार्गलमपवर्गं अपवृक्तपरिवृढं प्रधानोपकरणं शरणं, मरणावस्थायां स्मरणीकुर्यात् कथं च तमपरोक्षमीक्षते । तदयं सकलजीवनिकरैर्यथायथं संसेव्यो गुरुरिति ।

    तमःप्रतानिनीस्तब्धं मनोलुब्धकलक्षितम् । पक्षिणं वीक्षयारक्ष्य क्षेमं वाहयते गुरुः ।।

  • महानवरात्रिः

    यस्माच्च कलिना लोका मज्जिता दुःखसागरे ।।

    एकपादोपि क्षरति रुदन् धर्मो दिने दिने  ।।

    कलौ काले जनाः केवलं स्वार्थपरायणाः । धनपरायणाः न साधनपरायणाः । धनार्थं कमपि जनं  निघ्नन्तः परवञ्चनादिना केनापि प्रयत्नेन स्वल्पमेव सुखं सम्पादयितुं ईहन्ते । न च सुखोपलब्धिसाधनानि विजानन्ति । दुखस्य कारणीभूतं कर्म विधाय सुखं वाञ्छन्ति । तदेवं यदा कथमपि कलिकालजनानां पापनिर्मोक्षः एव  सुगमः नास, तदा कथं वा साधनादिना भगवत्प्रीतिसम्पादनपुरस्सरं मोक्षोपलब्धिः इति नारदो भगवन्तं अप्राक्षीत् । सोसौ दयालुरुपायमुवाच । तस्याथ सारो निरूप्यते । तथा हि – आचारप्रभवो धर्म इति वचनानुसारेण  सदाचरेण धर्मः उत्पाद्यः । न केवलं तावदेव प्रियो हि ज्ञानिनोत्यर्थं इत्युक्तदिशा भगवत्प्रीतिं कामयमानैः सदाचारेण सह ज्ञानसाधनमपि अनुष्ठेयम् ।  श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च । साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥ न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन इत्युक्तेः । प्रकृते च अवश्यानुष्ठेयानि कर्माणि द्विविधानि । नित्यानि नैमित्तिकानि चेति । नित्यानि यथा सन्ध्यावन्दनादीनि । अहरहः सन्ध्यामुपासीत इति वेदवाक्यादवगतानि । नैमित्तिकानि च निमित्तात्क्रियमाणानि । यथा कृष्णजन्मनिमित्तात् आचर्यमाणा कृष्णाष्टमी । नैमित्तिकानि च निमित्तभेदात् भिद्यन्ते । यथा मासभेदात् प्रतिमासं क्रियमाणानि कर्माणि । प्रकृते आश्विनमासप्रयुक्तानि कर्माणि कानीति विजानीमः । आश्विनशब्दस्य आश्वयुजः इषः इत्यादयः पर्याया भवन्ति । तत्र मासमाहात्म्ये तावत् मासि चाश्वयुजे नरैः । नवरात्रव्रतं कार्यं शुभं दारिद्र्यभीरुभिः ।  इति कथितम् । अस्य माहात्म्यमपि तत्रैव –    

    यथा विष्णुश्च देवेषु सर्वधर्मेषु वैष्णवः।

    शरत्काले तथा तद्वन्नवरात्रमुपोषणम् ।। (भविष्योत्तरपुराणम्)

    भगवान् नारायणः सनत्कुमारं कथयति । हे सनत्कुमार, देवेषु यथा विष्णुः उत्तमः,  यथा सर्वधर्माणां अन्तरे वैष्णवः धर्मः श्रेष्ठः,  तथा नवरात्रिरेव श्रेष्ठः व्रतः इति महाव्रतत्वेन कथितमस्ति । उत्सवः नाम उत्कृष्टः सवः (भगवत्पूजारूपो यागः) । पुण्यसाधनाय भगवता प्रकल्पितः अत्युत्तमः अवकाशः यस्मिन् काले अस्माभिः महत् पुण्यं आप्तुं शक्यते येन नः मोक्षादिपुरुषार्थः लभ्यते । तथैव एतादृशाः उत्सवाः आधुनिकेपि काले जनेषु सङ्घटनात्मकदृष्टिमुद्बोधयन्तः परस्परकथासल्लाप-भगवन्माहात्म्यश्रवणपुरस्सरं जनैर्निवर्त्यन्ते । साम्प्रतिकाः खलु जनाः नूनं कार्यमग्नाः न इतस्ततः परिजानन्ति । न विदन्ति बन्धुजनदुःखादि । नापि सम्मिलन्ति । मोबैल् लोके अभिनिविष्टमतयः बाह्यलोकमेव विस्मरन्ति । यद्वा काल एव विस्मारयति । विस्मापयति च लोकान् । ईदृशा अपि भवन्ति ननु इति । परं उत्सवनिमित्तेन तत्सर्वमपि अतिहाय सर्वेपि एकं उदात्तं भावमुद्वहन्तः एकत्र मिलिताः सोल्लासं सोत्साहं स्वसंस्कृतिषु सज्जन्ति । एवं स्वकर्मणि सज्जयन्ति उत्सवाः । तादृशेषु उत्सवेषु आश्विने मासि आचर्यमाणः नवरात्रोत्सवः विशिष्यते । तस्यायं विधिः । कुम्भस्थापनं दुर्गापूजा महानवमीप्रयुक्ता आयुधपूजा अन्तिमदिने क्रियमाणा शमीपूजा इति । एवं तत्रैव पुराणे चण्डीयागस्य अनुष्ठानमपि विहितम् । विशिष्य राज्ञां विजयाद्यनेकसम्पत्सम्पत्त्यर्थं विजयस्तम्भपूजा अश्वपूजा गजपूजा एवं स्वायुधादिपूजाश्च विहिताः । आयुधपूजासन्दर्भे अस्मत्संरक्षणार्थं प्रार्थनापुरस्सरपूजा, तत्र स्तुतिः – 

    छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते ।

    प्रोत्सारणाय दुष्टानां साधुसङ्ग्रहणाय च ।। इत्यादि ।

    एवं लोहाभिसाराख्यं  लोहपूजनकर्मापि विहितम् । दशमे दिने पुरान्निष्क्रम्य शमीपूजा विधेयेत्यपि विहिता । दशमदिनं अत्युत्तममिति प्रथितं – 

    स कालो विजयो नाम सर्वकार्यार्थसाधकः ।। 

    दशम्यां तु दिने सम्यक् पूजनीयोपराजितः ।। इत्याद्युक्तेः । 

    एवं शमीपूजां विधाय राज्ञा वैरिणः प्रतिकृतिं विधाय पुरोहितादिभिः सहितः तदुपहितसकलमङ्लाशीराशिः तां प्रदह्य विजयोत्सवत्वेन आचरणीय इति । य एवं वर्षे वर्षे मङ्गलं कर्माचरति स माङ्गलिकः आयुरादीन् लभते । अस्मिन् काले एव दुर्गापि पूज्या इत्याह आगमः ।  एवं दशसु दिनेष्वेव सरस्वती अपि भक्त्या द्वितीयादिनमारभ्य पूजनीया इति । यथापरम्परं केचित् त्रिरात्रोत्सव-पञ्चरात्रोत्सवभेदेन सरस्वतीं पूजयन्ति । न तदा अधीयते । दशमीप्रभृति शान्तिपाठपुरस्सरं अध्याय इति सम्प्रदायविदः वदन्ति । सद्बुद्धिव्रतमिति एतद्व्रतं व्यपदिशन्ति । अनेनाचरणेन सद्विद्या प्राप्यते इति । सोयं पर्वकालः । अस्मिन् काले पुण्यसम्पादनाय वेदपारायणं भागवतश्रवणं श्रीनिवासकल्याणकथाश्रवणं मार्कण्डेयपुराणपारायणं कर्तव्यं इत्युद्बोधयति भविष्योत्तरपुराणं मासमाहात्म्यखण्डे । यदि कश्चित्   पारायणकर्मणि स्वयमशक्तः तर्हि पारायणिकान् वा पश्येदिति भणति पुराणम् । यथाह – तेषां दर्शनमात्रेण ब्रह्महत्या व्यपोहति इति ।    भागवतश्रवणविषयेपि इत्थं श्रूयते –

    अशक्तो विधिवद्राजन् क्रिया भागवतस्य तु ।

    श्रुतं भागवतं तच्च समं पारायणं मतम् ।। इति ।

    वेदपारायणे अशक्तो भागवतं वा श्रुणुयात् । एवं भगवता उपदिष्टः नारदः परमां मुदं अनुबभूव ।  अतः कलिमलनाशाय सर्वैः नवरात्रिः भक्त्या आचरणीया ।

    किञ्च पावने भूवैकुण्ठे तिरुमलक्षेत्रे ब्रह्मरथोत्सवोपि नवरात्रिसन्दर्भे एव प्रचलति । ब्रह्मणा कृतोयं उत्सवः ब्रह्मोत्सवः ब्रह्मरथोत्सव इति च व्यपदिश्यते । अस्य उत्सवस्य किमर्थं नवरात्रिः इति नाम इति विषये इत्थं चिन्तयितुं शक्नुमः । रात्रिरिति रात्र्यभिमानिनी देवता कथ्यते । तथा च रात्र्यभिमानिनी लक्ष्मीस्वरूपिणी दुर्गा भगवता सह यत्र पूज्यते सा नवरात्रिः । अथवा अज्ञानमस्मान् परमार्थात् प्रच्यावयतीति अज्ञानं रात्रिरिति उच्यते । यस्मिन् काले भगवत्पूजारूपकर्माचरणेन अज्ञानस्य विनाशात् भगवत्प्राप्तिः सा नवरात्रिः । कर्मणा ज्ञानं सम्पाद्य तेन अज्ञानं निरसनीयम् । सफलः क्लेशः न क्लेशत्वाय कल्पते । उक्तं खलु कालिदासेन – क्लेशः फलेन हि पुनर्नवतां विधत्ते इतिरात्रिव्यपदेशं अज्ञानं निरस्य ज्ञानसम्पादनमेव नवीकरणम् । अत एव नवरात्रिः इति अन्वर्थकः व्यपदेशः । इदं नवीकरणं च श्रद्धया भक्त्या च अनुष्टितया व्रतचर्यया सुसम्पाद्यम् ।  एतदेव देवताप्रसादस्य सोपानम् । एवं प्रसन्ना परदेवता संसारबन्धात् अस्मान् विमोच्य परमं पदं प्रापयति । एतदनुसन्धानयुक्तं उत्सवाचरणमेव सार्थकं भविष्यति ।     

    श्रीकृष्णार्पणमस्तु

    लेखकौ – अनन्तशुुभाङ्गौ     

    लेखकौ – शुभाङ्गानन्तौ  

  • श्रीतिरुमले नवरात्रिकाले वाहनोत्सवविशेषचिन्तनम्

    अखण्डभूमण्डलमण्डनस्य रमावरस्य श्रीनिवासस्य ब्रह्मोत्सवः कस्य न प्रमोदातिशयकारकः । यस्मिन् महोत्सवे वाहनमारुह्य श्रीभूभ्यां सह विराजन्तमादिदेवं दिदृक्षवः कुतूहलार्द्रमनसः भक्तिभावसमुद्गतप्रमोदाश्रुबिन्दवः लक्षाधिकाः जनाः कृतार्थाः अमृताः भवन्ति । रथस्थं केशवं दृष्ट्वा पुनर्जन्म न विद्यते इति भणितिः न खलु वन्ध्यवाक्। रथो नाम स्यन्दनः । एवमेव रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च इति विश्वोक्त्या आत्मानं रथिनं विद्धि शरीरं रथमेव चेति गीताचार्योक्तरीत्या देहोपि रथ इत्युच्यते । ततश्च रथस्थं केशवं दृष्ट्वा – सच्छास्त्रोक्तमार्गेण अस्मद्देहस्थं भगवन्तं बिम्बरूपिणं दृष्ट्वा पुनर्जन्म न विद्यते इति हि परमार्थः । तं श्रीनिवासं वयं ज्ञानं प्राप्यैव साक्षात्कर्तुं शक्नुमः । ब्रह्मविद्यासम्प्राप्तब्रह्मतत्वज्ञानेभ्यः हरिं निरन्तरं ध्यायद्भ्यः प्रसन्नो भगवान् पुमर्थं यच्छति । अथापि देहे विराजन्तं हरिं द्रष्टुमेवेदं  ब्रह्मरथोत्सवाख्यं कर्म करणान्तरमस्ति ।  ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत् इति आर्योक्तिरत्र प्रमाणम् । इमं भावमनुसन्धाय ज्ञानपूर्वकः एव क्रियमाणः उत्सवः पुमर्थसम्पादको भवति । अत एव विचक्षणा अस्माकं प्राञ्चः सर्वरीत्या ज्ञानेन कर्मणापि भगवन्तमाराधयितुमेव उत्सवान् रथोत्सवान् व्यदधत । सर्वेष्वपि बाह्येषु कर्मसु कश्चन परमार्थस्तेषामभिमतः आसीत् । प्रकृते नवसु दिनेषु नववाहनरथानारुह्य रममाणः श्रीनिवासः कथमिव आध्यात्मिकया भङ्ग्या प्रेक्षणीयो वर्तते, कुतो वा अयं रथोत्सवः एतावज्जनताशरण्यः वर्तते, किं वा तत्र तत्वमिति ईशदिव आकलयामः ।     

    १. शेषवाहनोत्सवः  

    सकलमिदं भुवनं स्वफणासु धरतः शेषस्य स्कन्धमारुह्य निजतनुं लोकालोकविषयं करोति श्रीवेङ्कटेशः। अत्र शेषः सकलसच्छास्त्राभिमानित्वात् सच्छास्त्रप्रतीकः । तं वाहनं करोति भगवान् । अनेन अहं सच्छास्त्राणि वहामि, अथ च सच्छास्त्राणि स्वशिरसि वहतामेव स्कन्धमारोहामि तेषामनुग्राहकः सन्मार्गप्रेरकश्चास्मि इति भगवान् सूचयन्निव तस्मिन्ननेहसि शेषवाहनः शेषस्कन्धे राराष्टि । एवम् सर्वदापि सच्छास्त्रच्छात्रैः सच्छास्त्रश्रोतृभिरस्माभिर्भवनीयम् । सच्छास्त्रश्रवणं विधेयमिति विज्ञायते । मोक्षस्य श्रवणमनननिधिध्यासनानि निदानानि भवन्ति ।   

    २. हंसवाहनोत्सवः  

    हंस पक्षिराजः । प्रकृत्या निर्मलः । ज्ञानप्रतीकः ।  सदा मानसावासः । द्वितीये दिने हंसवरमारुह्य काञ्चन्तं भगवन्तमित्थं विचिन्तयामः। श्रवणं विधेयमिति शेषवाहनेनाज्ञासिष्म । इदानीं मननमपि विधेयमिति ज्ञापयति हंसवाहनः नारायणः । यतः मननं नाम शृतस्यार्थस्य युक्तिभिरनवरतमनुचिन्तनेन ज्ञानस्य निश्चयीकरणम् । तस्य निश्चयज्ञानस्य हंस एव सङ्केतः । ततश्च  मोक्षं ये ईप्सन्ति तेषां हंसः निश्चयज्ञानं तद्धेतुभूतं मननमेव वाहनमस्ति – मोक्षप्रयाणसाधनमस्तीतीमं प्रमेयं भगवान् सूचयतीति विज्ञायते ।   अथवा हंस इति भगवतः अपरं रूपम् । तस्य मन्त्र एव हंसमन्त्रः । तं मन्त्रं भगवान् वायुः सर्वेषां हृदयेषु अहर्निशं २१००० वारं जपति । तज्जपेनैव सर्वोपि प्राणी प्राणिति । उपरते तस्मिन् जपे स कायः अचिरान्नश्यति । अतः हंसवाहनः श्रीनिवासः हंसमन्त्रमनुदिनं वहन्तं – जपन्तं वायुं स्वमनसि सर्वे धरन्तु । तेनैव भवतामपि हंसमन्त्रमहं वाहयामि – इतोप्यतिशयेन दास्यामि दीर्घायुः प्रयच्छामीति सूचयति ।  

    3. सिंहवाहनोत्सवः  

    तृतीये दिवसे सिंहमारुह्य विभ्राजते । तदैवं विचिन्तयामः । सिंहासनं नृपासनमुच्यते । नृपासनं तु यद्भद्रासनं सिंहासनं च तत् इत्यमरोक्तिरत्र प्रमाणम् । सिंहमेव वाहनं कृत्वा आगच्छन् देवः तस्य सनवावराण्डाधिपतित्वं लक्ष्मीनियामकत्वं पादोपान्तसकलजीवराशित्वं सर्वासु क्रियासु परानपेक्षत्वं स्वतन्त्रत्वं सूचयति । अनेन भवन्तः मम सर्वोत्तमत्वमुपासीरन् तदैवाहं समधिगम्य इति सूचयति ।  

    4. कल्पवृक्षवाहनोत्सवः 

    चतुर्थे अहनि भगवान् कल्पवृक्षमारुह्य सकलाभीष्टं प्रयच्छति । अथ कोयं कल्पवृक्षः । स खलु नन्दनवनसुधारसज्ञः कामनामात्रेण सकलार्थप्रदः । तं वाहयति प्रापयति भवगवान्। अथवा कल्पवृक्षः न स्वातन्त्र्येण सकलार्थदः। तस्यापि नियामकोस्मि, तस्य सकलेष्टदातृत्वशक्तिरपि मत्सामर्थ्यजन्या इति श्रीवेङ्कटेशः सूचयति । अपि च कल्पवृक्षः चिन्तितमेवार्थं प्रयच्छति । यदि भगवानपि अस्माभिश्चिन्तितमेवार्थं आदास्यत् तर्हि का नो गतिः। न वयमस्मद्देहगतानानन्तसङ्ख्यान् रक्तकणान् जानीमः । न वा वयं देहधारणसाधनानि जानीमः । अतश्च तानि न पृच्छामः । तर्हि अस्माभिरप्रार्थितानि शरीरधारणसाधानानि जीवनोपायभूतानि नः न प्राप्स्यन् । किन्तु न तथा । स्वयमेव अस्मद्धिताहितानि विज्ञाय तानि यथायोग्यं यथाकालं यथाप्रदेशं प्रयच्छति । अतः सः कल्पवृक्षापेक्षया उत्तमः । तदर्थमेव कल्पवृक्षमारुह्य तदुत्तमत्वं सूचयति श्रीवेङ्कटेशः ।  

    5. गरुडवाहनोत्सवः  

    पञ्चमे दिवसे आरूढगरुडस्कन्धः विराजते प्रभुः । भगवतः ऊरू प्रतिदिनं सुपर्णभुजयोरधिशोभमानौ स्मर्तव्यावित्याह भगवान् कपिलः । गरुडः सुपर्णः । अतः भगवान् सुपर्णवाहनः । मयि ये अनन्यमनसः सन्ति तेषां गेहे अहं सुपर्णानि (भोजनपर्णानि) वाहयामि (नयामीति) सुपर्णारूढत्वेन सूचयति  । भगवान् तानेव उपादत्ते इति विचिन्तयितुं शक्नुमः । अथ च गरुडः विषहरः । संसारे विषयविषं च मम वाहनेनैवाहं निवारयामीति गरुडमारूढवान् ।  

    6. वायुवाहनोत्सवः ।  

    षष्ठे अहनि सकलभुवनत्राणं अखिलज्ञं भारतीकान्तं वायुं वाहनं कृत्वा क्षिप्रं प्रसीदति प्रभुः । वायुश्च सकलजीवानां श्रेष्ठः, अनवरतपरिचर्यमाणविष्णुः, सकलसुरगुरुरस्ति । अस्य प्रसादं विना न कोपि कैवल्यमाप्नोति । विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया इति भणितिर्न खलु प्रतीपमर्हति । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इत्युक्तदिशा गुरुभक्तिरेव मुकुन्दभक्तिं सम्पादयति । वायुश्च सकलभुवनगुरुः । अतः गुरुं प्राप्यैव मामाप्नुहि इति वायुमारूढवानिति विज्ञायते । अपि च वायुः इमं ते भक्तमनाथमुद्धरेति अस्मद्विषयकविज्ञापनेनैव विष्णुरस्मान् दययति । तदप्यनेन विज्ञायते । 

    7. गजवाहनोत्सवः  

    सप्तमे दिवसे श्रीनिवासः स्वलङ्कृतः गजमारुह्य प्राकारे सञ्चरति । अहं त्वरया यथा पूर्वं गजोद्दिधीर्षया गरुडमपि परित्यज्य आगच्छमेवमेव गरुडवाहनादिकं परित्यज्य गजराजमिव जनानुद्दिधीर्षुः गजमेव वाहनमकरवमिति सूचयतीव । अथ गजः सामजः इति कीर्त्यते । अतः श्रीनिवासः सामजवाहनः । साम नाम वेदः । गानात्मको वर्तते । सामजगानेन अहं प्राप्तो भविष्यामीत्यपि सामजवाहनः  सन् प्रभुः सन्दिशति । 

    8. सूर्यप्रभ-चन्द्रप्रभवाहनोत्सवः 

    अष्टमे अहनि सूर्यमारुह्य भगवान् जाज्वल्यते ।  तेन तस्य नित्यतृप्तत्वं सूचयति । यतः सकलजगद्गतमहातेजोनियामकस्य सूर्यकोटिप्रतीकाशस्य विष्णोः सूर्यादयः एव कीटमणिप्रभाः सन्तः व्यर्थाः सन्ति । एवं सति अस्मद्दत्तैर्नीराजनादिभिर्न ईषदपि तस्य प्रयोजनं किन्तु अस्मदनुग्रहायैव तत्कर्म कारयति, सर्वमपि लक्ष्म्यादिकर्तृकं कर्म न तस्य अतिशयदानक्षममिति सूचयति । तेन नीराजनादिभिः दीपप्रज्वालनैर्वा देवः उपकृतोस्तीति नास्माभिर्विचन्तनीयं मनागपीत्येतत् विज्ञायते । इमं प्रमेयं स्वापेक्षया अत्यन्तहीनप्रभं सूर्य चन्द्रं वा आरुह्य भगवान् कथयति ।  

    9. अश्ववाहनोत्सवः ।  

    तुरगमारुह्य राजाधिराजों भगवान् चामीकरकृतभूषणाङ्गः श्रीभूभ्यामुपगूढः न कस्य मनसः सुखमेधयति । इन्द्रियाणि हयानाहुरित्युपनिषदुक्तरीत्या इन्द्रियप्रेरकत्वमनेन सूचितम् । अथ च अश्वः इत्यस्य श्वः न इत्यर्थः विज्ञायते । तथा च सङ्कल्पितानि सकलानि कर्माणि अश्वः (न श्वः किन्तु अद्यैव) कुरु इति आज्ञापयति । यतो हि आयुः न कस्यापि ज्ञानगोचरम् । श्वः भवितव्यं न जनो जानाति अतः अश्वारूढः सन् अश्वः पुण्यमार्जयेति कथयति । अथवा ज्ञानं मोक्षं प्रति मुख्यसाधनम् । तस्य सम्पादनाय अहं अश्वरूपी सन् नस्तो मुखादपि वेदान् समुद्गिरामि । मामाराध्य ज्ञानमाप्नुहि इत्यपि ज्ञापयति ।  एवं नवसु दिनेषु भगवान् नवरथारूढः मुक्तिसोपानानि सूचयति । तमिमं प्रमेयमनुसन्धाय सर्वेपि वयं विश्वविस्मयकरं ब्रह्मोत्सवमाकलयेम । 

  • नवरात्रिवैभवम् – श्रीमदुत्तरादिमठे उत्सववैशिष्ट्यम्

    सनातनधर्मस्य वैशिष्ट्यं तस्य ज्ञानपरम्परायां विभिन्नेषु आचारपद्धतिषु च निहितमस्ति । काले काले आचर्यमाणाः उत्सवाः न केवलं वैय्यक्तिकस्थरे अपि तु सामाजिकस्थरे अपि नवनवोल्लासं समासजन्ति । ते च हृदयङ्गमाः उत्सवाः न केवलं आबालगोपालं अनुरञ्जयन्ति अपि तु प्राकृतिक-पौराणिक-सामाजिक-आध्यात्मिकस्थरेषु कस्मैचित् आत्यन्तिकप्रयोजनाय च प्रकल्पन्ते । प्रायः उत्सवाः प्रशस्तेषु पर्वकालेषु आचर्यन्ते । योग्यकाले तेषां आचरणेन लोके शान्तिसम्पदः समुल्लसन्ति । सकाले वृष्टिः, प्रकृतेः प्रसन्नता, आधि-व्याधि-ईति-बाधानां निवारणं च एतेषामनुष्ठानेन प्राप्यते । महती दैवीशक्तिः इदं सकलमपि ब्रह्माण्डं तद्गतसमग्रं व्यापारं च नियमयति इति हि सनातनधर्मस्य मूलस्रोतस्सु वेदेषु उपदिष्टमस्ति । देवान् भावयतानेन ते देवा भावयन्तु वः इति गीताचार्यभणितिः देवतासमाराधनं सर्वेषां कर्तव्यत्वेन बोधयति । देवतातोषणं लोककल्याणाय प्रभवति इति निश्चप्रचम् । अत एव न देवतोषणं वृथा इति आर्योक्तिः । श्रुति-स्मृति-इतिहास-पुराणानि अस्माकं आचारपद्धतिं सम्यगवगमयन्ति । तत्त्वज्ञानपुरस्सरं वेदविहितकर्मानुष्ठानेन देवता आशु प्रसीदति । फलं च अर्चकस्य योग्यतामनुसृत्य प्राप्यते । भाग्यदैवमिह योग्यतानुगं इति वचनमत्र ज्ञापकम् । व्याप्ता अपि देवता कस्मिंश्चित् चले अचले वा प्रतीके सन्निधापिता अनुग्रहोन्मुखा वरप्रदा च भवति इति चिरन्तनेन तन्त्रशास्त्रेण अवगम्यते । अत एव नैसर्गिकतया स्वयं व्यक्तेषु योग्यैः तपस्विभिः सन्निधापितेषु वा प्रतीकेषु देवतासमाराधनं प्रशस्यते । लक्षणवती प्रतिमा एव प्रतीकत्वेन कल्पनार्हा, प्रतिष्ठापनार्हा च भवति । प्रतिमालक्षणानि तन्त्रशास्त्रे कथितानि । अस्मद्देशे उत्तरे बदरी, काशी दक्षिणे श्रीरङ्गं, शेषाद्रिः इत्येवमादीनि पुण्यक्षेत्राणि समुल्लसन्ति । सत्यलोके ब्रह्मणा संपूज्यमानः रङ्गनाथः तस्यैवानुग्रहेण इक्ष्वाकुणा अलाभि । तद्वंशीयैः दशरथादिभिः समर्चितः स साम्प्रतं श्रीरङ्गक्षेत्रे विराजते । एवमेव ब्रह्मकरार्चिता विश्वकर्मनिर्मिता चतुर्युगेष्वपि सम्पूज्यमाना श्रीसीतासमेतश्रीमूलराममूर्तिः श्रीमन्मध्वाचार्यमूलसंस्थानभूते श्रीमदुत्तरादिमठे विराजते। कालान्तरे ब्रह्मणा विवस्वते इयं मूर्तिः प्रदत्ता इति ऐतिह्यमस्ति । ततः दशरथादिभिः सूर्यवंशीयैः राजभिः सम्पूजिता क्रमेण द्वापरे पाण्डवैश्चापि समर्चिता इयं कालान्तरे गजपतिसंस्थानस्य कोशे सन्निवेशिता किञ्चित्कालं न केनापि संलक्षिता । ततः त्रिकालदर्शिभिः श्रीमन्मध्वाचार्यैः नरहरतीर्थाख्येन स्वशिष्येण सा श्रीमठं प्रति समानिन्ये । ततः प्रभृति श्रीमठे सम्पूज्यमाना सीतासमेता श्रीमन्मूलराममूर्तिः स्वसन्निधानविशेषेण श्रीमठस्य पीठाधिपतिभिः सवैभवं समर्च्यमाना अधुनापि विराजतेतमाम् । अनया श्रीमूलराममूर्त्या सह प्रत्यहं श्रीद्विग्विजराम-श्रीविष्ठल-श्रीवंशराम-श्रीवेदव्यास-मूर्तयः अपि संपूज्यन्ते । आहत्य अष्टाविंशतिः मूर्तयः, व्यासप्रदत्ताः पञ्चव्यासमुष्टयः, कूर्मादिशताधिकशालग्रामशिलाः अत्यन्तवैभवेन शुद्धतया प्रत्यहं श्रीमठे सम्पूज्यन्ते ।  एवमिदं संस्थानं अनेकदेवतासन्निधानोपेतं दिव्यं क्षेत्रमिव राराज्यते । श्रीमठे देवतार्चने बद्धादराः वैराग्यमूर्तयः परहंसपारिव्राजकाचार्यादिनामाङ्किताः सर्वतन्त्रस्वतन्त्राः मठशिष्याणां कृते भाष्यादिग्रन्थान् अध्यापयन्ति । लोककल्याणाय च समग्रे भारते परमहंसयतिधर्मान् पालयन्तः भक्तानुद्धरन्तश्च नित्यं सञ्चरन्ति । प्रत्यहं बहवः भक्ताः श्रीक्षेत्रदर्शनाय सुदूरेभ्यः देशेभ्यः तीर्थयात्राभावनया यानैर्वा पादयात्रादिक्रमेण वा समागत्य पूजाकाले जगद्गुरुभिः सम्पूज्यमानानां भगवन्मूर्तीनां विशेषदर्शनं प्राप्य दर्शं दर्शं अलौकिकं हृदयानन्दं प्राप्नुवन्ति । जगद्गुरुभ्यः वैष्णवदीक्षां अनुग्रहमन्त्राक्षतान् च प्राप्य कृतार्थाः भवन्ति । श्रीमठे नवरात्र्यादि-उत्सवदिनेषु सम्प्रदायागताः विशेषपूजाः सभक्तिश्रद्धं समर्प्यन्ते । नवरात्र्युत्सवः सप्तरात्र्युत्सवः पञ्चरात्र्युत्सवः त्रिरात्र्युत्सवः इत्येवं रूपेण यथावैभवं उत्सवाचरणं विधीयते । श्रीमठे विशेषेण त्रिरात्रोत्सवः समाचर्यते । वेदिकाः रङ्गवल्लीभिः, तोरणैः, पूष्पराजिभिश्च अलङ्कृताः भवन्ति । उत्सवात् पूर्वेद्युः सरस्वत्यावाहनं क्रियते । तत्पश्चात् परेद्युः उत्सवदिनमारभ्य प्रत्यहं रत्नखचिते स्वलङ्कृते सुवर्णमण्डपे मूलरामादिसंस्थानप्रतिमापूजा विधीयते । त्रिरात्रोत्सवे मूलं नक्षत्रमारभ्य श्रवणानक्षत्रपर्यन्तं देवस्य समीपे अन्यस्मिन् सुवर्णमण्डपे सच्छास्रपुस्तकानि संस्थाप्य पट्टवस्त्रादिभिः व्यासप्रतिमारूपेण अलङ्कृत्य सरस्वतीपूजा क्रियते । अत्र पुस्तकेषु सरस्वतीरूपेण विशेषतः श्रीवेदव्यासस्य श्रीपरशुरामस्य च पूजा विधीयते । तथा कपिल-दत्तात्रेय-हयग्रीव-राम-कृष्ण-नृसिंहादि-भगवद्रूपाणि तत्तन्मन्त्रैः आवाह्य तथा श्रीभूदुर्गाप्राणसरस्वतीभारती-गरुड-शेष-रुद्र-गौरी-विनायकादींश्च तत्तद्वेदमन्त्रैः आवाह्य प्रतिष्ठाप्य षोडशोपचारैः संपूज्यते । बादरि-जैमिनि-सुमन्तु-वैशंपायन-आश्मरथ्य-पैल-काशकृत्स्न-लोमशादिव्यासशिष्यान्, गुङ्गुं, सिनीवालीं, राकां, सरस्वतीं, इन्द्राणीं, वरुणानीं च सूक्तदेवताः, गुरुपरम्परां, भाष्यटीकाटिप्पणीकर्तृन् च आवाह्य पूजा विधीयते । प्रतिष्ठापनात् प्रभृति विसर्जनपर्यन्तं शास्त्राणां अनध्ययनं भवति । तत्काले विशिष्य वेदशास्त्रग्रन्थानां पारायणं प्रवचनं च क्रियते । पूजाकाले अंभृणीसूक्त, मन्युसूक्त, सरस्वतीसूक्त-रात्रिसूक्तादीनि तथा ब्राह्मणपञ्चिकाश्च श्रीमठशिष्यैः पठ्यन्ते । एवं दिनत्रयं प्रातः सायं च विशेषपूजा, गन्धपुष्पनैवेद्यसमर्पणं, महानीराजनं च क्रियते । प्रत्यहं दर्शनार्थं समागतानां भक्तानां कृते भोजनव्यवस्था च प्रकल्प्यते । विजयदशम्यां विशेषतः पञ्चखाद्यादिनैवेद्यैः सरस्वतीपूजां विधाय उत्तिष्ठेति मन्त्रेण आवाहितदेवताः उद्वास्यन्ते । ततः विद्यार्थिनां शान्तिपाठपुरस्सरं शास्त्रग्रन्थानां पुनः पाठारम्भः भवति । विजयदशम्यां शमीपूजापि विशेषतः क्रियते । विजयदशमी श्रीमध्वाचार्याणां अवतारदिनमपि । अतः श्रीमठे तन्निमित्तीकृत्य मध्वविजयकाव्यस्य सामूहिकपारायणं प्रवचनं च विशेषरूपेण क्रियते । नवरात्रेः प्रथमदिनं आरभ्य दशमीपर्यन्तं श्रीनिवासस्य ब्रह्मोत्सवं निमित्तीकृत्य विशेषतः श्रीनिवासकल्याणकथाश्रवणं च प्रवर्तते । प्रत्यहं नृत्य-गीतादि-विविधाः सांस्कृतिककार्यक्रमाश्च आयोज्यन्ते । तदेवं पर्वकालेस्मिन् सर्वत्र परिसरे कापि नूतना अभिख्या प्रसरति । दिव्यज्ञानगङ्गा भुवमवतरति। भक्तानां हदयेषु भक्तिगङ्गा प्रवहति । एताः नव रात्रयः नवविधभक्तेः प्रतीकाः । विजयदशमी अन्तःशत्रूणां च उपरि विजयस्य सङ्केतरूपा भवति ।  

    ।। श्रीकृष्णार्पणमस्तु ।।

    लेखकः – राघवेन्द्राचार्यः राचूरी

  •  विविधक्षेत्रेषु नवरात्र्युत्सवः

    ।। भारतस्य प्रतिष्ठे द्वे संस्कृतं सांस्कृतिस्तथा ।।

    इत्युक्तरीत्या भगवती सुरभारती संस्कृतिश्च भारतदेशे देदीप्यते। सेयं संस्कृतिः अस्मद्देशं प्रतिबिम्बयति । देशश्च संस्कृतिम् । संस्कारेण या संशुध्दा वर्तते सैव संस्कृतिरिति कथ्यते । संस्कृतिः जनपदमाश्रित्य वर्धते यथा भाषा । प्रतिदिनं भाष्यमाणा भाषा जीवतीति यथोच्यते एवं  संस्कृतैः जनैः आचारपदमानीता एव संस्कृतिः जीवतीति वक्तुं युक्तम् । भारतीयाः जनाः संस्कृताः सन्तः स्वीयं भारतीयत्वं ज्ञापयन्ति । इयं च संस्कृतिः बहुरूपेण देशीयेषु जनेषु अन्तर्हिता । सैव संस्कृतिः आचार इति व्यपदेशं भजते । आचारेष्वन्यतमश्च नवरात्रिः । नवानां रात्रीणां समाहारः नवरात्रिः ।  नवरात्रिः शरदृतौ आश्वयुजमासे आचर्यते इति शरन्नवरात्रिरित्यभिधां प्राप । यत्र हि नवदिनेष्वपि देवी दुर्गा कुमारिका, त्रिमूर्तिनी , कल्याणी, रोहिणी, काली, चण्डिका, शाम्भवी, दुर्गा इति नवरूपैः नवदिनेष्वाराध्या भवति ।  अत्र हि कथा – पुरा महिषो नाम महासुरः स हि सज्जनानपीपिडत् । तदसहमाना दुर्गा सज्जनानुग्रहेच्छया क्षित्यामवततार । अवतीर्य महिषासुरमर्दनेच्छया  नवदिनान्ययुध्यत । दशमेहनि महिषासुरममर्दयत्  ।  तथा च तत्संस्मरणपुरस्सरं कार्तज्ञनिवेदनाय नवदिनानि दुर्गां प्रपूजयन्ति । विशेषतः दशमदिने विजयदशमीं आचरन्ति । दुर्गतिनाशाय दुर्गां पूजयेत् इति आर्योक्तिः। तदुक्तं ।। दुर्गां दुर्गतिनाशाय पूजयेन्मनुजःसदा ।। इति । तथा च भक्ताः स्वर्णमयीं रजतमयीं ताम्रमयीं मृण्मयीं वा यथाशक्ति दुर्गाकृतिं कृत्वा  प्रपूजयन्ति । एवं इमं उत्सवं आसेतुहिमाचलं हिन्दुजनाः आचरन्ति। कर्नाटका, गुजरात्, आंध्रा, तेलंगाणा, ओडिस्सा, बेंगाल, इत्यादि नैकेषु राज्येषु विविधैः प्रकारैः विवधैः नामभिः प्रसिद्धोयं महः । कर्णाटकराज्ये महिषपुरस्य महाराजस्य कालतः एव राजवंशीयाः विजयदशमीप्रयुक्तं विजयोत्सवं घनवैभवेन आचरन्ति स्म  । अस्मिन् सन्दर्भे महीषूरराजवंशस्य कुलस्वामिनीं भगवतीं श्रीचामुण्डेश्वरीं विविधोपचारैः पूजयन्ति प्रार्थयन्ति  । नानाविधरत्नकाञ्चनाभरणैः अलङ्कृत्य समलङ्कृतगजस्योपरि राजमार्गे राजयात्रां कुर्वन्ति । भगवती महिषासुरमर्दिनी अस्मदुद्धिधीर्षया समायाति इति सन्तोषेण नानाविधभूषणैः भूषिताः जनाः विविधनृत्यगीतवाद्यैः राजमार्गे स्वामिन्याः दर्शनोत्सुकाः भजन्ते । तस्याः वैभवं प्रत्यक्षीकर्तुं अनुग्रहरसपिपासवः देशविदेशीयाः नैकसङ्ख्याकाः भक्तजनाः सादरं समायान्ति । भगवत्याः दर्शनेन आनन्दतुन्दिलाः भवन्ति । 

    अपि च तेलङ्गाणाराज्ये नवदिनेषु नवविधालङ्कारैः नवदुर्गां पूजयन्ति । जनाः दुर्गापूजया सह विशेषतया गौरीपूजां च विदधति । तस्याः नाम बृहदम्बा (बतुकम्मा) इति । वेमुलवाडानगरस्थराजराजेश्वरस्य पत्नीं राजराजेश्वरीं बृहदम्बारूपेण पूजयन्ति । शरद्ऋतौ यानि यानि पुष्पाणि विकसन्ति तानि तानि पुष्पाणि वर्तुलाकारेण शिखरमिव संयोज्य मध्ये गोमयेन हरिद्रया च गौरीं कृत्वा मृदा लक्ष्मीं च (बोड्डेम्म) संस्थाप्य कृतालङ्काराः सुवासिन्यः देव्यौ परितः गायन्त्यः स्तुवन्त्यः प्रदक्षिणां विदधति । विजयदशम्यां श्रीदुर्गया सह लक्ष्मीगौर्यौ च निमज्जयन्ति । 

    एवमेव आन्ध्रप्रदेशे तिरुमलक्षेत्रे कलियुगप्रत्यक्षदेवः भक्तेष्टचिन्तामणिः आपद्भान्धवः अनाथरक्षकः  सप्तशैलेश्वरः श्रीनिवासः विलसति । आश्वयुजशुक्लप्रतिपदमारभ्य ब्रह्मादयः तं गिरिं प्राप्य वेङ्कटेशं विशेषतो पूजयन्ति । ब्रह्मोत्सवः इति तस्य दशदिनात्मकस्य उत्सवस्य नाम । अखिलाण्डकोटिब्रह्माण्डनायकः वेङ्कटेशः भक्तवरदो भूत्वा दशदिनानि यावत् मन्दिरात् बहिरागत्य राजवीथ्यां सूर्यप्रभवाहन चन्द्रप्रभवाहन कल्पवृक्षवाहन मुक्तपल्लकी अश्ववाहन गजवाहन शेषवाहन गरुडवाहन हनुमद्वाहन इत्यादिवाहनानां मध्ये विराजमानः सन् अनुगृह्णाति । अस्मिन् मङ्गलोत्सवे लक्षाधिकाः भक्ताः मधुकरा इव भगवन्नामस्मरणरवैः भगवदनुग्रहरूपं मकरन्दं आप्नुवन्ति । दशस्वपि दिनेषु नृत्यगीतवाद्यान्दोलिकाभिः वेदघोषैः भगवन्नामस्मरणैः वेङ्कटाद्रिः प्रतिध्वन्यते ।

    एवमेव विजयवाडानगरे इन्द्रकीलाद्रौ श्रीकनकदुर्गा विलसति । दशसु दिनेष्वपि वैभवेन अम्बां अर्चयन्ति । विजयदशम्यां पर्वतस्य अधः प्रवहन्त्यां कृष्णायां उडुपोत्सवं आचरन्ति । तस्मिन् उत्सवे भेतालनृत्यप्रदर्शनं कुर्वन्ति । विजयवाडानगरस्थवैशिष्ट्येषु अन्यतममिदम् । 

    बेंगालराज्यस्थकोल्कत्तानगरे वङ्गदेशीयाः, सप्तमी-अष्टमी-नवमी-दिनेषु भगवत्याः दुर्गायाः पूजां वैभवेन कुर्वन्ति नवदिनेष्वपि राज्ये सर्वत्र हरिकथाः पुराणप्रवचनानि च प्रचलन्ति । नवम्यां दुष्टजनमनस्थैर्यापहन्त्र्याः सज्जनेष्टदात्र्याः श्रीकाळ्याः दर्शनार्थं  नैकप्रदेशेभ्यः भक्ता समागच्छन्ति । अन्तिमे दिने (नवम्यां) हुग्लीनद्यां मातरं निमज्जन्ति, तस्मिन् दिने कुमारीपूजां च विशेषतया कुर्वन्ति । 

    ओडिस्साराज्ये अपि “दशहरा “इति नाम्ना इमं उत्सवं निर्दिशन्ति । तत्रस्थ “कथक्” कलाकारैर्निमितभगवत्याः दुर्गायाः मूर्तीः नैकासु वीथीषु प्रतिष्ठाप्य वैभवेन पूजा-अर्चन-गान-भजन-नृत्यैः भगवतीं संतोषयन्ति । नवरात्रोत्सवे तत्रत्याः पात्रविशेषे तण्डुलधान्यं संस्थाप्य लक्ष्मीनारायणं पूजयन्ति । तथैव मार्गशीर्षमासेऽपि अनेनैव प्रकारेण लक्ष्मीं पूजयन्ति। इमं प्रकारं “मान बान” इति व्यपदिशन्ति ॥ विजयदशम्यां भगवती दुर्गा विजयप्रदेति मत्वा पूजां कुर्वन्ति । दशहरा इति नाम तु रामरावणयोर्युद्धे रामः रावणं अवधीदिति हेतोः दशकण्ठहरोयमुत्सव इति तथा व्यपदेशः । रावणप्रतिकृतिं विधाय बाणेन प्रज्वालयन्ति । रामः रावणोपरि विजयं संसाधितवानिति चिन्तनेन अस्माकमपि विजयो भवतीति ते विश्वसन्ति । 

    गुर्जरदेशीयास्तु पार्वतीं शक्तिरूपेण पूजयन्ति ।  प्रतिगृहं हरिद्रया चक्रत्रिशूलचिह्नैः अलङ्कुर्वन्ति । तत्पुरतः क्षेत्रादाहृतया मृदा वेदिकां निर्माय तस्योपरि यवान् गोधूमान् च स्थापयित्वा मृण्मयपात्रं शुद्धाद्भिः पूरयित्वा तस्मिन् पूगीं रजतनाण्यं ताम्रनाण्यं वा संस्थाप्य तत् पात्रं भगवती इति सम्भाव्य तस्मिन् देव्याः प्रतिष्ठां कृत्वा अर्चयन्ति । अस्याः कुम्भीप्रतिष्ठा इति नाम । दुर्गाष्टम्यां यागादीन् विधाय दशम्यां मातुः निमज्जनं कुर्वन्ति । तदनन्तरं आपौर्णमास्यं गर्भा इति सुप्रसिद्धमुत्सवं आचरन्ति । विशेषतः उत्सवे स्त्रियः ऩृत्यन्ति । तथैव श्रीरामः रावणवधात् प्राक् शमीं संप्रार्थ्य रावणं जितवानिति, एवं पाण्डवा अपि शमीपूजनेनैव स्वीयं जयं अज्ञातवासात्प्रभृति समसाधयन्निति अधुनापि वयं विजयदशम्यां शमीपत्रैः भगवदर्चां विधाय स्वात्मानं धन्यं मन्यामहे । 

    शमी शमयते पापं शमी शत्रुविनाशिनी ।

    अर्जुनसय धनुर्धारी रामस्य प्रियदर्शिनी ।। इति

     ।। सर्वेभ्यः नवरात्रीपर्वणः शुभाशयाः ।।

    लेखकौ – मधुकृष्णसुधर्माणौ

  • श्रीजयतीर्थगुरुभ्यो नमः

    अथ कदाचित् विश्वावसुकृशानू स्वर्धुनीप्रतीरोपकण्ठं प्रवर्तमानमहामहिमवन्महमासेदतुः । ददृशतुश्च वैयासकिं वैयात्यादिविततविद्युतिम् । सङ्कथाः प्रावर्तिषुः प्रावृषि प्रवर्षमिव ।

    भगवान् बादरायणिराह – अथ समगमच्छरदां शतम् । प्रतनः पृथिवीपतिरिक्ष्वाकुकुलसम्भवो नाभागः । नाभागोपि नाभिर्भूभागं निश्शेषमेवाशिषत् । समयः समवर्तत । अम्बरीषः सम्बभूव । यो हि विभववरैरप्यविभाव्यः, जलधिरिव तेजस्वी, स्वर्णदीव स्वर्णचरणचरी, नन्दिनीजनक इव नन्दिनीवत्सलतापरिबद्धः, कल्पवृक्ष इव शतकल्पकल्पनाकल्पितप्रदो द्वितीयपाकशासनोsद्वितीयोsपाकशासनः । अमुना हि –

    रमापतिपदाम्भोजनिष्यन्दमकरन्दकः । अन्धोपममिव स्वादं स्वादमास्वादितोsनघः ।।

    सदा देवं पश्यत्यथ भवति साशङ्कनयनो दृशौ देवस्यात्ति प्रवितरितभोज्यं न हि मृषा ।

    नमत्यद्धा देवं ह्यथ जपति गायत्यवितथं निसर्गोsयं दैवो हरिभजनसम्मूढहृदयः ।।

    अतार्प्सीत् हरिमत्यन्तमहासीदखिलं जगत् । अहार्षीत् दैवमानन्दं व्यनैषीत्कालमीदृशः ।।

    तितर्पिषुर्देवदेवं चिकीर्षुरमलां कृतिम् । जिहीर्षुर्मुक्तिमार्गेस्मिन् दधार द्वादशीवर्तम् ।।

    अथ व्रतान्ते मध्वरिं मधुवने आरिराधयिषुः त्र्यह उपोषितः कलिन्दमपदरजोरञ्जितायां कालिन्द्यां विजगाहे । समाराधयाम्बभूव च अम्बुसम्भवसम्भवम् । महत्या परिचर्यया महामय्या माहेय्या च यावद्भूति विप्रानममहत । अथ स्वादुङ्कारं सर्वे भोजिताः । प्रवव्राज च तत्र भवान् परिव्राट् दूर्वासाः ।

    तमभ्यर्हणपाद्यादिविधिनाsनुननाथ सः । प्रतिनन्द्याह्निकायाथ प्रस्थिता निस्तलासनः ।।

    अथार्धमुहूर्तमवशिशेष । किं मया पारणयितव्यम् अथ महते निरीक्षयितव्यम् ।

    विरुद्धकृत्यसङ्घर्षात् द्वैधीभवति मे मनः । बीजमङ्कुरसम्भेदादिव मध्यविघूर्णितः ।।

    मा त्वरिष्ठाः मा च विपदं गमो मनः ।

    रोगो नाम स हि जायुहतो भवेद्यो पापं हि तद्भवति यत्प्रतिकर्महर्तृ ।

    द्वेषो हि नाम स हि सौहृदसंविभग्नः कष्टं हि तद्भवति यत्परिहारहारि ।।

    इत्येवमनुचिन्त्य ………… पयःपानं पारणोपममपि उपोषणोपम् । तदेवं सलिलसुभगनिपानेन धर्ममनुरुन्धे न चात्र कश्चिदागःपूगः इति सलिलमासस्वादे । अत्रान्तरे ऋषिरार्छत् ।

    – अनुवर्तते

  • गङ्गाष्टकम्