Category: Uncategorized

  • ATTENTION : All Sanskrit Learners and Enthusiasts! [High School Students, College Students and Everyone] Ramotsava – Padyabhiramam (श्रीरामोत्सवपद्याभिरामम्) from Atmashrama Dear All, As you all know, we have a grand inauguration (Praana Pratishtapane) of Sri Rama at Ayodhya on Jan 22, 2024. As part of the celebration of this auspicious and mega event through out…

  • श्रीमद्भागवते द्वितीयस्कन्धे प्रथमाध्याये वैराजाख्यस्थूलरूपस्य धारणाश्रयत्वं – विशेषस्तस्य देहोयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ।। आण्डकोशे शरीरेस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो योसौ भगवान् धारणाश्रयः ।। इत्यादिभिः श्लोकैः प्रतिपादितम् । एतच्च भगवतो विराण्णामकस्य स्थूलरूपस्य धारणं मनोयजसाधनीभूतोपाययोः आद्यत्वेन संक्षेपविस्तराभ्यां प्रतिपादितम् ।  ततः द्वितीयाध्याये मनोजये मुख्यतो भगवद्वाचकैः इन्द्राग्न्यादिभिः पदैः इतरार्थास्मरणरूपं द्वितीयसाधनं विधातुं सर्वनाम्नां भगवानेव…

  • प्रियसंस्कृतरसिकाः, ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति । स हि सर्वस्य कर्ता , पालकः, संहारकश्च । स एव सर्वस्य स्वामी । सः सर्वस्य ईष्टे । अत एव वेदाः तं जगज्जन्मादिकारणत्वेन वर्णयन्ति । यतो वा इमानि भूतानि जायन्ते यतो जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति इत्यादीनि वचनानि सन्ति ।

  • प्रियसंस्कृतरसिकाः, स्वागतम् । अद्य वयं सस्कृतसुरभ्याः द्वितीयं कुसुममादाय समुपस्थिताः । अद्यतनशब्दः अस्ति अश्वः । ननु भवद्भिः कदाचित् धावन् अश्वो दृष्टः । धावन्तं अश्वं दृष्ट्वा खलु बालाः पश्य – अश्वो धावति – इति सहर्षं उद्गिरन्ति । अश्वाः विविधवर्णाः भवन्ति । श्वेताः, कृष्णाः, रक्ताः, धूसराः इत्यादि । अश्वाः आशुगाः भवन्ति । प्राचीनकाले अश्वाः युद्धे गमनागमने च प्रधानसाधनानि…

  • संस्कृतसुरभिः – 1

    प्रियाः संस्कृतप्रणयिनः, सुस्वागतम् । संस्कृतसुरभिः स्वसुगन्धगन्धं सर्वरसजुषां परितोषाय परिवेशयत्यस्मिन् मञ्चे प्रेषक्रमेण । अद्यतनः शब्दः अस्ति अनलः । अनलो नाम अग्निः । अस्य क्वचित् वह्निः, कृष्णवर्त्मा इत्यादीनि पर्यायपदान्यपि कोशेषु पठ्यन्ते । भवन्तः अस्मिन् विषये अधिकज्ञानार्थं अमरकोषं द्रष्टुमर्हन्ति । अनलस्य स्वभावः अस्ति उष्णस्पर्शवत्त्वम् । अग्निस्पर्शनेन दाहो जायते इति सर्वानुभवसिद्धमिदम् । परं शिशवः एतन्नाजानन्ति । अतः पितरौ चिन्ताक्रान्ताः…

  • भारतवर्षमूर्धन्यालङ्कृतः नगाधिराजः हिमालयो नाम पृथिव्याः मानदण्ड इव पूर्वपश्चिमौ समुद्रौ प्रविश्य विराजते । तस्मिन् भरतवर्षस्य मुकुटायमाने पर्वते भास्वन्ति रत्नानि भास्वत्यः महौषधयः च भूरिशः समुल्लसन्ति । स भारतीयानां सर्वकामानां दोग्धा इव विराजते । धरित्र्याः शोभां वर्धयन् अयं नगः देवतया अधिष्ठितः इति अस्य नगस्य देवभूमित्वं पुराणेषु प्रसिद्धम् । सर्वासु जातिषु यद् यद् उत्कृष्टं तत्सर्वं अत्र समुपलभ्यते । प्रायः…

  • समेभ्यः श्रीकृष्णजन्माष्टमीपर्वणः शुभाशयान् वितरामि । अस्मिन् सन्दर्भे मदीया काचन कविता अत्र प्रस्तूयते । तद्विदाङ्कुर्वन्तु सज्जनाः । स मातापितृभ्यां नयनशुभगाभ्यां परिलसन्- मुखश्रीसक्ताभ्यां हरिरिह सदामोदजनकः । क्वणत्काञ्चीदामप्रकटसुममालाविलसितः शिशोर्भावं यातः सुतकलितदृग्भ्यां परिदधे ।। इह नयनशुभगाभ्यां परिलसन्मुखश्रीसक्ताभ्यां सुतकलितदृग्भ्यां मातापितृभ्यां शिशोर्भावं यातः क्वणत्काञ्चीदामप्रकटसुममालाविलसितः सदामोदजनकः सः हरिः परिदधे ।। साक्षान्नारायणः देवकीवसुदेवयोः सुतत्वेन अवततार । तदा जनकौ आश्चर्यचकिताभ्यां स्वनयनाभ्यां श्रीकृष्णं दधतुः ।…

  • ऊर्जा – 2 आत्माश्रमगुरुकुलम् प्रस्तुतिः – प्रकृतिवर्णनम् बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।। सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये । अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् । ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।…

  • जीवाः त्रिविधाः मुक्तियोग्याः,नित्यसंसारिणः,तमोयोग्याः चेति।तत्र प्रमाणं तु नीच मध्योच्च भेदेन जीवास्ते त्रिविध मताः इति च। तथा हि गीतायाम् त्रिविधा भवति श्रध्दा देहिनां सा स्वभवजा। सात्विकी राजसी चैव तामीसी चेति तां श्रुणु।।सम्पत्तु त्रिविधा प्रोक्ता उत्तमाधममध्यमाः ।। इति।।तथाहि त्रिगुणात्मकानां जीवानांअनुसारेण  श्रीकृष्णः तेषां फलं कथयति ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृतिस्था अधोगच्छन्ति तामसाः।।उत्तमा देवतास्तत्र ऋष्याद्या मध्यमामताः।अधमा मनुष्योत्कृष्टाः ते चापि…