अथ प्राप्तहस्तावलम्बनो उषादेव्या प्राचीमुदञ्चन् मयूखमाली । अधस्ताच्च तरुपतत्पयोबिन्दुक्लिन्नमृदाकीर्णपरिसरः । पुण्याश्रमेषु होमधूमलहरीभिः सर्वा च प्रकृतिः सुप्रभातसुखानिलेन उदयासीत् । तेषु चाश्रमेष्वन्तमः धौम्याश्रमः यश्च स्वतपसा नाशितबाह्याभ्यन्तरशत्रुः तस्य आरुणिरुपमन्युर्बैदश्चेति शिष्यत्रयमासीत् । तत्र आरुणिमुपाध्यायोब्रवीत् साम्प्रतिकःखलु वर्षाकालः। सञ्जातासु च तासु वर्षासु विद्रवन्त्यालवालाः गच्छ केदारखण्डं बधान । इत्याजिज्ञपत् ।एवमाज्ञिप्तः ततः प्रस्थाय तत्र प्राप्तः केदारखण्दं बद्धं नाशकत् । स एवं क्लिश्यमानेपश्यदुपायं भवतु एनं करिष्यामि इति विचिन्त्य स तं प्रविवेश । शयाने च तस्मिन्नुदकं तस्थौ । स्वशिष्यं चिरमनागतं वीक्ष्य गुरुरपृच्छद्वौ शिष्यौ क्वास्त्यारुणिरिति तावब्रूतां भवतैवानुज्ञातः सन् जगाम केदारखण्डं । इदं प्रतिश्रुत्य तर्हि गच्छामो वयमपि यत्रास्ते आरुणिः इति । ततस्तदुपकण्ठं गत्वा उच्चैर्ध्वनिना भो आरुणे क्वासि वत्स इत एहि इति तमिममुपाध्यायस्य रवं श्रुत्वा तस्मात् सहसोत्थाय तमुपाध्यायमुपतस्थे अयमस्म्यत्र केदारखण्डे निःस्सरमाणमुदकं संरोद्धुकामः संविष्टः भवचछब्दं श्रुत्वैव तरसोत्थाय प्राप्तः । तदभिवादये भवन्तं आज्ञापयतु कमर्थं करवाणि इति । स एवमुक्तः उपाध्यायः प्रत्युवाच । यस्मात् मद्वचनमनुष्ठितं तस्मात् त्वं श्रेयो अवाप्स्यसि । सर्वेचवेदाः प्रतिभास्यन्ति । अथो उपाध्यायेन अनुगृहीतः भूयो कृतज्ञताभावं आविष्कुर्वन् ततो निवृत्तः ।।
रचयिता – सत्यप्रियः कट्टे
Leave a comment