अस्ति पुरा त्रिशङ्कुर्नाम महाराजः यः स्वबाहुबलेन सर्वान् शत्रूनुन्मूल्य सागराम्बरां विश्वम्भरां प्रीत्या शशास । प्रजानां प्रीतिपात्रतां गतः। धर्मेण धरां परिपालयतः तस्य मनसि अनेनैव देहेन स्वर्गारोहणं कार्यं इति चिन्ता समुद्भूता । तामेव चिन्तां निविवेदयिषुः वसिष्ठनेदिष्ठमुपातिष्ठत् । वसिष्ठस्तु तदीयं मनोररथमपथे चलितं बुध्वा तदीयामर्थनां प्रत्याचष्टे । एतेन विद्धहृदयो त्रिशङ्कुः कुलगुरेः वसिष्ठस्य शतं पुत्रान् एकैकशः अभ्यर्थयामास तैः सर्वैरपि निराकृतः रुडावृडावृतनयनःपरुषैः वचनैःअनिन्दत् । ते च तं चाण्डाले भव इत्यशपन् । सतु प्राप्तचाण्डालः कथञ्चित् स्वमनः पूरयितुं इच्छन् वसिष्ठस्परधिनं महातपस्विनं विश्वामित्रमुपेत्य निवेदयामास । विश्वामित्रस्तु तमिममुदन्तं श्रुतः चाणलस्यापि तस्य यज्ञं क्रतुं मतिं व्यधात् । अवदच्च राजन् मा भैषीः फलिष्यति ते मनोरथः अहं त्वां याजयामि स्वर्गं तव हस्तगतं जानीहि । इति ततः सः यज्ञं निश्चित्य बाह्मणानयनाय सर्वतः शिष्यान् प्राहिणोत्   । अकरोच्च यज्ञाय महान्तं सम्भारम् । अथ ब्राह्मणैः सह घोरं सप्ततन्तुं आरभत । देवास्तु स्वाहाकारैराहूयमाना अपि न समागताः तदनु विश्वामित्रः कृद्धो यज्ञं परित्यज्य चिरं तप्तस्य आत्मनः तपसः फलेन त्रिशङ्कुंस्वर्गमारोपयामास । इन्द्रादयो दिवौकसः सदेहं चाण्डालं स्वर्गमारोहन्तं वीक्ष्य अधः पातयामासुः । एवमधिक्षिप्तः सः त्रायस्व मां त्रायस्व मां  उच्चैश्चक्रन्द तदा रुडावृतेन कौशिकेन तिष्ठ तिष्ठ इति भूम्याकाशयोर्मध्ये स्थापितः । तदुक्तं ।।अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः।। ।।कर्तव्यमेव कर्तव्यं कर्तव्यं लोकसम्मतं । अकर्तव्यं तु कुर्वाणैः त्रिशङ्कुः स्मर्यतां जनैः ।। इति च 

रचयिता – सत्यप्रियः कट्टे

Posted in

Leave a comment