नृत्यत्यद्य वसुन्धरा

श्रीराम जय राम श्रीराम जय राम

सकलसुगुणधाम्नः साकेतपूरीधाम्नः श्रीरामनाम्नः दिव्यनाम जयश्रीराम जयश्रीराम इति जेगीयत्कोटिकोटिभक्तवृन्दैरद्यावधि स्रवन्नयनसुनिरीक्षितवेलासम्प्राप्ता इति कस्येदानीं चेतः नानन्दतुन्दिला ।

ममापि च मानसे रामोत्सवानन्दजनितवेगः कश्चन मां मुखरयति अनवद्यपद्यगुम्फनाय । यथा हि –

नृत्यत्यद्यवसुन्धरा तनुरुहप्रोत्फुल्लरोमाञ्चिता
खेलत्तुङ्गविहङ्गमेन्दुवदनस्वच्छन्दमन्दस्मिता ।
कूजत्कोकिलकम्रकण्ठकवनस्वानन्दसंपूरिता ।
श्रीसाकेतपुरीपरापरिलसद्रामालयाडम्बरा ।।

जय श्रीराम जय श्रीराम जय जय श्रीराम!!!

किं भोस्तेन

सर्वेपि अद्य कोविद्-२०१९ इत्यस्मात् वैराणोः संत्रस्ताः । सकलमपि विश्वं भयभ्रान्तमकरोत् अयं वैराणुः । न कोपि देशः अद्यत्वे अवशिष्टः यः अनेन वैराणुना अपरिमृष्टः । अतिसुलभतया अन्यसङ्क्रामकत्वमेव एतस्य बलम् । केवलं सम्पर्कमात्रेण एकस्मात् पुरुषात् अन्यपुरुषं संक्रम्य तमपि कोविदं (कोविद्-ग्रस्तं) करोत्येष वैराणुः । यद्येवं सर्वेपि अनया भङ्ग्या कोविदः भवेयुः तर्हि नारायणावतारस्य भगवतो व्यासस्य किं कृत्यं अवशिष्यते । मन्दजनान् उद्धिधीर्षुः खलु भगवान् ब्रह्मरुद्रेन्द्रादिभिरर्थितो व्यासत्वेनावततार । सकलकलिमलविनाशनाय तेन च महाभारतादिग्रन्थजातं अकारि । अतः स्वकृतशास्त्रस्य अवैय्यर्थ्याय सः प्रार्थ्यतेस्माभिः । हे नारायणो व्यासः भवदनुग्रहेण सर्वोप्यत्र जनः कोविदाख्यवैराणुना ग्रस्तो मा भूत् । किन्तु भवत्प्रणीतग्रन्थपठनादिना भवद्भक्तिं सम्पाद्य वस्तुतः कोविदाः भवेयुः । एवमाकलयति मे चेतः अधस्तनपद्यव्याजेन –

मन्दीभूतात्मबोधामददमनपटुर्वेदनाथोSभिसर्प्य
दैवैर्ब्रह्मादिमुख्यैः सकरुणमसकृत्प्रार्थितः कोविदान् स्वान् ।
कर्तुं व्यासाात्मना यद् व्यदधदधिकसंवित्प्रदं ग्रन्थजातम्
किं भोस्तेनाद्य कोविद् कलयति सकलं स्पर्शतः कोविदं चेत् ।।

विश्वसंस्कृतदिनाचरणम्

नमः सर्वेभ्यः,

    अहं आचार्य राघवेन्द्रः । संस्कृतच्छात्राणां भवतां समेषां अभिनन्दनानि आशीर्वचांसि च । भवन्तः सर्वे जानन्त्येव यत् संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति जेगीयमानायाः संस्कृतमातुः वरपुत्राः वयं एतद्देशप्रसूताः प्रगल्भभारतीयाः । प्रतिवर्षं श्रावणपूर्णिमायां विश्वसंस्कृतदिनस्य आचरणं विश्वाद्यन्तं संस्कृतप्रेमिभिः क्रियते । आत्माश्रमेपि एष्यत् श्रावणपौर्णिमायां विशेषतया संस्कृतदिनाचरणं भविष्यति । विशेषपूजा, पारायणं, भजनं, संस्कृतकार्यक्रमाश्च तस्मिन् दिने आयोजयिष्यन्ते । सायं ५ वादनतः ६ वादनपर्यन्तं प्रचालयिष्यमाणे अस्मिन् कार्यक्रमे संस्कृतदीपिकायाः छात्राः अपि भागग्रहीतारः भवितुमर्हन्ति । ५ निमेषपर्यन्तं लघु उपन्यासं कर्तुं ५ विद्यार्थिनां अवकाशः कल्पितः । कृपया स्वकीयविषयं सिद्धं कुर्वन्तु इति प्रार्थया ।

झूम (ZOOM) द्वारा एषः कार्यक्रमः सर्वैः अपि वीक्षितुं शक्यः । तस्य कुञ्चिका अधो निर्दिष्टो वर्तते ।

संस्कृतदीपिका  is inviting you to a scheduled Zoom meeting.

 Date : Monday, 3rd August, 2020

Time : 5pm – 6 pm

Join Zoom Meeting

https://us02web.zoom.us/j/87002370502?pwd=dlRrRHdIWmZmVEM0ZHFtQ0owdTE3dz09

Meeting ID: 870 0237 0502

Passcode: 092553

One tap mobile

+13126266799,,87002370502#,,,,,,0#,,092553# US (Chicago)

+13462487799,,87002370502#,,,,,,0#,,092553# US (Houston)

Dial by your location

        +1 312 626 6799 US (Chicago)

        +1 346 248 7799 US (Houston)

        +1 408 638 0968 US (San Jose)

        +1 646 876 9923 US (New York)

        +1 669 900 6833 US (San Jose)

        +1 253 215 8782 US (Tacoma)

        +1 301 715 8592 US (Germantown)

Meeting ID: 870 0237 0502

Passcode: 092553

Find your local number: https://us02web.zoom.us/u/kdX1zXEd

संस्कृतदीपिका – षाण्मासिकप्रशिक्षणवर्गः

प्रिय संस्कृतबन्धो,

संस्कृतेन संभाषणं दिनं दिनं अस्माकं यशोवर्धनम् ।

किल विद्यालयविजयलाञ्छनं गुरुचरणानामेतदञ्चनम् ।।

मन्ये नैतदविदितं भवतां संस्कृतं अस्माकं देशभाषाणां मातृरूपेण विराजते इति । अस्माकं देशे बहूनि राज्यानि सन्ति यत्र विभिन्नाः भाषाः प्रोच्यन्ते । उत्तरे देशे हिनदीं तद्विकाराः भाषाः विद्यन्ते । दक्षिणे तेलुगु, तमिल् , कन्नड, मळयाळम् इत्यादयः भाषाः प्रोच्यन्ते । पश्चिमे देशे कोङ्कणि, तुलु, मराठी भाषाः व्याप्रियन्ते । पूर्वस्मिन् देशे बाङ्ग्ला, ओरिया इत्यादिभाषाः विराजन्ते । एवं सतीष्वपि नैकासु भाषासु प्राचीनाखण्डभारते औत्तरात्येन दाक्षिणात्यैः सह व्यवहारे काठिन्यं नैव अनुभूयते स्म । तद् कस्य हेतोः इत्युक्ते सर्वेसां भाषाणां मातृरूपेण विराजते स्म संस्कृतभाषा । स्वासु स्वासु भाषासु अभिमानवन्तोपि नागरिकाः विदेशीयैः सह व्यवहारकरणे संस्कृतं व्याहरन्ति स्म । अधुना तत् स्थानं आग्लभाषया अपहृतम् वर्तते । इदनां स कालः आगतः यस्मिन् सर्वे संस्कृताभिमानिनः पुनः देशभाषामूर्धन्यस्थाने संस्कृतं भाषां अभिषिञ्चेयुः । अस्मिन् प्रसङ्गे आत्माश्रमेण षाण्मासिकः संस्कृतप्रसिक्षणवर्गः प्रचालयिष्यते इति नितरां मोमुद्यते मे मनः । सर्वेपि संस्कृताभीप्सवः अस्मिन् वर्गे प्रविश्य धन्याः भवन्ति इति प्रार्थये ।

गणे पञ्जीकरणाय इमां कुञ्चिकां नुदन्तु … https://chat.whatsapp.com/FNydjI8AslEIcq2RwWg6uN

धन्यवादाः

कोविद् कोविद्

कश्चित् कोविदनामकोसुरवरो बंभ्रम्यमाणो भुवि

चीनादेशसुलब्धजन्मविभवो नागात् सुतृप्तिं क्वचित् ।।

नानादेशजनादनोददहनो दृप्तो हिरण्याभिधस्

तं त्वं संहर संहराशुनखराग्रेतं नृसिंहाग्रणीः ।।

कोविद् नामकः कश्चन असुरः चीनादेशे जातः । साम्प्रतं सः विजृम्भते सर्वदेशगतजनान् सः संहरति दुःखं च ददाति । एवंभूतोपि स अधुनापि तृप्तिं न प्राप । हे सर्वोत्तम नरसिंह, त्वं तं सद्य एव स्वनखराग्रगतं कृत्वा संहर संहर इति प्रार्थना अस्मिन् श्लोके विहिता ।

सर्वे बिभ्यति कोविद् कोविद् कारणमाद्यं नो विद् नो विद् ।

यो जानीयात् को विद् को विद् किं कुर्यात् तं कोविद् कोविद् ।।

अन्वयः – कोविद् कोविद् इति सर्वे बिभ्यति (अधुना) । (तस्य) आद्यं कारणं नो विद् नो विद् । यः कः विद् कः विद् इति जानीयात् तं कोविद् कोविद् किं कुर्यात् ?

अद्यत्वे कोविद् नामकः कश्चन रोगः सर्वत्र प्रसरति । न कोपि अत्र तन्मूलं जानाति । यः पुरुषः कः ब्रह्मा एव तन्मूलं जानाति न अन्यः इति निश्चयेन जानाति तं पुरुषं कोविद् किं कुर्यात् न किमपि । ।

न्यायप्रवृत्तिः

न्यायप्रवृत्तिः नाम न्यायेन प्रवृत्तिः । न्यायश्ब्दश्च धर्मापरपर्यायः । स च धर्मः वेदैकसमधिगम्यः । वेदश्च अपौरुषेयत्वेन स्वतः प्रमाणभूतः । स सर्वधर्माणां आश्रयभूतः । अत एव वेदोखिलो धर्ममूलम् इत्युक्तं भागवते । वेदोक्तः धर्मः दुरूह्यः दुर्निरूप्यः दुरधिगम्यः दुरनुष्ठेयश्च सर्वमानवैः । स च वैदिकधर्मः सदृष्टान्तं निरूपतः व्यासरूपिणा स्वयं नारायणेन । कोह्यन्यः पुण्डरीकाक्षात् महाभारतकृद्भवेत्, नष्टधर्मलोककृपालुभिः ब्रह्मादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार इत्यादिवचनैः विज्ञायते । पञ्चमो वेदानां वेदः इति महाभारतस्य पञ्चमवेदत्वं शास्त्रेषु प्रथितम् । स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने इति महाभारते यो धर्मो निरूपितः, स ब्रह्मज्ञानसम्पादनायालं इति तत्रैवाभाणि सत्यवतीवशंवदेन व्यासेन ।।

एवं धर्मप्रवृत्तस्य सकलपुरुषार्थसम्पत्तिः सम्पत्स्यते । न्यायप्रवृत्तस्य न केवलं दैवमेव सहकरोति अपि तु लौकिकाः किमुत पशवः, प्राणिनः, स्थावराः, जङ्गमाः सर्वेपि सहकुर्वन्ति । रामायण, महाभारतादिदृष्टान्तेन वयमेतत् सदृष्टान्तं विज्ञातुं प्रभवामः ।

रामायणे न्यायप्रवृत्तस्य रामस्य तिर्यञ्चोपि कपयः सहायकाः किल । तथैव न्यायप्रवृत्तानां पाण्डवानां च देवाः, नरपतयश्च, ऋषिपुङ्गवाश्च सहायकाः अभूवन् । यश्च न्यायादपेतो भवति तं स्वकीयजनाः अपि मुञ्चन्ति । स्वावरजोपि विभीषणः रावणं व्यमुञ्चदिति नैतदाश्चर्यम् । दुर्योधनं च अधर्मप्रवृत्तं विदुरादयः व्यमुञ्चन् । स्वानुजः युयुत्सुरपि तं विहाय पाण्डवपक्षं प्रविवेश ।

अतः श्रोयोभिलाषिभिः सज्जनैः न्यायमार्ग एव अनुसर्तव्यः । अधर्ममार्गः त्यक्तव्यः ।

एतदेवोक्तं अनर्घराघवे –

यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोपि सहायताम् ।

अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चति ।। – अनर्घराघवम्

वेणीसंहारम्

वेणीसंहारं, नवरसमयसमभावं, नवनाटकसंभारम् .

भीमसेनघनगर्जितसारं, द्रौपदीहृदयशल्यापहारम् … वेणी

दुर्जनसंहारं, दुर्योधनकृतवैरं, प्रकृतमहासमरमतिघोरं,

रुधिरप्रियवसागन्धविहारं, अतिरथमहामहारथवीरम् – 1

अश्वत्थामपितृशोकं रविजगुरुजवाग्द्वन्द्वविरावं

भीषणदुःशासनदुर्मरणं भीमविहित-रुधिरासवपानम्  – 2

दुष्टचार्वाककुटिलप्रमोषं, धर्मजविजयविनोदं,  मधुसूदनकृतप्रसादं

व्यासभार्गवमुनिवृन्दनन्दितं सज्जनहृदयाह्लादनिदानम् – 3

रचयिता – डा. राघवेन्द्राचार्य राचूरि, सङ्गीतं गायनं च – तिरुमले श्रीनिवासः

विश्वेशतीर्थगुरुवर्य जय जय

परमपूज्यानां श्री १००८ श्रीविश्वेशतीर्थानां प्रथमपर्यायः ।

विश्वेशतीर्थगुरुवर्य जय जय ।

विश्ववन्द्यविद्यामान्यपोत जय जय ।। विश्वेश…।।

मध्वराद्धान्तसुरपादपायित

पादरतभक्तजनसम्पूजित ।। विश्वेश …।।

दीनदलितजनोद्धरणपापनाशन

पञ्चपर्यायघनकीर्तिभाजन ।। विश्वेश … ।।

पूर्णप्रज्ञविद्यानिलयसंस्थापक

मध्वहृदयाब्जगतकृष्णपूजक ।।विश्वेश … ।।

विद्वज्जनकुमुदवृन्दमोदचन्दिर

अष्टदशकसाधनेतकृष्णमन्दिर ।। विश्वेश …।।

विश्वेशनमनम्

परमपूज्यानां श्रीविश्वेशतीर्थश्रीपादानां वृन्दावनप्रवेशेन वयं सर्वोच्चनायकं अस्तंगतं पश्यामः । यस्य अभावः हिंदूसमाजेन अधुना नितरामनुभूयते । श्रीविश्वेशतीर्थश्रीपादानुद्दिश्य कश्चन श्लोकः अत्र प्रस्तूयते –

सद्गीतामुपदिश्य धर्मसमरे कृष्ण! स्वयं योजयन्
यं संशप्तकसैन्धवादिनिधने कार्येऽविजित्यैव तान् ।
सद्वातागमपोषितस्य जयिनो विभ्राजमानस्य भोः
विश्वेशाख्यकिरीटिनो रथवरं युद्धादहार्षीः कथम्? ।।

किं किं न साधयति कल्पलतेव विद्या

।।श्रीजयतीर्थगुरुभ्यो नमः ।।

मन्ये नैतदविदितं समेषां विपश्चिदपश्चिमानां यत् प्रायो लोके विविधैरुपायैर् वराकस्योदरस्य भरण एव समातुराः कुपिताहिफणच्छायाकल्पसुखविप्लुषजुषो जना इति । परं सर्वेपि नैतादृशाः । विद्यन्ते खलु तेपि धीराः ये विद्यातुराः सन्तः स्वजीवनस्य सार्थक्याय यतन्ते । ते हि विद्यार्थं सुखं, निद्रां च परित्यक्तुमलम् । तादृशैः  विविधविद्याशिक्षादक्षैः, अधीतिबोधाचरणप्रचारणवद्भिः, अनन्यसंश्रयैः कृतार्थजीविभिः विद्याकल्पलतामाश्रित्य अन्यैः साधनैरप्राप्यममृतकल्पं फलमनुभवपदमानीतं इतीदं निश्चप्रचम् ।

तदेवं समुपासकानां शाश्वतामृतधारावर्षिणीं, वेदेतिहासपूराणेषु जेगीयमानदिगन्तविभवां, सुरलोकसुधावधीरिणीं, रसर्षिरसनाग्रनर्तकीं, सकलजनसुखसमुन्नतिदायिनीं तामिमां विद्यामधिकृत्य साम्प्रतं वाणीमीरयितुमभिकाङ्क्षतेयं जनस् सुश्रूषुशेमुषीमनुकूलयिष्यन् इति तावच्छ्रूयतां विचक्षणैस् तत्त्वमार्गाभिलिप्सुभिर् भवद्भिः ।

प्रबन्धेस्मिन् …

का नाम विद्या

कति सन्तीह विद्याः

विद्याप्राप्तिः

विद्याफलम्

विद्याप्रशंसा

अविद्यावतां निन्दा

का नाम विद्या

विदन्ति धर्मार्थकाममोक्षान् अनया इति व्युत्पत्या संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ् भृञिणः इत्यनेन क्यप् प्रत्यये कृते विद्या इति निष्पद्यते । तदिमां सकलपुरुषार्थसाधनचतुष्कां विद्यां प्रवदन्ति विज्ञाः । सा विद्या तन्मतिर्यया इति अक्षराधिगतिकरणत्वात् विद्येत्युच्यते । विद्यायाः शास्त्रमिति च नामान्तरम् ।    विद्यैव तु निर्धारणात् इति सूत्रे परिगृहीतत्वाच्च । परमात्मनः सर्वजीवविलक्षणतया ज्ञानं च विद्याशब्देनोच्यते – तदुक्तं – विद्यात्मनि भिदाबोधः इति ।

कति सन्तीह विद्याः

विद्यायाः लौकिकविद्या, आध्यात्मिकविद्या इति प्रभेदद्वयं वर्वर्ति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति उपनिषदस्मानुद्भोधयन्ती ऋगादयः सर्वे यदा भगवत्पराः न भवन्ति तदा अपरविद्याः यदा तु ब्रह्मपरा भवन्ति तदा तु परविद्या इत्यभिधीयते । तदेवं भगवज्ज्ञानसाधनीभूतां विद्यां परविद्यात्वेन अभिषिंचति वेदः। परविद्यायाः ब्रह्मविद्या इत्यपि नामान्तरं विद्यते ।

विष्णुपुराणे विद्यायाः चतुर्दशप्रभेदाः निरूपिताः –

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

धर्मशास्त्रं पुराणं च विद्या हेत्याश्चतुर्दश ।। इति ।।

ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः, ज्योतिषम्, मीमांसा, न्यायः, धर्मशास्त्रं तथा पुराणं इतीमानि चतुर्दशविद्यास्थानानि । 

विद्याप्राप्तिः

गुरुशुश्रूषया विद्या इत्यार्योक्तेः विद्यासंप्राप्तये गुरूपसत्तिरेव परमं निदानम् । विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इत्याह उपनिषत्पुरुषः । गुरूपजीवनं विना तत्वमार्गे गमनं असंभवि । अप्रसादाद्गुरोर्विद्या न योथोक्तफलदा भवेत् । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवर्ततरं भवति ।

अनुवर्तते…