Author: आत्माश्रमगुरुकुलम्

  • श्रीमद्भागवते द्वितीयस्कन्धे प्रथमाध्याये वैराजाख्यस्थूलरूपस्य धारणाश्रयत्वं – विशेषस्तस्य देहोयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ।। आण्डकोशे शरीरेस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो योसौ भगवान् धारणाश्रयः ।। इत्यादिभिः श्लोकैः प्रतिपादितम् । एतच्च भगवतो विराण्णामकस्य स्थूलरूपस्य धारणं मनोयजसाधनीभूतोपाययोः आद्यत्वेन संक्षेपविस्तराभ्यां प्रतिपादितम् ।  ततः द्वितीयाध्याये मनोजये मुख्यतो भगवद्वाचकैः इन्द्राग्न्यादिभिः पदैः इतरार्थास्मरणरूपं द्वितीयसाधनं विधातुं सर्वनाम्नां भगवानेव…

  • प्रियसंस्कृतरसिकाः, ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति । स हि सर्वस्य कर्ता , पालकः, संहारकश्च । स एव सर्वस्य स्वामी । सः सर्वस्य ईष्टे । अत एव वेदाः तं जगज्जन्मादिकारणत्वेन वर्णयन्ति । यतो वा इमानि भूतानि जायन्ते यतो जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति इत्यादीनि वचनानि सन्ति ।

  • प्रियसंस्कृतरसिकाः, स्वागतम् । अद्य वयं सस्कृतसुरभ्याः द्वितीयं कुसुममादाय समुपस्थिताः । अद्यतनशब्दः अस्ति अश्वः । ननु भवद्भिः कदाचित् धावन् अश्वो दृष्टः । धावन्तं अश्वं दृष्ट्वा खलु बालाः पश्य – अश्वो धावति – इति सहर्षं उद्गिरन्ति । अश्वाः विविधवर्णाः भवन्ति । श्वेताः, कृष्णाः, रक्ताः, धूसराः इत्यादि । अश्वाः आशुगाः भवन्ति । प्राचीनकाले अश्वाः युद्धे गमनागमने च प्रधानसाधनानि…

  • संस्कृतसुरभिः – 1

    प्रियाः संस्कृतप्रणयिनः, सुस्वागतम् । संस्कृतसुरभिः स्वसुगन्धगन्धं सर्वरसजुषां परितोषाय परिवेशयत्यस्मिन् मञ्चे प्रेषक्रमेण । अद्यतनः शब्दः अस्ति अनलः । अनलो नाम अग्निः । अस्य क्वचित् वह्निः, कृष्णवर्त्मा इत्यादीनि पर्यायपदान्यपि कोशेषु पठ्यन्ते । भवन्तः अस्मिन् विषये अधिकज्ञानार्थं अमरकोषं द्रष्टुमर्हन्ति । अनलस्य स्वभावः अस्ति उष्णस्पर्शवत्त्वम् । अग्निस्पर्शनेन दाहो जायते इति सर्वानुभवसिद्धमिदम् । परं शिशवः एतन्नाजानन्ति । अतः पितरौ चिन्ताक्रान्ताः…

  • भारतवर्षमूर्धन्यालङ्कृतः नगाधिराजः हिमालयो नाम पृथिव्याः मानदण्ड इव पूर्वपश्चिमौ समुद्रौ प्रविश्य विराजते । तस्मिन् भरतवर्षस्य मुकुटायमाने पर्वते भास्वन्ति रत्नानि भास्वत्यः महौषधयः च भूरिशः समुल्लसन्ति । स भारतीयानां सर्वकामानां दोग्धा इव विराजते । धरित्र्याः शोभां वर्धयन् अयं नगः देवतया अधिष्ठितः इति अस्य नगस्य देवभूमित्वं पुराणेषु प्रसिद्धम् । सर्वासु जातिषु यद् यद् उत्कृष्टं तत्सर्वं अत्र समुपलभ्यते । प्रायः…

  • समेभ्यः श्रीकृष्णजन्माष्टमीपर्वणः शुभाशयान् वितरामि । अस्मिन् सन्दर्भे मदीया काचन कविता अत्र प्रस्तूयते । तद्विदाङ्कुर्वन्तु सज्जनाः । स मातापितृभ्यां नयनशुभगाभ्यां परिलसन्- मुखश्रीसक्ताभ्यां हरिरिह सदामोदजनकः । क्वणत्काञ्चीदामप्रकटसुममालाविलसितः शिशोर्भावं यातः सुतकलितदृग्भ्यां परिदधे ।। इह नयनशुभगाभ्यां परिलसन्मुखश्रीसक्ताभ्यां सुतकलितदृग्भ्यां मातापितृभ्यां शिशोर्भावं यातः क्वणत्काञ्चीदामप्रकटसुममालाविलसितः सदामोदजनकः सः हरिः परिदधे ।। साक्षान्नारायणः देवकीवसुदेवयोः सुतत्वेन अवततार । तदा जनकौ आश्चर्यचकिताभ्यां स्वनयनाभ्यां श्रीकृष्णं दधतुः ।…

  • ऊर्जा – 2 आत्माश्रमगुरुकुलम् प्रस्तुतिः – प्रकृतिवर्णनम् बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।। सनवावरणाण्डत्मिकायाः प्रकृत्याः विस्तारः सुविशालः वर्तते । अस्याः रमणीयता न कस्य रसिकस्य चेतः समाकर्षति । पञ्चभूतानां, ततः अहं, महान्, त्रिगुणाः एतन्मूलभूतायां प्रकृत्यां एव अन्तर्निहितं ब्रह्वतत्वं अन्विष्यन्ति । यदाह नारायणपण्डितवर्यः सुमध्वविजयाख्ये महाकाव्ये । अवनिवननवध्रुक्वायुखाहंमत्सुप्रकृतिगुणसमेताव्याकृताकाश एकम् । ततमतनुमनाः सोचिन्तयत् सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ।।…

  • संस्कृतदीपिका 2021 वर्षीया षाण्मासिककक्ष्यायाः आरम्भः अस्मिन् नवम्बर् मासस्य विंशतौ दिनाङ्के भविष्यति । शताधिकं छात्राः अस्यां कक्ष्यायां पञ्जीकरणाय अभ्यर्थनानि प्रेषितवन्तः । तेषां सौकर्याय गूगल् ग्रूप संस्कृतिदीपिका इति नाम्ना आविष्कृतः । संस्कृतदीपिका 2021 इति वाट्सप् गणः अपि समारब्धः । सर्वेषां नवीनानां छात्राणां कृते आत्माश्रमस्य अध्यक्षाः आचार्याः स्वागतं व्याहृतवन्तः । अनेन माध्यमेन छात्राः अचिरादेव संस्कृतभाषायां निरर्गलतया सम्भाषयितुं प्रभवन्ति…

  • सर्वेषां नरसिंहजयन्तीपर्वणः शुभाशयाः । जगदाद्यन्तं अस्मान् पीडयन्तीं कोरोनामहामारीं जगतः विद्रावयितुं कृतपरिकराः जगद्गुरवः श्री 1008 श्री सत्यात्मतीर्थाः 14,000 नरसिंहमन्त्रजपं कर्तुं आज्ञापयापासुः । अस्मिन् नरसिंहजयन्ती पर्वणि तत्समारोपं पुरस्कृत्य नरसिंहमन्त्रस्थपदकदम्बेन समुल्लसन्तीं कांश्चन कवितां जनोयं उपनिबबन्ध । तदास्वाद्यतां पद्यरसः । उग्रं ह्युग्रनखत्विषा प्रमुषिताज्ञानान्धकारापदं वीरं घोररिपुप्रचण्डनिनदप्रध्वंससर्वाननम् । मुत्योर्मृत्युमनन्तसौख्यदमहाविष्णुं नृसिंहाकृतिं वन्दे भद्रमभद्रभीषणमहं प्रत्युज्वलन्तं हरिम् ।।