
गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
recent posts
about
-
।।श्रीः।।
श्रीजयतीर्थगुरुभ्यो नमः
श्रीगणेशाय नमः

- प्रमाणपद्धतिः
विदितमेव समस्तानां माध्वानां यत् प्रमाणपद्धतिः वेदान्तशास्त्रे सोपानोपमेति । अस्य कर्तारः श्रीजयतीर्थगुरुपादाः । अयं ग्रन्थः वेदान्तशास्त्राध्येतृणां महत उपकाराय वर्वर्ति । प्रमाणम् इत्यस्य यथार्थमित्यर्थः । अर्थशब्दस्य अर्यते ज्ञायते इति व्युत्पत्त्या ज्ञेयः इत्यर्थः । ऋ-गतौ इत्यस्मात् धातोः कर्मणि उषिकुषिगार्तिभ्यः स्थन् (उणादि 2.4) इति स्थन् प्रत्यये आर्धधातुकं शेषः इत्यार्धधातुकसंज्ञायां सार्वधातुकार्धधातुकयोरिति गुणे अर्थ इति रूपम् । तस्य पदार्थानतिवृत्तिवाचिना (यथा सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे इत्यमरोक्तेः) यथाशब्देन सह (अव्ययं विभक्ति… 2.1.6) इत्यनेन अव्ययीभावः समासः । तथा च स्वज्ञेयं अनतिक्रम्य वर्तमानं इत्युक्ते यथावस्थितमेव स्वज्ञेयं यद्विषयीकरोति नान्यथा तत् प्रमाणम् इत्युक्तं भवति ।
१. तार्किकाः यथा ज्ञानस्योपकरणमेव प्रमाणमिति चक्षते, २. यथा प्राभाकराः ज्ञानमेव प्रमाणमिति संचक्षते, नैव तथा संचष्टे आचार्यवर्यः। भावे ल्युट्ग्रहणे ज्ञानस्य प्रामाण्यं कथ्यते। करणे ल्युट्ग्रहणे ज्ञानस्योपकरणं प्रमाणतया कथ्यते । इत्थं च प्रमाणमित्यस्य ज्ञानतदुपकरणद्वयं विवक्षितम् । प्रद्धतिः इत्यस्य पादाभ्यां हतिः पद्धतिः। हिमकाषिहतिषु च (६.३.५४) इति सूत्रेण हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययम् आदेशो भवति। मार्गः इत्यर्थः। प्रमाणानां पद्धतिः प्रमाणपद्धतिः इति षष्ठीसमासेन निष्पन्नोयं शब्दः ।।
- स्वरूपम्
अयं ग्रन्थः भगवत्पादविरचितस्य प्रमाणलक्षणस्य टीकारूपः स्वतन्त्रग्रन्थः । यथाह मुनिः – “यद्यपि भगवत्पादैरेव वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति तदर्थमिदं प्रकरणमारभ्यते“ । ग्रन्थोयं त्रिधा विभक्तः । प्रत्यक्षपरिच्छेदः । अनुमानपरिच्छेदः । आगमपरिच्छेदः इति । अस्य व्याख्याकाराः बहवः सन्ति । तेषु प्रसिद्धव्याख्याः एते – जनार्दनविरचिता जयतीर्थविजयनाम्नी टिप्पणी, श्रीराघवेन्द्रश्रीचरणविरचितः प्रमाणपद्धतिभावदीपः, श्रीविजयीन्द्रतीर्थविरचिता प्रमाणपद्धतिटिप्पणी, श्रीवेदेशतीर्थविरचिता प्रमाणपद्धतिटिप्पणी, श्रीसत्यनाथतीर्थविरचितम् अभिनवामृतम्, श्रीव्यासपुरी नरसिंहविरचितः आदर्शः, श्रीनिवासतीर्थविरचिता वाक्यार्थमञ्जरी, श्रीविठ्ठलभट्टविरचिता प्रमाणपद्धतिटिप्पणी इति अष्टव्याख्याः ।।
- विषयः
विभक्तेषु चतुर्षु भागेषु प्रत्यक्षपरिच्छेदे
→ मङ्गलश्लोकाः, ग्रन्थारम्भसमर्थनम्, लक्षणस्वरूपविवरणम्, प्रमाणसामान्यलक्षणम्, प्रमास्वरूपम्, संशयस्वरूपम्, अयतार्थज्ञानमेव नास्तीति वादिनां प्राभाकराणां मतनिरासः, अनध्यवसायस्य ऊहस्य च संशये एवान्तर्भावः । प्रमाणस्य दुष्टलक्षणं कथयतां मीमांसकानां, नैय्यायिकानां मतस्य निरासः, केवलमनुप्रमाणं चेति प्रमाणस्य द्वैविध्यम्, केवलज्ञानप्रभेदाः – केवलज्ञानस्य ईश्वरज्ञानं लक्ष्मीज्ञानं योगिज्ञानम् अयोगिज्ञानमिति चातुर्विध्यम् । योगिज्ञानस्य ऋजुयोगिज्ञानं, तात्त्विकयोगिज्ञानम्, अतात्त्विकयोगिज्ञानं चेति प्रभेदाः । अयोगिज्ञानप्रभेदाः । इन्द्रियजं, लिङ्गजं, स्मृतिः, आर्षं चेति यतार्थज्ञानचातुर्विध्यं वदतां वैशेषिकानां मतस्य निरासः । अनुप्रमाणलक्षणम्, प्रत्यक्षम् अनुमानम् आगमश्चेति अनुप्रमाण-प्रभेदाः, प्रत्यक्षलक्षणम्, साक्षीन्द्रियस्य स्वरूपम्, आत्मस्वरूपं तद्धर्माः,अविद्या, मनः,तद्वृत्तयः,बाह्येन्द्रिय-ज्ञानसुखाद्याः,कालः-,अव्याकृताकाशः इत्याद्याः विषयाः, घ्राणरसनचक्षुस्त्वक्श्रोत्रमनोभेदात् प्राकृतेन्द्रियाणां षाड्विध्यम्, स्मृतेः प्रामाण्यसाधनम्, प्रत्यक्षशब्दार्थकथनम् , तस्य ईश्वरप्रत्यक्षम्, लक्ष्मीप्रत्यक्षं, योगिप्रत्यक्षम्, अयोगिप्रत्यक्षं चेति चातुर्विध्यम् । दैवम्, आसुरं, मध्यमं चेति बाह्येन्द्रियस्य त्रैविध्यम्, नैय्यायिकाभितसंयागादिषड्विधसन्निकर्षनिरासः, निर्विकल्पकसविकल्पकस्वरूपविचारः, प्रत्यक्षस्य फलम् इति प्रत्यक्षपरिच्छेदे विषयाः ।
→ अनुमानलक्षणम्, धर्माणां व्याप्यव्यापकभावव्यवस्था, व्याप्तिज्ञानतत्स्मरणसहितं लिङ्गस्य सम्यग्ज्ञानमनुमानमिति निरूपणम्, प्रत्यक्षानुमानागमैः व्याप्तिज्ञानम्, कार्यानुमानं कारणानुमानमकार्यकारणानुमानमिति त्रिधा अनुमानप्रकाराः । तर्कस्य पञ्चाङ्गानि ।
व्यतिरेकव्याप्तेः अप्रयोजकता, परार्थानुमाने पञ्चावयवनियमो नास्ति इति निरूपणम्,उपपत्तिदोषाः, विरोधप्रकाराः,निग्रहस्थानानि,हेत्वाभासाः इति अनुमानपरिच्छेदे विषयाः ।
→ आगमपरिच्छेदे
आगमलक्षणम्, पदलक्षणम्, वाक्यलक्षणम्, व्यक्तय एव पदवाच्याः इति निरूपणम्, योग्यतरान्विताभिधानवादः,अपौरुषेयागमस्वरूपम्, अर्थापत्त्यादीनामन्तर्भावप्रकारः, एतेषां प्रामाण्यविचारः इति आगमपरिच्छेदे विषयाः ।
- वैशिष्ट्यम्
एवमस्मिन् ग्रन्थे निर्दुष्टतया प्रमाणानां मार्गः निरूपितः । भूतभव्यभवदात्मभिः क्वचिदप्यदूष्यः अयं ग्रन्थः । अत्रोक्तपरवादिनिरासस्य समाधानं केपि प्रदातुं न शेकुः। न केवलं ज्ञानसाधकः अपि तु पुण्यसम्पादकः एकैकाक्षरनिगूढमन्त्रशक्तिः अस्ति इति अस्य ग्रन्थस्य वैशिष्ट्यम्। अधीते अस्मिन् ग्रन्थे श्रीमन्न्यायसुधान्यायामृतादिसकलकठिनग्रन्थेषु निर्बाधगतिर्भवतीत्यत्र नास्ति संशयलेशोपि ।
- उपसंहारः
एवमुक्तेन सर्वेषां शास्त्राणां प्रमाणनिरूपणापेक्षया द्वैतसिद्धान्तप्रमाणपद्धतिः एव निश्रेयःसाधनम् इति विषदीभवति । अस्य ग्रन्थकर्तृणां श्रीजयतीर्थसर्वज्ञकल्पानां टीकानिचयात्मिका मम चिरादाटीकतां मानसे इति वदति अयं तत्परिजनः ।।
।।श्रीमध्वान्तर्गतश्रीकृष्णार्पणमस्तु।।
-

कर्णे पदन्यस्तरुची रिरंसुर्वाराशिवस्त्रं जघनाद्धि यस्याः।
अमूमुचद्बाणकरेण भूमेः श्रीभार्गवः सा जयति क्षितिर्नः ।। (श्रीवादिराजश्रीचरणाः तीर्थप्रबन्धे)प्रतापतापितदङ्मण्डलस्य हैहयादिमदान्धराजपुङ्गवरुधिरासवसरोनिर्माणप्रख्यातमनोभिरामकीर्तेः भरतजहिताय निशेषीकृतक्षात्रस्य भृगुवंशपताकस्य काश्यपप्रदत्तसकलधरस्य स्वपरश्वास्फालनिर्मितपश्चिमगिरिधरजातस्य समाप्तावतारकार्यत्वात् मुक्तपरश्वधधनुर्बाणगदस्य पाजके रिरंसोः परशुरामस्य यशः प्रवच्मि ।
अस्ति पुरा सदागमाधीतिबोधोपासनाग्निहोत्रपूजाचणः भृगुवंशजः सदा ज्वलदग्निः जमदग्निर्नाम महर्षिः । उवाह रेणोः सुतां रेणुकाम्। तस्यां उत्पादयामास वसुमदादीन् सुतान् । तेषु यवीयानात्मजः परषुरामः उद्बभूव ।
तस्मिन् काले आराध्य दत्तं हैहयनामधिपतिरर्जुनः अर्जितबाहुसहस्रः आखेटार्थं गहनमुपगतः यदृच्छया निष्परशुरामं जमदग्नेराश्रमं प्राविशत् । तत्र सानीकामत्यं तं धेन्वा ऋषिरर्हयामास । नरदेवः स्वैश्वर्यातिशायनमर्हणं धेन्वभिलाषी नाद्रियत् । ऋषेः धेनुं हर्तुं दर्पात् नरान् अयोजयत् । ते सशकृत्करिमाहिष्मतीं प्रसभं स्वपुरं निन्युः ।
अचिरेण कालेन प्राप्तनिजाश्रमः रामः प्रवृत्तमाकर्ण्य सकार्मुकपरश्वधः करिणं मृगेन्द्र इव राजानमन्वधावत् । तत्र कपर्दिनं विहसितकपर्दिपौरुषं द्युमणिकिरणसमतेजसं प्रेक्ष्य सेनाङ्गं प्रेशयामास ।
सङ्गच्छते यथा रविकिरणशोणवारि जाम्बूनदं तथा हस्त्यश्वरथपादातं राममापतत् । यतो यतः मनओजाः प्रहरति ततस्ततः छिन्नोत्तमाङ्गभुजाः उर्व्यां निपेतुः । अन्योन्यास्फालभिन्नगात्रानवलोक्य क्रुद्धो राजा प्रसभमभिससार । अथ युगपदाहतपञ्चशतधनुष्षु बाणान् सन्दधे । रामः एकबद्धेषुभिर्युगपत् अलुनात् । ततः कुठारेण गिरिवृक्षान् क्षिपतस्तस्य बाहुशतं छित्वा सुरभिं सुरभिदिभेदनः आश्रममानीय आरराम ।
तत्र पितरि त्वया महत्पापमार्जितम्,मूर्धाभिषिक्तस्य राज्ञः वधः ब्रह्महत्या गुरुः, तीर्थसंसेवया अघं जहीत्युक्तवति आब्दं तीर्थक्षेत्राणि सञ्चरन् अन्ते आजगाम ।
कदाचिदम्बा रामस्य, सलिलार्थं कूलं जह्नुतनयाया उपगता चित्ररथं वीक्ष्य भर्त्रा अनुष्ठीयमानयज्ञवेलां विसस्मार । ततः मुनेः शापभयात् सत्वरं आटेक्य कृताञ्जलिः भाजनं पुरोधाय तस्थौ । मुनिर्व्यभिचारं ज्ञात्वा कटुना वाक्येन पुत्रकानुवाच हे पुत्रकाः घ्नन्तु पापामित्युवाच । ते तन्न चक्रिरे । अथ रामः पित्रा सञ्चोदितः अविलम्बितमविचारयन् दात्रेण सपुत्रं कलत्रं जमदग्रेः सकलत्रः रामः त्रासं विना निजघान । तुष्टो महर्षिः वररूपेण स्वाभीप्सितं पुनर्मातॄत्थानपुत्रसंहारविस्मरणं प्रादात् ।
एवं भुवनाद्भुतः परशुरामः अद्यापि उपसमुद्रे पाजकक्षेत्रे भक्तवरदः तपस्तप्त्वा रमते ।
टिप्पणी
सदागमाधीतिबोधोपासनाग्निहोत्रपूजाचणः – सदागमादिभिः चणः (प्रसिद्धः) । तेन वित्तश्चुञ्चुप्चणपौ (५.२.२६) (“वित्तः (ज्ञातः)” अस्मिन् अर्थे तृतीयासमर्थेभ्यः शब्देभ्यः “चुञ्चुप्” तथा “चणप्” एतौ प्रत्ययौ भवतः ।) इति चणप् ।
आखेटार्थम् – आखेटः – मृगया (Hunting) (ಬೇಟೆ) (शिकार करना) आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् इत्यमरः ।
शकृत्करिः – वत्सः । शकृत्करिस्तु वत्सः स्यात् इत्यमरः
प्रसभम् - बलात्कारः । प्रसभं तु बलात्कारः इत्यमरः ।
सङ्गच्छते – मिलित्वा गच्छति । समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः (१.३.२९) ( अकर्मकप्रयोगेषु “सम्” उपसर्गात् – गम्, ऋच्छ्, प्रच्छ्, स्वर्, ऋ, श्रु, विद् – एतेभ्यः धातुभ्यः आत्मनेपदस्य प्रत्ययाः भवन्ति ।) इति सूत्रेण आत्मनेपदित्वम् ।
सुरभिदिभेदनः – सुराणां भिदिः (वज्रायुधं) तस्य भेदनः ।
आरराम – व्याङ्परिभ्यो रमः (१.३.८३) विआङ् परि इत्येवं पूर्वात् रमतेः परस्मैपदं भवति।
घ्नन्तु – हो हन्तेर्ञ्णिन्नेषु (७.३.५४) (हन्-धातोः अङ्गस्य हकारस्य कुत्वम् भवति ञित्-प्रत्यये परे, णित्-प्रत्यये परे, नकारे परे ।) इति हकारस्य घकारः ।
दात्रेण – लवित्रेण । दात्रं लवित्रमाबन्धः इत्यमरः ।
सकलत्रः – सकलं त्रातीति सकलत्रः । जगद्रक्षकः ।
उपसमुद्रे – तृतीयासप्तम्योर्बहुलम् (२.४.८४) (अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः स्यात् ।) इति बहुलं सप्तमी ।
-
वेणीसंहारं, नवरसमयसमभावं, नवनाटकसंभारम् .
भीमसेनघनगर्जितसारं, द्रौपदीहृदयशल्यापहारम् … वेणी
दुर्जनसंहारं, दुर्योधनकृतवैरं, प्रकृतमहासमरमतिघोरं,
रुधिरप्रियवसागन्धविहारं, अतिरथमहामहारथवीरम् – 1
अश्वत्थामपितृशोकं रविजगुरुजवाग्द्वन्द्वविरावं
भीषणदुःशासनदुर्मरणं भीमविहित-रुधिरासवपानम् – 2
दुष्टचार्वाककुटिलप्रमोषं, धर्मजविजयविनोदं, मधुसूदनकृतप्रसादं
व्यासभार्गवमुनिवृन्दनन्दितं सज्जनहृदयाह्लादनिदानम् – 3
रचयिता – डा. राघवेन्द्राचार्य राचूरि, सङ्गीतं गायनं च – तिरुमले श्रीनिवासः -

परमपूज्यानां श्री १००८ श्रीविश्वेशतीर्थानां प्रथमपर्यायः । विश्वेशतीर्थगुरुवर्य जय जय ।
विश्ववन्द्यविद्यामान्यपोत जय जय ।। विश्वेश…।।
मध्वराद्धान्तसुरपादपायित
पादरतभक्तजनसम्पूजित ।। विश्वेश …।।
दीनदलितजनोद्धरणपापनाशन
पञ्चपर्यायघनकीर्तिभाजन ।। विश्वेश … ।।
पूर्णप्रज्ञविद्यानिलयसंस्थापक
मध्वहृदयाब्जगतकृष्णपूजक ।।विश्वेश … ।।
विद्वज्जनकुमुदवृन्दमोदचन्दिर
अष्टदशकसाधनेतकृष्णमन्दिर ।। विश्वेश …।।
-

परमपूज्यानां श्रीविश्वेशतीर्थश्रीपादानां वृन्दावनप्रवेशेन वयं सर्वोच्चनायकं अस्तंगतं पश्यामः । यस्य अभावः हिंदूसमाजेन अधुना नितरामनुभूयते । श्रीविश्वेशतीर्थश्रीपादानुद्दिश्य कश्चन श्लोकः अत्र प्रस्तूयते –
सद्गीतामुपदिश्य धर्मसमरे कृष्ण! स्वयं योजयन्
यं संशप्तकसैन्धवादिनिधने कार्येऽविजित्यैव तान् ।
सद्वातागमपोषितस्य जयिनो विभ्राजमानस्य भोः
विश्वेशाख्यकिरीटिनो रथवरं युद्धादहार्षीः कथम्? ।।



