श्रीः
श्रीजयतीर्थगुरुभ्यो नमः
पुरार्यरिरासीन्नरधुरीणो करिकरसमकरः शरशतहतनक्तञ्चरः करकृतखरहृद्विभेदरवो गुणास्फालनेन, वनेचरो, हरो रमण्याः, परो देवानां, हरो मारवदनश्रियः, शरभङ्गोपहृतपदो, वरगङ्गाचरः, सकार्मुकदण्डदण्डकचरो मण्डितभूः कमलभूगुरू रामो नाम । स प्राप्तत्र्यवरजोऽजो आस । तस्य ह बभूव पिता दशसु विमलास्वाशासु स्यन्दमानस्यन्दनो स्वाधिकनमःस्वाधिकनमाः स्वच्छधिषणो सुलक्षणो लक्ष्म्यक्षिभाग्राजा । तस्यासन् सुन्दर्यः उर्व्यः । कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् । सुमित्रासूत मित्रप्रभौ सुलक्षणशत्रुघ्नौ लक्ष्मणशत्रुघ्नौ । कैकेय्यसूत स्वरतं भरतम् । ते च प्रववृधिरे चतुरो भ्रातरो हरिशावका इव । ते चासुरधीतिनो धनुषि । अथाजगामैकदा नेतुं विश्वामित्रो विश्वमित्रं सत्रघ्नघ्नाय । शत्रुघ्नावरजो रामो, अन्वयात्तमृषिम् । तत्रारङ्ग्य, मुखश्रुतरसगीरसावयात् युतो मुनिना ताटकामताटकाङ्कर्तुम् । तां प्रतिहन्य, प्रवन्द्य सिद्धं, सिद्धपदमैष्ट । ततो भङ्गं विधाय रक्षसां, रक्षो मखस्य, इयेट स्वयम्वरमवरजयुतः । तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय । दशमोदो दशरथोऽलषद्राममभिषेक्तुं राज्ये । तमभिलाषं हन्तुमुद्यतया निकृत्या, विकृतमत्या कैकेय्याऽभिषेको न्यवधि । तयाऽव्रियेताम् द्वे दशरथात् । भवत्वधिवासो वनं रामः । भरतो हरतु राज्यम् । इमामश्रव्यामाश्रुत्य वाचं अभ्युपागमच्छलेन । ततः स दशस्यन्दनो स्यन्दमानेतुं मन्त्रिणं सुमन्त्रमामन्त्रयत । तेन सुमन्त्रेणानिन्ये । तं स्यन्दमारुह्य सपत्नीकः सपत्ननाशाय सावरजोऽजो पूतः पूतः पुर आर्षीत् । तमन्वयुर्द्विधा द्विजाः । तञ्चर्षयो हंसाः हंसशुक्लशिरोरुहाः गन्धवहबन्धवः उरवो रामप्रियकराः । तमभियान्तं रथे दशरथोऽभिलक्ष्य कियतापि कालेन नातार्प्सीत् । अङ्गनाश्लिष्टाङ्गो दशरथः विलप्य प्रमील्य धरामश्लिक्षत् । ततो रामेण कार्मुकदण्डेन दण्डकेष्वदाक्षि । भरतो नाभिरतो राज्ये रामस्थं देशं ससार । वनेऽवनिजया चकासतं दशस्यन्दनसुतमाननाम भरतः । तेन पूज्यपादः पूज्यपादुके अयाचि । सन्यासे पादुके आदाय भरतो ननन्द नन्द्याख्ये ग्रामे । तत अतीत्य चित्रकूटं चित्रधामा पञ्चवटीमाप । तत्रासौ रममाणः, स्वस्मिन् रममाणान् रमयमाणो आस । तत्रोटजं निर्माय विधायावात्सीत् । एतदन्तर आनृणे विधवा शूर्पणखा । साऽह भव मे पतिरिति । तां रामो हास्यकथयाऽवरजं याहीत्यूचे । ततः स यविष्ठेन, दुष्टचरितां, विकर्णनासां अचीकरत् । प्रतिकर्तुकामा सा शूर्पणखा खरदूषणादीन्प्राहिणोत् । तान्रामोऽमीमरदेकः समरेऽमरस्तुते ।।
टिप्पणी
अर्यरिः – अरीणामरिः राक्षसारी रामः
नरधुरीणः – नरश्रेष्ठः, धुरं वहतीति धुरीणः खः सर्वधुरात् 4 4 78 इति खः
शरशतहतनक्तञ्चरः – शरशतेन हतः नक्तञ्चरो येनासाविति, रामः
करकृतखरहृद्विभेदरवो गुणास्फालनेन – हस्तकृतो खराणां अरीणां, तन्नामकस्येति वा हृद्भेविभेदरवः शब्दः येनेति रामः। गुणः ज्या मौर्वी ज्या शिञ्जिनी गुणः इत्यमरः । आस्फालनम् आङ् पूर्वात् स्फुर सञ्चलने इत्यतो करणाधिकरणयोश्च 3 3 117 इति ल्युट् । ताडनमित्यर्थः
वनेचरः – हलदन्तात् सप्तम्याः संज्ञायाम् 6 3 9 इत्यलुक्
हरो रमण्याः – रमणी सीता सुन्दरी रमणी रामा इत्यमरः । हरः, हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते । ऋदोरप् 3 3 57 इत्यप्
शरभङ्गोपहृतपदः – शरभङ्गो ऋषिः तस्मै उपहृतं दत्तं पदं स्थानं येनासौ रामः
सकार्मुकदण्डदण्डकचरो – कार्मुकं धनुः सैव दण्डः तेन सहितः दण्डकेषु अरण्येषु चरः रामः
कमलभूगुरू रामः – ढ्रलोपे पूर्वस्य दीर्घोऽणः 6 3 111 इति दीर्घः । कमलभूर्ब्रह्मा तद्गुरुः पिता रामः
प्राप्तत्र्यवरजः – प्राप्ताः त्रयो लक्ष्मणभरतशत्रुघ्नाह्वया अवरजाः अनुजाः यवीयोवरजानुजाः इत्यमरः येनेति रामः
स्यन्दमानस्यन्दनः – स्यन्दू प्रस्त्रवणे लटः शतृशानचावप्रथमासमानाधिकरणे 3 2 124 इत्यतो शानच् । स्यन्दमानं गम्यमानं स्यन्दनं रथः यस्येति तथोक्तो दशरथः
स्वाधिकनमःस्वाधिकनमाः -स्वस्मादधिकाः स्वाधिकाः, दशरथादुच्चाः तेषां कृते नमः यस्यास्तीति सः दशरथः अपि च स्वः दशरथः एवाधिकः येषां अयोध्याजनानां ते स्वाधिकाः तेषां नमः यस्यास्ति सः दशरथः
लक्ष्म्यक्षिभाक् – लक्ष्म्याः ये अक्षिणी ते भजतीति लक्ष्म्यक्षिभाक्, सम्पत्तिमान् दशरथः
कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् -कौसल्या कौ भूमौ रक्षोहृदां शल्यं हृदयभेदकं रामं असूत
सुलक्षणशत्रुघ्नौ – शोभनानि लक्षणानि ययोः लक्ष्मणशत्रुघ्न्वोः तौः सुलक्षणौ, शत्रून् हतः इति शत्रुघ्नौ सुलक्षणौ च शत्रुघ्नौ च सुलक्षणशत्रुघ्नौ
स्वरतः – स्वातन्त्र्यात् स्व इति प्रोक्तः भगवान् तस्मिन् रतं अनुरक्तमिति भावः
हरिशावकाः – सिंहशिशवः, पोतः पाकोर्भकः डिम्भः पृथुकः शावकः शिशुः इत्यमरः (lion cubes)
ते चासुरधातिनो धनुषि – ते बालाः धनुषि विषये अधीतिनः आसुः । अधीतमनेनेत्यधीती इष्टादिभ्यश्च 5 2 88 इति इनिः । धनुषि कृतविद्या इति भावः
विश्वमित्रम् – मित्रे चर्षौ 6 3 130 इति ह्रस्वः । रामः
सत्रघ्नघ्नाय – सत्रं यज्ञः सत्रमाच्छादने यज्ञे इत्यमरः तं हन्ति नाशयन्ति राक्षसाः तेषां हत्यै
शत्रुघ्नावरजो – शत्रुघ्नो अवरजो यस्येति भावः रामः
अन्वयात् – अनु पूर्वात् यातेर्लङ्
आरङ्ग्य – आङ्पूर्वात् रिगि गतौ इत्यतो ल्यबन्ताव्ययम्
रक्षः मखस्य – यज्ञस्य पालकः
मुखश्रुतरसगीः – मुखेन विश्वामित्रमुखेन श्रुताः रसाः अनुरागयुताः स्नेहाः गिरः त्वत्प्रसादात् अस्मद्यज्ञनिष्पत्तिरभूदित्यादिस्नेहपूर्ववचांसि येन रामेणेति तथोक्तः
ताटकामताटकां कर्तुम् – ताटकां अताटकां निष्चञ्चलां कर्तुं संहर्तुंमित्यर्थः
सिद्धं – मुनिम् । षिधू शास्त्रे माङ्गल्ये च इत्यतो अचि निष्पन्नं । सिद्धिरस्यास्तीति सिद्धः अर्शआदिभ्यो अच् 5 2 17
सिद्धपदं – बहवोत्र तपस्यन्तः सन्तः सिद्धत्वं आप्नुयुः । तस्मात्सिद्धाश्रमो नाम इति वचनात् यस्मिन् पदे स्थाने आश्रम इत्यर्थः । बहवः सिद्धाः मुनयः आसन् तादृशं विश्वामित्राश्रमं इत्यर्थः
ऐष्ट – ईङ् गतौ इत्यतो लुङ्
इयेट – इट गतौ इत्यतो लिट्
तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय – तत्र स्वयम्वरे, सारसलोचनो कमललोचनो सारसं सरसीरुहं इत्यमरः । हंसः सूर्यः भानुर्हंसः सहस्त्रांशुः इत्यमरः तत्कुलस्य राजहंस इव स्थितः रामः सीतां हस्तेकृत्य नित्यं हस्ते पाणावुपयमने 1 4 77 इति पाणिशब्दस्य गतिसंज्ञा । दारकर्म कृत्वा, यथा, सितं न भवतीति असितं (dark blue) तादृशाम्बुदः मेघः जलपूर्णः सन् पार्थिवान् पृथिव्यां जातान् वृक्षान् सस्यानि च वर्षणेन प्रमदं आनन्दं मुत्प्रीतिः प्रमदो हर्षः इत्यमरः । आनिनाय दुह्याजित्यादिना द्विकर्मकत्वम् । तथा रामः पार्थिवं दशरथं तथा अन्यान् पार्थिवान् तथा प्रमदाः स्त्रियः प्रमदं मोदमानिनाय
दशमोदः – दशेति पूर्णमुद्दिष्टं दशं पूर्णमिहोच्यते इति वचनात् दशशब्दः पूर्णवचनः । पूर्णमोदः इत्यर्थः
अलषत् – लष का्न्तौ इत्यतो लङ् । ऐच्छत्
निकृत्या – कैकेयां निकृत्यावेशः तस्याः कारणतो रामो वनमगच्छत् । यथाहाचार्यः- तथापि सा यदावेशाच्चकार त्वय्यशोभनं ।
निकृतिर्नाम सा क्षिप्ता मया तमसि शाश्वता ।।
रामः वनं अध्यूषो भवतु – अधिशीङ्स्थासां कर्म 1 4 46 इत्यतो द्वितीया
भरतो हरतु राज्यम् – भरतः राज्यम् हरतु स्वीकरोतु । हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते
आश्रुत्य – आङ्पूर्वात् शृणोतेर्ल्यप्
अभ्युपागमच्छलेन – प्रसभं तु बलात्कारो हठोथ स्खलितं छलम् इत्यमरः । अभ्युपागमत् अङ्गीचकार अङ्गीकाराभ्युपगमः प्रतिश्रव समाधयः इत्यमरः
आमन्त्रयत – आङ्पूर्वात् मत्रि गुप्तपरिभाषणे इत्यतो लङ् । स्वरित ञितः कर्त्रभिप्राये क्रियाफले 1 3 72 इत्यतो आत्मनेपदम्
सपत्ननाशाय – सपत्नाः राक्षसाः रिपौ वैरि सपत्नारिः इत्यमरः
पूतः पूतः पुर आर्षीत् – पूतः शुद्धः, त्यक्तभूषणः, परिवीताजिनः इत्यर्थः । पूतः पू स्त्री पुरी नगर्यौ वा पत्तनं पुटभेदनम् इत्यमरः तसिल्प्रत्ययान्तमव्ययम् । पुरः अग्रे आर्षीत् ऋषी गतौ इत्यतो लुङ्
तमन्वयुर्द्विधा द्विजाः – द्विधाः द्विविधाः ब्राहणतो पक्षितश्च
हंसशुक्लशिरोरुहाः हंसाः – हंस इव शुक्लाः सिताः शिरोरुहाः कचः केशः शिरोरुहः इत्यमरः तादृशाः हंसाः योगिनः
गन्धवहबन्धवाः – गन्धवहो वायुः, पृषदश्वो गन्धवहो इत्यमरः, स एव अशनेन बन्धुः एषामिति भावः । तादृशाः योगिनः । पवनाशना इत्यर्थः
रामप्रियकराः – रामस्य प्रियकराः जनाः
अतार्प्सीत् – तृप प्रीणने इत्यतो लुङ्
प्रमील्य – मूर्च्छां प्राप्य, प्रपूर्वात् मील निमेषणे इत्यतो ल्यप् यथाह श्रीहर्षः-
सुताः कमाहूय चिराय चूङ्कृतैर्विधाय कम्प्राणि मुखानि कं प्रति ।
कथासु शिष्यध्वमिति प्रमील्य स स्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ।। इति
धरामश्लिक्षत् – ममार । श्लिषतेर्लुङ्
कार्मुकदण्डेन – कार्मुकं धनुः सैव दण्डो यस्यासौ रामः तेन
अदाक्षि – दक्ष गतिहिंसनयोरित्यतो यकि लुङ् । चचार अवधीदिति वा
अवनिजया चकासतं – अवनिजा सीता तया चकासतं नाभ्यस्ताच्छतुः 7 1 78 इति न नुमागमः । जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा ।
पूज्यपादः – पूज्यौ पादौ यस्यसौ रामः अथवा पूज्यश्चासौ पादश्च पूज्यपादः रामः । उत्तमानां स्वरूपं तु पादशब्देन भण्यते इति वचनात् पादशब्दो उत्तमस्वरूपद्योतकः
सन्यासे पादुके – न्यासभूत-रामदत्त-पादुके इत्यर्थः । न्यासः स्थापनमित्यर्थः
चित्रधामा – चित्रमद्भुतं धाम रश्मिः यस्यासाविति रामः । धाम देहे गृहे रश्मौ इति विश्वः
स्वस्मिन् रममाणान् – स्वस्मिन्नासक्तान्
उटजम् – संस्त्यायमुटजं धाम इत्यमरः । गृहमित्यर्थः
आनृणे – ऋणु गतौ इत्यतो लिट्
शूर्पणखा – पूर्वपदात् संज्ञायामगः 8 4 3 इत्यतो णत्वम्
हास्यकथया – परिहासरुपकथया
अवरजं – यवीयोवरजानुजाः इत्यमरः लक्ष्मणमित्यावत्
यविष्ठेन – यवीयोवरजानुजाः इत्यमरः लक्ष्मणेनेत्यर्थः
दुष्टचरिताम् – दुष्टं चरितं विधवापुनरुद्वाहरुपं यस्या सा शूर्पणखा
प्रतिकर्तुकामा – प्रतीकारं कर्तुं इच्छावती शूर्पणखा ।
प्राहिणोत् – गि गतौ वृद्धौ च इत्यतो लङ् । हिनुमीना 8 4 15 इति णत्वम्
अमीमरत् – मृणोतेर्णिचि लुङ्