• कश्चित् कोविदनामकोसुरवरो बंभ्रम्यमाणो भुवि

    चीनादेशसुलब्धजन्मविभवो नागात् सुतृप्तिं क्वचित् ।।

    नानादेशजनादनोददहनो दृप्तो हिरण्याभिधस्

    तं त्वं संहर संहराशुनखराग्रेतं नृसिंहाग्रणीः ।।

    कोविद् नामकः कश्चन असुरः चीनादेशे जातः । साम्प्रतं सः विजृम्भते सर्वदेशगतजनान् सः संहरति दुःखं च ददाति । एवंभूतोपि स अधुनापि तृप्तिं न प्राप । हे सर्वोत्तम नरसिंह, त्वं तं सद्य एव स्वनखराग्रगतं कृत्वा संहर संहर इति प्रार्थना अस्मिन् श्लोके विहिता ।

    सर्वे बिभ्यति कोविद् कोविद् कारणमाद्यं नो विद् नो विद् ।

    यो जानीयात् को विद् को विद् किं कुर्यात् तं कोविद् कोविद् ।।

    अन्वयः – कोविद् कोविद् इति सर्वे बिभ्यति (अधुना) । (तस्य) आद्यं कारणं नो विद् नो विद् । यः कः विद् कः विद् इति जानीयात् तं कोविद् कोविद् किं कुर्यात् ?

    अद्यत्वे कोविद् नामकः कश्चन रोगः सर्वत्र प्रसरति । न कोपि अत्र तन्मूलं जानाति । यः पुरुषः कः ब्रह्मा एव तन्मूलं जानाति न अन्यः इति निश्चयेन जानाति तं पुरुषं कोविद् किं कुर्यात् न किमपि । ।

  • न्यायप्रवृत्तिः नाम न्यायेन प्रवृत्तिः । न्यायश्ब्दश्च धर्मापरपर्यायः । स च धर्मः वेदैकसमधिगम्यः । वेदश्च अपौरुषेयत्वेन स्वतः प्रमाणभूतः । स सर्वधर्माणां आश्रयभूतः । अत एव वेदोखिलो धर्ममूलम् इत्युक्तं भागवते । वेदोक्तः धर्मः दुरूह्यः दुर्निरूप्यः दुरधिगम्यः दुरनुष्ठेयश्च सर्वमानवैः । स च वैदिकधर्मः सदृष्टान्तं निरूपतः व्यासरूपिणा स्वयं नारायणेन । कोह्यन्यः पुण्डरीकाक्षात् महाभारतकृद्भवेत्, नष्टधर्मलोककृपालुभिः ब्रह्मादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार इत्यादिवचनैः विज्ञायते । पञ्चमो वेदानां वेदः इति महाभारतस्य पञ्चमवेदत्वं शास्त्रेषु प्रथितम् । स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने इति महाभारते यो धर्मो निरूपितः, स ब्रह्मज्ञानसम्पादनायालं इति तत्रैवाभाणि सत्यवतीवशंवदेन व्यासेन ।।

    एवं धर्मप्रवृत्तस्य सकलपुरुषार्थसम्पत्तिः सम्पत्स्यते । न्यायप्रवृत्तस्य न केवलं दैवमेव सहकरोति अपि तु लौकिकाः किमुत पशवः, प्राणिनः, स्थावराः, जङ्गमाः सर्वेपि सहकुर्वन्ति । रामायण, महाभारतादिदृष्टान्तेन वयमेतत् सदृष्टान्तं विज्ञातुं प्रभवामः ।

    रामायणे न्यायप्रवृत्तस्य रामस्य तिर्यञ्चोपि कपयः सहायकाः किल । तथैव न्यायप्रवृत्तानां पाण्डवानां च देवाः, नरपतयश्च, ऋषिपुङ्गवाश्च सहायकाः अभूवन् । यश्च न्यायादपेतो भवति तं स्वकीयजनाः अपि मुञ्चन्ति । स्वावरजोपि विभीषणः रावणं व्यमुञ्चदिति नैतदाश्चर्यम् । दुर्योधनं च अधर्मप्रवृत्तं विदुरादयः व्यमुञ्चन् । स्वानुजः युयुत्सुरपि तं विहाय पाण्डवपक्षं प्रविवेश ।

    अतः श्रोयोभिलाषिभिः सज्जनैः न्यायमार्ग एव अनुसर्तव्यः । अधर्ममार्गः त्यक्तव्यः ।

    एतदेवोक्तं अनर्घराघवे –

    यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोपि सहायताम् ।

    अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चति ।। – अनर्घराघवम्

  • थारभत वचनं पुनरर्जुनः ।

    यदा पिण्डीकृतकुरुसैन्यतृणः स्वयमनलप्रभः धृष्टद्युम्नः मोडते कुरुसैन्यं तदा स मूढः सन्तप्ता । अपि च

    कुणपमयमसृणशोणितपङ्कसंस्यन्दमानस्यन्दने विभ्राजमानस्य मम शरवरवेगमूर्छितशान्तनवस्य शरौघैर्विद्धकवचधनुः स्मर्ता हितवचनं पाण्डवानाम् ।

    यच्चक्रविक्रमजितो मगधाधिपश्च सानल्पपुष्टपृतनासहितो मुहुश्च ।

    यस्योरुबाहुमथनेन जिताः सुरेन्द्रास्तं केशवं स हि जिघांसति धार्तराष्ट्रः ।।१।।

    पूर्वं सुरासुरमृधे सुरवैरिमायाजालावृते समयनेमिमममीमरद्यः ।

    तद्विक्रमार्धमपि यस्य न बभूव सोऽयं जेता किमु प्रणतदेवमममोघवीर्यम् ।।२।।

    साम्प्रतं स्ववीर्यं विशिनष्टि

    सुरैरजेयाः सहशस्त्रसङ्घाः निवातनाम्ना कवचाश्च वीराः ।

    यद्विक्रमेणाल्पतमेन पन्नाः तस्येषुसङ्घं प्रतिरोत्स्यते किम् ? ।।।।

    चचार घोरं तप आशु रौद्रं हिमाद्रिसानौ प्रपदाङ्गुलिस्थः ।

    येनैव तुष्टः प्रददौ महास्त्रं रुद्रः स किं तेन नियद्ध्यतेऽत्र ।।

    कुलिषकरवरासने निषण्णः कुलिषसपाशुपतास्त्रशस्त्रवेत्ता ।

    यदि रणशिखरे विजृम्भति त्वद्विजयरमां स हि मोषिता किरीटी ।।

    विचारमूढः प्रतिभासि मे त्वं यन्मात्स्ययुद्धे सबलान् करुत्रान् ।

    एको जिगायाद्य ससैन्यरथ्यमहारथं जेतुमिह प्रवृत्तः ।।

    (स्वकीयाः श्लोकाः)

    अनुवर्तते……….

  • श्रीजयतीर्थगुरुभ्यो नमः

    सत्यपि सुविस्तृते अलङ्कारसाहित्ये सुमहत्यामपि इतिहासप्रणयनपरम्परायां अलङ्कारशास्त्रस्येतिहासस्य नितरामभावो वर्तते । इदानीन्तने युगे प्रायशः समग्रग्रन्थानां पठनपाठनम् न प्रचलति । अध्येतारोsपि तादृशीं विषयोन्मेषशक्तिं तथा नैवाधिगच्छन्ति । यथा पुरा पठनपाठनपरिपाटी पटीयसी सती सुकुमारशेमुषीकान् तर्कोपकरणैः सनाथी कुरुते स्म । यद्यपि बहोः कालात् अलङ्कारशास्त्रेतिहासः सर्वेभ्यः आवश्यकः । संस्कृतभाषायाः काव्यशास्त्रीयग्रन्थेषु यद्गभीरत्वं यद्भिन्नार्थकत्वं यद्प्रकृष्टत्वं यत् सूक्ष्मत्वं यच्च कामधुक्त्वं विद्योतते न तत् कस्याः अपि भाषायाः आलङ्कारिकग्रन्थेषु सन्निहितं अस्ति ।

    भाषायां व्युत्पत्तिविवर्धनाय यथा व्याकरणशास्त्रं आवश्यकं तथैव काव्ये नैपुण्याय अलङ्कारशास्त्रं आवश्यकम् । अलङ्कारशास्त्रं विना काव्ये नैपुण्यमेव न सम्पद्यते अपि तु वाक्यदोषदृष्टिरपि नोत्पद्यते ।अत एव अलङ्कारशास्त्रं अध्येतव्यम् ।

    भारते अलङ्कारशास्त्रोत्पत्तिः कदाभवत् ? किमुपादानं गृहीत्वा अलङ्कारशास्त्रस्य उदयो जातः इति प्रश्नः समुदेति । प्रश्नोयं जटिलः । अनेकैर्विद्वद्भिरस्य मीमासा कृता । शास्त्रमिदं स्वजन्मसमयादेव नितरां लोकप्रियतां गतम् । तस्मादेतत् काव्यालङ्कारकाव्यशास्त्रसाहित्यशास्त्रादिकतिपयभिन्नभिन्ननामभिः ससम्मानं समाहूतमभूत् । तत्र अलङ्कारशास्त्रम्, काव्यशास्त्रम्, साहित्यशास्त्रम्, सौन्दर्यशास्त्रम्, क्रियाकल्पः इत्यादीनि नामानि भवन्ति ।

    तत्रादौ अलङ्कारशास्त्रम्

    आधुनिकेषु सर्वप्रथमो अलङ्कारशास्त्रग्रन्थः भामहप्रणीतः काव्यालङ्कार एव इति कृत्वा अस्य शास्त्रस्य नाम अलङ्कारशास्त्रम् इति प्रसिद्धम् ।।

    १) अलङ्कारलक्षणम्

    तत्र अलङ्कारशास्त्रे पञ्चरीत्या लक्षणानि उक्तानि विद्वद्भिः । तत्र-

    वामनः – सौन्दर्यमलङ्कारः तथा अलङ्कृतिरलङ्कारः

    दण्डी – काव्यशोभाकरानलङ्कारान् प्रचक्षते ।

    मम्मट – उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुवित् । हारादिवदलङ्कारास्तेनृप्राःसोपमादयः ।।

    रुप्यः – अभिधाप्रकारविशेषा एवालङ्काराः

    विश्वनाथः – शब्दार्थयोरस्थिरा ये धर्मा शोभातिशायिनः । रसादीनुपकुर्वन्तोलङ्कारस्तोङ्गदादिवत् ।।

    २) अलङ्कारस्य रूपनिष्पत्तिः

    अलङ्कारशब्दः उभयार्थे प्रयुज्यते । भावार्थे करणार्थे च ।

    भावार्थे तु – अलम् + कृ + क्तिन् = अलङ्कृतिः सैव अलङ्कारः इत्युच्यते ।

    करणार्थे तु अलम्+ कृ+ घञ् = अलंक्रियते अनेन इति अलङ्कारः ।

    ३) अलङ्कारशास्त्रप्रवर्तकाः –

    १) भरतः – नाट्यशास्त्रम्

    २) व्यासः – विष्णुधर्मोत्तरपुराणम्

    ३) भट्टिः – भट्टिकाव्यम्

    ४) भामहः – काव्यालङ्कारः(१)

    ५) दण्डी – काव्यादर्शः

    ६) उद्भटः – काव्यालङ्कारसारसङ्ग्रहः

    ७) वामनः – काव्यालङ्कारसूत्रम्

    ८) रुद्रटः – काव्यालङ्कारः(२)

    ९) व्यासः – अग्निपुराणम्

    १०) भोजः – सरस्वतीकण्ठाभरणम्

    ११) मम्मटः – काव्यप्रकाशः

    १२) रुप्यकः – अलङ्कारसर्वस्वम्

    १३) शोभाकरमित्रम् – अलङ्काररत्नाकरः

    १४) अमृतानन्दयोगी – अलङ्कारसंग्रहः

    १५) जयदेवः – चन्द्रालोकः – इत्यादयः सन्ति विद्वांसः ।।

    ।।श्रीकृष्णार्पणमस्तु ।।

    अनुवर्तते…………….

  • श्रीजयतीर्थगुरुभ्यो नमः

    अस्ति पुरा सकललोकस्तूयमानो हरिकलो महामहिमो चलत्कुण्डलमण्डितजनमण्डलमहितो लसत्किरीटी शुभलक्षणो हरिपदसेवकोत्तानपादो नाम । अस्यास्तां उभे जाये सुरुचिः सुनीतिश्चेति । सुरुच्यामासीत् उत्तमो नाम ध्रृवो सुनीत्यां च ।एकदा सुरुचेः पुत्रं उत्तमं राजा अङ्कमारोप्य लालयन् अङ्कमारुरुक्षन्तं ध्रृवं राजा नाभ्यनन्दत एवं चिकीर्षितं तं ध्रृवं सुरुचिः सासूयं अतिगर्विता सती उवाच हे वत्स नृपतेः धिष्ण्यं भवान् आरोढुः नार्हति । यतस्त्वं मम कुक्षौ न जातः । अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः इति महान्तः भणन्ति । हरिं तपसाराध्य सिंहासनोपवेशनयोग्ये मदीयोदरे जायस्वेति वरसंवृतो आर इति । धृवः समातुः सुरुच्याः वाक्यं श्रुत्वा दुरुक्तिविद्धः सन् रुषा श्वसन् अवाचं पितरं हित्वा मातुरालयं जगाम । तत्र मात्रा हे पुत्र, परेषु अमङ्गलं माचिन्तय इत्यादिवचनैः सः प्रसादितः । ततः मात्रा यत् दर्भगायाः मयि जातस्त्वं यदीच्छस्युत्तमासनं आराध्यायाहि देवम् । हे अङ्ग, ब्रह्मादिभिः ज्ञानभक्त्यादिवृद्ध्यर्थं प्रार्थ्यमानं हरिं त्वमपि स्तोत्रैः स्तुहि । ततः स बालः समातुः वचोबाणान् अमृष्यमाणः उत्तमपदप्राप्तये हरिं आराधयितुं पितुः पुरात् वनं निश्चक्राम । मार्गे नारदेन कुतो यासि इत्याद्यवचनैः पृष्टः सुरुच्याः दुर्वचोबाणैः खिन्ने मद्हृदये अधुनापि शमः नैव जायते । ततो नारदः अब्रवीत् – हे बाल, अस्ति अनतिदूरे मध्वाख्यं वनम् । तत्राविष्टः त्वं ध्याहि हरिम् ओं नमो भगवते वासुदेवायेति । । तथा आदिॆष्टो ध्रुवः मधुवनं गत्वा यथाह महर्षिः तथा चकार । त्रिरात्रान्ते त्रिरान्तान्ते कपित्थादिफलाशनः प्रथमं मासं यापयामास । द्वितीयं तु पर्णतृणाद्याशनः यमापयाञ्चक्रे । तार्तीयं मासं नवमे नवमे अहनि अब्भक्षः सन् यापयाम्बभूव । चतुर्ॆथं च मासं द्वादशे द्वादशे दिने वायुभक्षः बभूव । पञ्चमे मासे तु जितेन्द्रियः जितश्वासः अचलव् स्थितः तपः चकार । ततो देवा शरण्यं भगवन्तं शरणं प्रजग्मुः । अथ देवः भृत्यदिदृक्षया आजगाम । तत्र हृदि स्थितं भगवन्तं मनसा स्मरन् तस्य रूपस्यान्तर्धेन ददर्श बहिस्थं हृद्रूपसदृशं देवं । ततः कम्बुस्पर्शेन समधिगतसर्वविद्यः –

    योन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।

    अन्याश्र्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ।।

    इत्यादिश्लोकैः पञ्चवर्षीयेन शिशुना निस्सृतंअत्यर्थ-गर्भितं वचनं अहो बत लक्ष्मीसान्निध्ययुक्कम्बु-माहात्म्यम् । अहो सुभाग्यं कष्टसाध्यं बालस्य पुण्यम् । भगवता प्राप्तस्थानवरः ध्रुवः नातिप्रीतः आजगाम पुरम्। तत्र पित्रा विजयोत्सवेन महितो बालः नातिचिरम् प्राप राज्यम् तथा समाप्तायुः जगाम स्वक्षितिं ध्रुवमण्डलम् ।।

    श्रीकृष्णार्पणमस्तु

  • (सञ्जयधार्तराष्ट्रम् – 1 तः अनुवृत्तम् )

    थाम्बिकेयः आकर्ण्य गिरं भगवतो वासुदेवस्य अप्राक्षीत् तत्क्षत्तारम् । हे सञ्जय – पृच्छामि त्वा, सम्पृच्छस्व चूर्णिताशेषाभिघातिनः लीलयोद्धृतदुर्जयाभेद्यदुर्धरगाण्डीवकार्मुकस्य किरीटिनो वाचम् ।

    सञ्जयो गिरमारेभे – हे राजेन्द्र श्रृणोतु युवराजो दुर्योधनः यदाह युधिष्ठिरानुमतो सव्यसाची पुरतः केशवस्य । ”हे पार्थिवसूत कुरूणां मध्ये , तत्र संशृण्वतः वृथा प्रख्यापितपौरुषस्य सूतापसदस्य सदा मया सह युद्धाभिलाषिणो मन्दप्रज्ञस्य कर्णस्य अथ च कौरवपक्षपातिनां मध्ये सन्निषण्णं दुर्योधनं ब्रूयाः – न चेत् मुञ्चति युधिष्ठिरस्य राज्यं धार्तराष्ट्रः अनुपभुक्तं वृजिनं अत्ति । यस्य निग्रहः निगृहीतबकहिडम्बकिर्मीरजरासन्धकीकचकेन वृकोदरेण सह, अर्जुनयमभ्यां, वासुदेवस्य अपि च

    यस्यायुधं भीमकिरीटिमुख्यैः संयुद्ध्यते प्रोद्यतविक्रमैश्च ।

    सोऽयं सुभीमोरुगदागतासुः प्राप्नोत्यजर्यं कृमिरक्तपाद्यैः।।१।।

    अर्थः – यस्य दुर्योधनस्य आयुधं प्रहरणम् (आयुधं तु प्रहरणम्) भीमकिरीटिमुख्यैः भीमार्जुनादिभिः सह प्रोद्यतविक्रमैश्च उद्यतविक्रमैः विविधदेशराजैश्च सह संयुद्ध्यते युद्धं करोति (समुपसर्गात् युध सम्प्रहारे इति लटात्मनेपदम्) सोऽयं तथाभूतः दुर्योधनः सुभीमोरुगदागतासुः भीमसेनस्य गदया गतप्राणः सन् कृमिरक्तपाद्यैः कीटैः रक्तं पिबद्भिः कृमिभिः सह अजर्यं सङ्गतं (अजर्यं सङ्गतम् (पा.सू ३.१.१०५) जीर्यतेः नञ्पूर्वात् सङ्गते सङ्गमने कर्तरि यत् प्रत्ययो निपात्यते। इति यत्प्रत्ययः । प्राप्नोतु आप्नोतु । प्रोपसर्गपूर्वक आप्लृ व्याप्तौ इति धातोः लोट् परस्मैपदम् ।।

    यदा गदापाणिरसृक्पिपासुर्दुःशानस्याजिमुखे प्रयाति ।

    यदा मदीयेशुविकर्तिताङ्गस्तदास्मदुक्तं स्मृतिमेति युद्धे ।।२।।

    अर्थः – यदा यस्मिन् काले गदापाणिः गदाहस्तः दुःशासनस्य तन्नामकस्य कौरवस्य असृक् रक्तं रुधिरेऽसृक् इत्यमरः । पिपासुः पातुमिच्छुः सन् आजिमुखे रणाग्रे समिति-आजि-समिद्युधः इत्यमरः प्रयाति गच्छति प्रोपसर्गात् या प्रापणे इति धातोः लट्परस्मैपदम् । यदा यदा च मदीयेशुविकर्तिताङ्गः मदीयाः अर्जुनविमुक्ताः ये इषवः बाणाः पत्री रोप इषुर्द्वयोः इत्यमरः । तैः विकर्तितं छिन्नम् अङ्गं देहः यस्य दुर्योधनस्य सः । यदा मदीयबाणैः छिन्नगात्रः भवति तदा तस्मिन् काले अस्मदुक्तं अस्माभिः भणितं पाण्डवैः सह वैरं मास्तु इति वचनं स्मृतिं तस्य स्मृतिपटलम् एति आगच्छति ।।

    यद्विद्युदाभजवभानुसुभानुहेतिः स्वीये करे सकलशस्त्रभृतां वरिष्ठः

    प्राप्नोति शक्रकरहासिविभः समीपं तप्ताम्बिकेयतनयो निकटाप्तम्युत्युः ।।३।।

    अर्थः – यद्विद्युदाभजवभानुसुभानुहेतिः यस्य भीमसेनस्य विद्युदाभः तटित्समः, तटित्सौदामिनी विद्युदित्यमरः । जवः वेगः यस्या अस्ति , तथा भानुना सूर्येण समः सदृशः भानुः कान्तिः भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियामित्यमरः । तादृशसूर्यप्रकाशसमप्रकाशः यस्या अस्ति हेतेः गदायाः, सा गदा यस्य स्वीये स्वकीये करे हस्ते वर्तते तादृशः सकलशस्त्रभृतां सर्वायुधधारिणां वरिष्ठः श्रेष्ठः शक्रकरहासिविभः शक्रस्य इन्द्रस्य करः कान्तिः तं प्रहसति यस्य विभा कान्तिः तादृशः श्रीभीमसेनः समीपं दुर्योधनपार्श्वं यदा प्राप्नोति आप्नोति तदा निकटाप्तमृत्युः पार्श्वागतमरणः अन्तो नाशो द्वयोर्मृत्युः इत्यमरः । आम्बिकेयतनयः अम्बिकाया अपत्यं पुमान् स्त्रीभ्यो ढक् (पा.सू ४.१.१२०) ‘तस्य अपत्यम्’ अस्मिन् अर्थे स्त्रीप्रत्ययान्तशब्दात् ढक्-प्रत्ययः विधीयते इति ढक्प्रत्ययः। तस्य धृतराष्ट्रस्य तनयः पुत्रः दुर्योधनः आत्मजस्तनयः सूनुः इत्यमरः । तप्ता सन्तापं प्राप्नोति । तप सन्तापे इति लुट् परस्मैपदम् ।।

    यन्न्यायलब्धममरालयतुल्यराज्यमन्न्यायतः कितवखेलनतः परात्तम् ।

    सोऽयं प्रतापहतदिग्दशपार्थिवश्च राजा क्रुधा जयति कौरवसैन्यमाशु ।।४।।

    अर्थः – अमरालयतुल्यं स्वर्गतुल्यं राज्यं साम्राज्यं यन्न्यायलब्धम् यस्मै युधिष्ठिराय न्यायेन लब्धम् तत् राज्यम् अन्यायतः अन्यायतः कितवखेलनतः द्यूतक्रीडनेन धूर्तोऽक्षदेवी कितवः इत्यमरः । परात्तं परैः कुरुभिः आयत्तीकृतम् । सोऽयं तादृशः प्रतापहतदिग्दशपार्थिवश्च स्वतापेन हताः दशदिक्षु विद्यमानाः राजानः येन तादृशः राजा युधिष्ठिरः क्रुधा कोपेन कौरवसैन्यम् कुरुवाहिनीं आशु सम्यक् जयति अभिभवति ।।

    मद्धस्तमुक्तदशमस्तकहारितुल्यतीक्ष्णासिविद्धनिजगात्रसुगोत्रपः सः ।

    सालीढमात्तधनुषं रणमस्तके सः पश्येत् किरीटिनममुं सहकालपृष्ठः ।।५।।

    अर्थः – मद्धस्तमुक्तदशमस्तकहारितुल्यतीक्ष्णासिविद्धनिजगात्रसुगोत्रपः मदीयहस्तेन चोदिता ये रावणान्तरामबाणसदृशाः निशिताः असयः बाणाः तैः विद्धं छिन्नं गात्राख्यपर्वतः यस्य वर्तते सः एवम्भूतः कर्णः सहकालपृष्ठः तन्नामकधनुर्धारी इष्वासोऽप्यथ कर्णस्य कालपृष्ठं प्रतिग्रहः इत्यमरः रणमस्तके समरमूर्धनि सालीढं तन्नामकभङ्गीस्थं स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् इत्यमरः । आत्तधनुषं उद्यतकार्मुकम् अमुं किरीटिनम् पार्थं पश्येत् आलोकयेत् मज्जयमालोकयेदित्यर्थः ।।

    अरिजनारिरमानुषखेटकत्सरुसुखड्गसुमेखलिकायुतः ।

    शकुनिमात्तमृतिं विदधाति यः सहसुरो तपति स्वजनम् बहु ।।६।।

    येऽन्ये शिखण्डिरिपुखण्डिसुतस्वसेनाथाम्बुगामिजपार्थिवाश्च ।

    निःशेषमास्य कुरुमण्डलराजसैन्यं संसेचयन्ति कुरुपं वरधर्मराजम् ।।७।।

    अनुवर्तते……

    (स्वकीयाः श्लोकाः)

    Rating: 5 out of 5.
  • श्रीजयतीर्थगुरुभ्यो नमः

    अथैतदन्तरे ज्ञातोदन्तो रावणो राघवं लोभकामोचूचुदन्मारीचम् । जातरूपजातरूपोसौ पुरश्चचार सीतायाः । सा मूर्छाहेतोर्दानवानामलषदिव रुरुम्। सा बभाषेशमक्षिण्याकृषत्ययं मृगोत आशु प्रदेहीति । रामो रुतमाकर्ण्याभ्यहास्त । जातरूपोसावमुमूर्षुरहैषीत् । रामस्तमारात्संस्पन्दयित्वा तस्याजीजसत् । स भूत्वा मारीचस्तारं रामेति लक्ष्मणेति सीतेति च विचक्रे । रवमाकर्ण्याराद्राघवी भीतेव गमने मतिमनाययत लक्ष्मणं । स राममुपससार । लक्ष्मणो राममुपेयिवानिनस्य प्रतिभप्रभमलोकिष्ट । तत्रावैक्षि निहतस्तेनानुभुवा । अमुष्मिन्रावणो समये समयैत सीताम् । शरण अशरणामारादालक्ष्यासौ रावणः प्राकृत । अग्निजा विदेहजामपनीय परनिमित्तादनल्विधौ स्थानिवद्भावमधत्त । सा भूमिजां प्रहाय सभूमिमग्निजामनेष्ट । सीतोमापतिनिवेशमाविवेश । । विभ्वीं विभुं समया स्थितामिमां विमानो विमान आरोप्य सममन्दिष्ट । अर्दनान्तरे जटायुरजजीज्जानेरजस्य रक्षाकामो । रावणोवाध्वसज्जटायुं तूणिना । निहतपतत्रः पतत्री प्रत्यजञ्जीत् । रावणोसूदत सीरजारक्षाकाम्यं । अपघनापघनोपपदत न्यसूकृतेवाधः । ततो लक्ष्मणराघवावगातां निवसनं । सानुप्रभू रामो तत्रायाय नोदीदसत् सीताम् । तेन दुःखितमिव । विललाप चेत्थम्-

    मदेकजाया नवयैवना सती तपस्विनी तप्ततपःप्रमोदिनी

    पत्नीवियुक्तः सः पुलस्त्यनन्दनः कुतो विगर्ह्यं चरितं चकार सः ।।

    किं मयाचरितोंहः । मया विधिर्विहितोपि स प्रत्यनुपकार्भूत् । तत्र चानुमीयते-

    विधिः प्रत्यनुपकारी उपकारवतामननुकूलतया विहितत्वात् दुष्टवत् इति

    तथाहि- ”कमपि सकलहृद्यं कल्पयेन्नैव दैवम्” इति विलपन् पुरः समगमदन्विषन् क्षोणिजां । ततोध्वनि न्यसूकृतमिव स्थितं विं विरसौ वीरोन्वैक्षत । जटायुरायुरहासीत्प्रवृत्तमावर्त्य रामाय । रामस्ततोर्ध्वदैहिकमाचरय्य खगस्य निकटमाटिटेक शैलस्य । तत्ररादायान्तं दान्तं विरक्तं पवनसुतं हनुमन्तमालुलोक । पवनसुतोननाम पावनतनुं रामं । रामोस्वङ्क्त मारुतिं । ततोध्वानमाटोक्य सुग्रीवेण सुग्रीवो ऐक्षत । तत्राह्वरितो रामो वानरैर्वा नरैर्माघवतापनविरोधमाविविदे । ततो रविजेनार्तिथतोत्सादने वालिनः । तौ च सम्प्रहरेते । ऐन्द्रमुष्टिभिः प्रतिहतोशक्तः भानुः प्रययौ । इक्षमाणोपि विदिताखिललोकचेष्टो राघवो माघवानं नोत्ससाद । सहोदरजने जनितेपि विरोध उत्सार्यतेबहुर्बहुकालत इति धर्ममभिद्योतयितुं पाकशासनिं नो व्यौच्छीत् । ततश्च-

    रामः सीताभिरामोहन्निकामं पाकशासनिम् ।

    शिञ्जिनीमञ्जुमुक्ताहिदेश्यकाशवता गवा ।।

    वानरो वा नरैः सनरैस्तत्परिवृढैराहत्यामुमुदे । ततोभ्यषिञ्चछ्श्रीरामो कीशारामं सुग्रींवं राज्ये । ततोस्ते च रवौ तद्भुवि भावि कर्मानवबुद्ध्यास्थिते मर्कटे तदधिपे चासंबुद्धे प्रतिकृतिं, सम्प्राप्तकराभिरामभूषः प्रतिविधित्सयाराराद्धराधरस्य धराधरस्य रमणीमणिमभिवीक्षमाणो सहवानरैः । सुग्रीवः प्राससार बलं स्वकं । मारुतिर्मानुमार्गणरतो कालतो कालामाशामभिससार । तत्र चानुवीक्ष्योदधिं तत्समोसावुत्स्कुन्द्य, प्रतीरोधमागर्ह्य यातलङ्कः परानुशङ्कितमूर्तिर्हुंकृत्य लङ्किणीमावलय्य अक्षानुविद्धेक्षो सीतामादंसयामास । तामानम्य पाणिप्रवाले तदाशोभं निधाय परिगृह्य च शीर्षाभ्राजमानं पुरश्चोपसीतया गतेन तेनादध्वंसे वाटिका । पवनसुतोतिमात्रमात्माजानावर्धयित्वा रक्षसः, तर्जयित्वा तं लङ्कामभिदह्य रामपदमापेदे दत्ताङ्गालङ्कृतिः । ततश्च सहवानरो रामो सेतुं निबध्याव्यात्सीद्राक्षसान् । सीतां चाभिसङ्गृह्य सविमानो विमानो नन्दयन् लोकान् नन्दिग्रामप्राप्तः सभरतोयोध्यामाजगाम ।

    श्रीरामचन्द्रोमितधर्मसान्द्रः सुसिक्तराज्योमितभोगभोज्यः ।

    स्वभक्तदत्तामितभूतिवातसुतप्रदत्तामितभूतिरव्यात् ।।

    श्रीकृष्णार्पणमस्तु