गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

  • मोमुद्यते मे स्वान्तं यदद्य आत्माश्रमगुरुकुले श्रावणपौर्णिमाचन्द्रकिरणपरिशोभिते विश्वसंस्कृतदिवसे प्रतिदिनं प्रवर्त्यमानायाः संस्कृतदीपिकायाः छात्रैः सह कार्यक्रमः अन्तर्जालद्वारा प्रचलितः इति । अस्मिन् नैके छात्राः भागमवहन् । पञ्चवादने अनन्त-श्रीराम-लक्ष्मीनारायणानां मधुर-वेदवाण्या अयमुत्सवः प्रारब्धः । अनन्तरं भगवत्पादैः मध्वाचार्यैः विरचितस्य महाभारततात्पर्य-निर्णयस्य रामवर्णस्तोत्ररूपं गीतं शुभाङ्गान्तरात्मानौ अगायेताम् । ततः शुभाङ्गः सुभाषितमुवाच । अन्तरात्मा काव्यवाचनं,आत्माश्रमस्य परिचयं चाकरोत् । ततः संस्कृतदीपिकामाध्यमेन पञ्चसु दिवसेष्वेव आचार्याणां राचूरि-आचार्याणां मार्गदर्शनेन शिक्षितसंस्कृताः आबालवृद्धाः स्वीयं लघुभाषणमभाषन्त । केचन स्वपरिचयं,पाणिनिमहिमानं,सुभाषितानि च ऊचुः । ततः अनन्तः – संस्कृतस्य महिमा इति विषये अभाषत । शुभाङ्गः – संस्कृतवैशिष्ट्यमिति विषये, लक्ष्मीनारायणः – संस्कृतसुरभिः इति विषये, श्रीरामः – वैज्ञानिकं संस्कृतमिति विषये, मधुकृष्णः – सुभाषितविषये अभाषन्त । श्रीमान् चन्द्रशेखरः नवीनशैल्या तमिलभाषापद्यं संस्कृतभाषायां सुष्ठु न्यरूरुपत् । ततः श्रीमती.परिमलामहोदया संस्कृतपरिमलमधिकृत्य प्रास्तौत् । अत्र आचार्यपादाः आत्माश्रमगुरुकुलविद्यार्थिभ्यः संस्कृतगरिम्णः विषये ”मेरुमूर्ध” इति पदसहितम् आशुकवितारचनार्थं प्राचोदयन् । ते सर्वे छात्राः निमेषपञ्चके स्वीयान् श्लोकानुपनिबबन्धुः (राचूरि अन्तरात्मना लिखिताः श्लोकाः उपरि चित्रे सन्ति) । ततः ते सर्वेभ्यः स्वीयान् श्लोकान् श्रावयामासुः । अथ आचार्यपादाः स्वीयं श्लोकद्वयप्रस्तुतिं चक्रुः । इति गुरुकुलविद्यार्थिनां सहकारेण आचार्यमार्गदर्शनेन जनानां प्रोत्साहेन च कार्यक्रमः साफल्यं प्राप्नोत् । अयं कार्यक्रमः गीर्वाणवाण्याः सरस्वत्याः माला इव बभूव । अपि च अस्मिन् पुण्यदिवसे अस्य गीर्वाणतरङ्गिणी-अन्तर्जालपुटस्य वार्षिकोत्सवः आचरितः । अयं पुटः (Post) अन्तर्जालपुटस्य पञ्चाशत्तमः रारष्टि । – अन्तरात्मा

    कार्यक्रमस्य चित्रम्
  • सर्वेपि अद्य कोविद्-२०१९ इत्यस्मात् वैराणोः संत्रस्ताः । सकलमपि विश्वं भयभ्रान्तमकरोत् अयं वैराणुः । न कोपि देशः अद्यत्वे अवशिष्टः यः अनेन वैराणुना अपरिमृष्टः । अतिसुलभतया अन्यसङ्क्रामकत्वमेव एतस्य बलम् । केवलं सम्पर्कमात्रेण एकस्मात् पुरुषात् अन्यपुरुषं संक्रम्य तमपि कोविदं (कोविद्-ग्रस्तं) करोत्येष वैराणुः । यद्येवं सर्वेपि अनया भङ्ग्या कोविदः भवेयुः तर्हि नारायणावतारस्य भगवतो व्यासस्य किं कृत्यं अवशिष्यते । मन्दजनान् उद्धिधीर्षुः खलु भगवान् ब्रह्मरुद्रेन्द्रादिभिरर्थितो व्यासत्वेनावततार । सकलकलिमलविनाशनाय तेन च महाभारतादिग्रन्थजातं अकारि । अतः स्वकृतशास्त्रस्य अवैय्यर्थ्याय सः प्रार्थ्यतेस्माभिः । हे नारायणो व्यासः भवदनुग्रहेण सर्वोप्यत्र जनः कोविदाख्यवैराणुना ग्रस्तो मा भूत् । किन्तु भवत्प्रणीतग्रन्थपठनादिना भवद्भक्तिं सम्पाद्य वस्तुतः कोविदाः भवेयुः । एवमाकलयति मे चेतः अधस्तनपद्यव्याजेन –

    मन्दीभूतात्मबोधामददमनपटुर्वेदनाथोSभिसर्प्य
    दैवैर्ब्रह्मादिमुख्यैः सकरुणमसकृत्प्रार्थितः कोविदान् स्वान् ।
    कर्तुं व्यासाात्मना यद् व्यदधदधिकसंवित्प्रदं ग्रन्थजातम्
    किं भोस्तेनाद्य कोविद् कलयति सकलं स्पर्शतः कोविदं चेत् ।।

  • नमः सर्वेभ्यः,

        अहं आचार्य राघवेन्द्रः । संस्कृतच्छात्राणां भवतां समेषां अभिनन्दनानि आशीर्वचांसि च । भवन्तः सर्वे जानन्त्येव यत् संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति जेगीयमानायाः संस्कृतमातुः वरपुत्राः वयं एतद्देशप्रसूताः प्रगल्भभारतीयाः । प्रतिवर्षं श्रावणपूर्णिमायां विश्वसंस्कृतदिनस्य आचरणं विश्वाद्यन्तं संस्कृतप्रेमिभिः क्रियते । आत्माश्रमेपि एष्यत् श्रावणपौर्णिमायां विशेषतया संस्कृतदिनाचरणं भविष्यति । विशेषपूजा, पारायणं, भजनं, संस्कृतकार्यक्रमाश्च तस्मिन् दिने आयोजयिष्यन्ते । सायं ५ वादनतः ६ वादनपर्यन्तं प्रचालयिष्यमाणे अस्मिन् कार्यक्रमे संस्कृतदीपिकायाः छात्राः अपि भागग्रहीतारः भवितुमर्हन्ति । ५ निमेषपर्यन्तं लघु उपन्यासं कर्तुं ५ विद्यार्थिनां अवकाशः कल्पितः । कृपया स्वकीयविषयं सिद्धं कुर्वन्तु इति प्रार्थया ।

    झूम (ZOOM) द्वारा एषः कार्यक्रमः सर्वैः अपि वीक्षितुं शक्यः । तस्य कुञ्चिका अधो निर्दिष्टो वर्तते ।

    संस्कृतदीपिका  is inviting you to a scheduled Zoom meeting.

     Date : Monday, 3rd August, 2020

    Time : 5pm – 6 pm

    Join Zoom Meeting

    https://us02web.zoom.us/j/87002370502?pwd=dlRrRHdIWmZmVEM0ZHFtQ0owdTE3dz09

    Meeting ID: 870 0237 0502

    Passcode: 092553

    One tap mobile

    +13126266799,,87002370502#,,,,,,0#,,092553# US (Chicago)

    +13462487799,,87002370502#,,,,,,0#,,092553# US (Houston)

    Dial by your location

            +1 312 626 6799 US (Chicago)

            +1 346 248 7799 US (Houston)

            +1 408 638 0968 US (San Jose)

            +1 646 876 9923 US (New York)

            +1 669 900 6833 US (San Jose)

            +1 253 215 8782 US (Tacoma)

            +1 301 715 8592 US (Germantown)

    Meeting ID: 870 0237 0502

    Passcode: 092553

    Find your local number: https://us02web.zoom.us/u/kdX1zXEd

  • श्रीजयतीर्थगुरुभ्यो नमः

    लक्ष्मीरक्षीणचक्षुः कलुषविघटनातिक्षमप्रेक्षणान्ता

    पक्षीशाविष्टरेक्षाक्षरणविलसितप्रेक्षणाक्षीणभूतिः ।

    संक्षुब्धानेकभङ्गोच्छिशिरकरमहाकर्षणोद्भूतमूर्तिः

    चक्षुःक्षोभाप्तभूतिः कलयतु लयलेशाक्षतोरुप्रबोधा ।।1।।

    तस्यार्थश्च- कलुषविघटनातिक्षमप्रेक्षणान्ता यदपाङ्गतः पापौघनाशः पक्षीशाविष्टरो भगवान् तस्येक्षाक्षरणतो विलासितप्रेक्षणा शोभनेक्षणा अक्षीणभूतिः । संक्षुब्धः अनेकभङ्गः समुद्रः भङ्गस्तरङ्ग ऊर्मिरिति । उच्छिशिरकरश्चन्द्रः तस्य महाकर्षणवान् यः सुमद्रः तत्रोद्भूतमूर्तिः चक्षुःशोभया आप्ता सृष्टाद्यनेकभूतिः लयेपि अक्षता अविनावदखिलचेतना लक्ष्मीः अक्षीणचक्षुः कलयतु प्रददातु । समेषां वरलक्ष्मीमहस्य शुभाशयान् प्रेषयत्ययं जनः ।।

    श्रीकृष्णार्पणमस्तु

  • कविकुलचूडामणिः माघः
    ।।श्रीः।।

    निश्चप्रचं यत् सुमधुरसरसभरितगीर्वाणवाण्यां संस्कृतभाषायां नानाविधविकटकाव्यानि राराज्यन्ते इति। तानि काव्यानि जनमनोविकासाय विद्यन्ते। तेषां काव्यानां समुद्रायमानेषु साहित्यक्षेत्रेषु काव्यानि रत्नायमानानि भवन्ति। यदि एतानि काव्यानि रत्नायमानानि तदा तेषां कर्तारः रत्नप्रकाशा इव दरीदृश्यन्ते । तेषां कवीनां पाण्डित्यपदलालित्ये तेषु काव्येषु प्रतिसर्गं प्रतिपादं दोदुह्येते च प्रकटीकुरुतः। एतानि काव्यानि मिथः संस्पर्धन्त एव भान्ति । कवीनां शिखिस्वरैः रसिकानां मनांसि आकर्ष्यन्ते। अधुना अहं कविकुलमुष्टिंधमस्य कविचूडामणेः महाकविमाघस्य विषये निरूपयितुमुत्सहे।।

    एषः माघः गुजराते श्रीमालानगरे अजनि। अस्य पिता दत्तक इति ।अस्य पितामहः सुप्रभवदेवः कस्मिंश्चित् राज्ये धर्मसचिवः आसीत्। बाल्यादेव माघस्य विद्या सर्वदा रसनाग्रनर्तकी आसीत्। अस्य माघस्य मेर्वाकृतिः ग्रन्थो नाम शिशुपालवधम् इति । अस्मिन् काव्ये कवेः प्रतिभाशब्दज्ञानकवित्वानि स्फुटं विज्ञायन्ते। अस्मात् कारणात् राजशेखरः वदति- माघेनेव च माघेन कस्य कम्पो न जायते। माघकाव्याख्ये सूर्ये उदयति सति अन्येषां कवीनां प्रकाशः मन्दो बभूव इति।अस्मिन् चातुर्यैकाकृतिपाण्डित्यगर्भितग्रन्थे शिशुपालवधे विंशतिसर्गाः सन्ति । १६५० श्लोकाः विद्यन्ते। इदं काव्यं बृहत्त्रय्यां अन्तर्भवति।अस्य काव्यस्य नायकः भगवान् श्रीकृष्णः । प्रतिनायकः शिशुपालः भवति।अस्याः कथायाः आधारग्रन्थौ भागवतमहाभारते विद्येते । एकः कविः वदति मुरारिपदचिन्ता चेत्तदा माघे रतिं कुरु। मुरारिपदचिन्ता चेत्तदा माsघे(पापे) रतिं कुरु।। उद्भटः भणति- उपमा कालिदासस्य भारवेः अर्थगौरवं दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।। सद्यःमाघे सन्ति त्रयो गुणाः इत्यस्मिन् विषये पश्यामः।।

    प्रथमं तु माघस्य उपमाकौशलं सदृष्टांतं पश्यामः।

    दधानमम्बोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम् ।

    निपाकपिङ्गास्तुहिनस्थलीरुहो धराधरारेन्द्रं व्रततीततीरिव ।।

    असमिन् श्लोके कविः उपकृष्णं आगतं नारदमुनिं सिंहसंहननं उत्तमरीत्या वर्णयति । अत्र यथा सतुषारः हिमालयः सूर्यकान्तिपिङ्गलं लतासमूहं भृत्वा यथा इन्धते तथा हिमालयतुल्यः नारदः सूर्यकान्तिपिङ्गलेव तत्प्ताः शुशुभे इति चारुणा कलयति ।

    इदानीं माघस्य अर्थगौरवविषये तनोमि

    अपशङ्कमङ्कपरिवर्तनोचिताश्र्चताः पुरः पतिमुपैतुमात्मजाः।

    अनुरोदतीव करुणेन पत्त्रिणां विरुतेन वत्सलतयैष निम्नगाः ।।4.46।।

    अत्र कविः प्रकृतिसौन्दर्यं चातुर्येण कथं अयावीत् इति ज्ञातुं शक्यते । अमुत्र कविः रैवतपर्वतं परितः नद्याः तत्रस्थपतत्रिणां वर्णनं इत्थं कुरुते- यथा आत्मजा कन्या पितरं त्यक्तवा पतिं प्राप्नोति तदा पिता वात्सल्येन रोदिति तथैव तात इव रैवतपर्वतः तस्मात् उत्पन्नाः पुत्रीयन्ते नद्याः पत्यमाने समद्रे प्रापणसमये वात्सल्येन पूरितः रैवतः पक्षिकूजनात् अनुरोदितीव मन्यामहे। इति सम्यग् वर्णयति कविः।।

    नूनं कवेः पदलालित्यविषये अवलोकयामः-

    यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिः (न)समुन्नमद्भिः।

    वनं बबाधे विषपावकोत्था विपन्नगानां (अ)विपन्नगानाम्।।4.15।।

    पुनः रैवतपर्वतं वर्णयति विरोधाभासालङ्कारेण कविः।

    रैवतपर्वतस्य उपरिस्थमेघावलयेन पतिताः वर्षाः वृक्षालिङ्गितात् सर्पविषाग्नेः नगं रक्षयन्ति। समुन्नमद्भिः नसमुन्नमद्भिः तथा विपन्नगानां अविपन्नगानाम् द्वयोः स्थलयोः विरोधः भासते तदर्थं अयं विरोधाभासालङ्कारः इत्युच्यते।। अत्र कवेः ललितं पदलालित्यं ज्ञायते।।

    आभिः रीतीभिः माघस्य त्रैगुणकौशलस्य विषये न कापि विचिकित्सालेशः इति मन्ये। नवसर्गगते माघे नव शब्दो न विद्यते। इत्युक्तदिशा माघकाव्यपठनेन नूतनशब्दाः अज्ञाताः न विद्यन्ते इति। तादृश परिवृढपाण्डित्यभरितं ग्रन्थं सर्वैः अपि अवलोकनीयतरं अस्ति। अधुना सुलभबोधाय मल्लिनाथप्रणीता सर्वङ्कशा व्याख्योपेतं मणिप्रभा इति  व्याख्योपेतं च शोभते।।

    ।श्रीकृष्णार्पणमस्तु।

    टिप्पणीः-

    1. दोदुह्येत= दिह उपचये इत्यस्मात् धातोः यङ्लुङ्गन्तं रूपम्।।
    2. शिखिस्वरैः= शिखी= मयूरः। शिखिनः स्वराः इव स्वराः शिखिस्वराः। तैः शिखिस्वरैः।।मधुरस्वरैः इति ज्ञेयम्।।
    3. कविकुलमुष्टिंधमस्य= मुष्टिना धमति इति मुष्टिंधमः। नाडीमुष्ट्योश्च इति सूत्रेण नाडी मुष्टि इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति। तिरस्करोति इत्यर्थः।।
    4. बृहत्त्रय्यां= नैषधीयचरितम् , शिशुपालवधम् , किरातार्जुनीयम् ।।
    5. सिंहसंहननं= वराङ्गरूपोपेतो यः सिंहसंहननो हि सः इत्यमरः।।
    6. तत्प्ताः= तस्य प्ताः (जटा) तत्प्ताःऋषीणां प्ता जटा सटा इति हलः
    7. अयावीत्= यु मिश्रणे लुङ् ।।
    8. विरोधाभासालङ्कारः= आभसत्वे विरोधस्य विरोधाभास इष्यते ।विनापि तन्वि हारेण वक्षोजौ तव हारिणौ । इति कुवलयानन्दे ।
  • श्रीजयतीर्थगुरुभ्यो नमः

    पुरासीत् ऋषिवरोऽभीष्टसम्पूरघनाघनो अष्टापदत्विण्मिषप्रकाशितास्यो नष्टमनीषोद्धृतिपराशरात्मजाभक्तानुश्रवसंरतोत्कृष्टधराधरेन्द्राधृतव्रततिततिप्रतिमसटाघटोधृष्टानेकमानिनीनेता सम्मृष्टसत्तत्वो मुनिः कश्यपो नाम । सत्सोर्वीषु योषासु पतिगतिमतिरदितिर्नष्टात्मतनयविभवानुनययुगमलपदयुगनया सा पतिमाह । यथा पठन्ति भागवताः –

    ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम

    यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।

    तथा विधेहि कल्याणं धिया कल्याणकृत्तम ।। इति

    तदोवाच कश्यपः भद्रे भद्रं काद्रवेयभोगाभोगिनं मुदा उपतिष्ठस्वेति । शिशिरे हि शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते पयोव्रताभिधं लोकेशगीतं लोकेशेशप्रतोषमिदमाचरेति । सा तदामलमानसा विमलमलयजवासितसुमनोमञ्जरीभिर्भद्रश्रीभिर्बिससन्निभमसृणपयोपृषद्भिरातोष्य कमलामहिलालिङ्गितवक्षसमक्षोभ्यं, अतार्प्सीद्ब्रहविदो ब्राह्मणान् । इत्थमियमहरहरमहेतिमन्ति द्वादशाहानि व्यत्यैत् । कालतश्चाविर्भूय कालातीतो भगवान्, अदितिकतिपयमहावाग्भिरभिष्टुतोम्भोजसम्भवेन च, डिम्भकृतिं मा मामनुष्वेह, वृन्दारकवृन्दमादुहे भूतिवारमित्यभाणीत् । विजयायाममलसंहननो वामनोभवत् । तदाह बादरायणः –

    द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।

    विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ।।

    स वामनरूपी, वामनः सन्मनसाममराणां उपनीतो धृतरथाङ्गाद्यङ्को जयन्नवनीलाजिनावृतः  कमण्डल्वमलिनो धृताक्षमालो नृनक्षाण्याजहार । स वेदिमायाय बलिनो बलिन आहृतोपशतक्रतोः,ततां, जितातिक्रमनृपमहतो, महीयानमहीयांसं त्रिपदं वरमाययाचे । महानुभावो बली कलितमहाविभूतिस्तं तृणायामनुत । याचितोनवरतं, अजस्रं याचयन्तं तं माणवकं वामनं मनस्तोषायानादृतहृदददात्त्रिपदं वरम् । अनुनयी बली, अनुपदमाक्रान्ताखिललोकमधस्तादुपरिष्ठाच्च, सानुयोगं तृतीयपदनिधाने, विज्ञातानुभावो भगवतो महतः, मां पदमवारुन्धीति सप्रश्रयमाशश्रौ । तदुक्तं भागवते पदं तृतीयं कुरु शीर्ष्णि मे निजम् इति । ततश्च प्रभूतावबोधं तं त्रिविक्रम आह – विभूतिनाशो हि सतामनुग्रहः । अतश्च त्वमधितिष्ठ सुतऴं यावतो हि सावर्ण्यागमः । एवं त्रिविक्रमस्तं पदं विभवा आहृत्यान्वग्राहीत् ।।

    वामनो वामनास्मत्सन्मानसं तामसं हरन् ।

    भूयात्त्रिविक्रमः श्रीमत्त्रयीविख्यातविक्रमः ।।

    श्रीकृष्णार्पणमस्तु

    टिपण्णी

    अष्टापदत्विण्मिषप्रकाशितास्यो  – अष्टापदमष्टसु लोहेषु पदं स्थानमस्येत्यष्टापदं सुवर्णम् जाम्बूनदमष्टापदोस्त्रियाम् इत्यमरः तन्मिषेण व्याजेन मिषं व्याजे स्पर्धने नेति मेदिनी इगुपधेति कः तेन प्रकाशितमास्यं वक्त्रं वक्त्रास्ये वदनं तुण्डमित्यमरः यस्यासौ तथोक्तः कश्यपः ।

    अनुश्रवः – गुरुमुखादनु  श्रूयते इत्यनुश्रवो वेदः ऋदोरबित्यप्

    व्रततिः – वल्ली तु व्रततिर्लता इति च

    सटा – व्रतिनस्तु सटा जटेत्यमरः

    अधृष्टा – शालीना अप्रगल्भा लज्जमानेति भावः

    नेता – नेता परिवृढः प्रभुरिति च

    पतिगतिमतिः- पतिरेव गतिरिति मतिर्मनीषा धीः प्रज्ञा शेमुषी मतिरित्यमरः यस्यासावदितिः

    अनुनययुगमलपदयुगनया – अनुनयो नम्रता तया युनक्तीति युक् सत्सू इत्यादिना क्विप् सा च अमलं पदयुगं यस्य सः हरिस्तस्मिन् नयो नम्रता यस्याः सा तथोक्ता ।

     काद्रवेयभोगाभोगिनम् – काद्रवेयः शेषाभिधो नागः काद्रवेयास्तधीश्वर इति च तस्मिन् भोगस्य आभोगः परिपूर्णता आभोगः परिपूर्णता इति च तादृशस्तथोक्तस्तं हरिम्   

    शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते – अत्यन्तं शीतलः शीतलतमः आतिशायने तमप् इत्यादिना तमप् तादृशो यो मधुरकिरणश्चन्द्रः किरणोस्त्रमयूखांशुरित्यमरः तेन स्यन्दितो यः शीकरः अम्बुकणः शीकरोम्बुकणःस्मृत इति च तच्च तदानन्दी च आमोदी तेन नन्दितो यः कुन्दकदम्बः कुन्दपुष्पनिकरः निकुरम्बं कदम्बकमित्यमरः तस्य य आमोदः सुखवासनं आमोदः सोतिनिर्हारीति च तेन नन्दिते शोभिते शिशिर इत्यन्वयः । अदिते इति सम्बुद्धिः ।

    उपतिष्ठस्व – उप पूर्वात् तिष्ठतेः लोट् उपान्मन्त्रकरणे इत्यात्मनेपदम् । मन्त्रकरणम् स्तवः  

    लोकेशगीतम् – लोकेशो ब्रह्मा हिरण्यगर्भो लोकेश इति च तेन गीतमभिहितम् ।

    लोकेशेशप्रतोषकम् – लोकेशेशो हरिः तत्प्रतोषकमानन्ददायि व्रतम् ।

     मलयजः – गन्धसारो मलयजः इति च

    मञ्जरी – वल्लरी मञ्जरीति च (ಹೂವಿನ ತೆನೆ) इति भाषायाम् ।

    भद्रश्रीभिः  – चन्दनेन भद्रश्रीश्चन्दनोस्त्रियाम्  इति च ।

    बिससन्निभमसृणपयोपृषद्भिः – विसं नलिनादुद्धृतं बिसं मृणालं बिसमब्जादिकदम्बे इति च तस्य तेन वा सन्निभानि तुल्यानि तुल्यार्थैः इत्यादिना विकल्पितत्वात् । यानि मसृणपयसां मृदुलपयसां पृषन्ति बिन्दूनि पृषन्ति बिन्दुपृषताः इति च ताभिः पयोबिन्दुभिरित्यर्थः

    अतार्प्सीत् – तृप प्राणने इत्यतो लुङि पुषादिद्युताद्लृदितः परस्मैपदेषु इति च्लेरङादेशः

    ईतयः –  उपद्रवाः

    व्यत्यैत् – वि पूर्वात् इण् गतौ इत्यतो लङ्

    डिम्भाकृतिं मा मनुष्वेह – डिम्भः अर्भकः पोतःपाकोर्भको डिम्भ इति च तदाकृतिं मा मां इहेदानीं मुनुष्व जनीहि मनुतेर्लोट् 
     वृन्दारकवृन्दमादुहे भूतिवारम् –
    देवनिकरं विभवसमूहतो वारसङ्घातसञ्चया इत्यमरः आनन्दयामि दुह्याजित्यादिना द्विकर्मकत्वम्

    संहननः – कायः

    द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।

    विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः

    तदर्थश्च यस्मिन्नहनि हरेर्जन्म अभवत् तदा सविता मध्यन्दिनगतो बभूव सा विजयेति कथ्यते ।

    वामनः- वामं वल्गु भद्रं नयतीति वामनः यथाह भगवत्पादो मध्वः वामन वामन भामन वन्दे इति तत्र च विश्वपतितीर्थीया वामं कल्याणमकल्याणं च सतामसताञ्च यथायोग्यं नयतीति तस्य सम्बुद्धिः । वामौ वल्गुप्रतीपौ द्वावित्यभिधानात् । न च वामन इत्यत एव तदर्थसिद्धेस्सन्मनसामिति व्यर्थमिति वाच्यम् । स च वैशिष्ट्यद्योतनार्थः यथा ब्राह्मणा आगता वसिष्ठोप्यागत इतिवत् । देवार्थमेव चास्य रूपस्य गृहीतत्वात् ।

    धृतरथाङ्गाद्यङ्को – रथाङ्गं चक्रं चक्रं रथाङ्गं तस्यान्ते इति च माणवकः मुद्राधारीत्यर्थः

     जयन्नवनीलाजिनावृतः – जयदुत्कर्षमापद्यन्नवनीलाजिनं तेनावृतः परिवृतः । अजिनस्य नीलत्वं च ऐणेयम्

    कमण्डल्वमलिनो – शुभ्रकरकः । कमण्डलौ च करकः इति च तेनामलिनः शुभ्रः

    नृनक्षाण्याजहार – दुह्याजिति द्विकर्मकत्वम्

    बलिनो बलिनः – पराक्रमवतो बलीन्द्रस्य सैन्यवतो वा वरूथिनी बलं सैन्येमित्यमरः ।शक्तिः पराक्रमः प्राणाविति च

    आहृतोपशतक्रतोः,ततां, –  आहृताः इष्टाः उपशतं क्रतवः येनासौ वली । शतोनक्रतुकर्ता इति भावः । ततामिति वेदिविशेषणम्

    जितातिक्रमनृपमहतो – जिताः अतिक्रमेण नृपाः येन बलिना स चासौ महान् च तस्य बलिन इत्यनेनान्वयः  

    महीयानमहीयांसं त्रिपदं वरमाययाचे – महीयानिति स इत्यतोन्वयः  तादृशो वामनः अमहीयांसं स्वतः परतश्च, द्विवचन इत्यादिना ईयसुन् तादृशं त्रिपदाभिधं वरं आययाचे याचितवान् दुह्याजिति द्विकर्मकता

    तृणायामनुत – तं वरं तृणाय मेने अनादरत्वेनाचिन्तयत् । मन्यकर्मण्यनादरे विभाषाप्राणिषु इति वैकल्पिकचतुर्थी । विकल्पाभावे द्वितीया यथा तृणममनुत

    अनवरतं – मुहुः

    अजस्रम् – पुनः पुनः । न च पुनरुक्तितादोषः । तत्रान्वयस्तु अनवरतं याचितो बली अजस्त्रं याचयन्तमददादिति

    सानुयोगम् – सप्रश्नं प्रशनोनुयोगः पृच्छा च इति च

    मां पदमवारुन्धीति  – पदा मां आवृणु । दुह्याजित्यादिना द्विकर्मकत्वम्  

    आशश्रौ –  आङः श्रा पाके इत्यतो लिटि रूपम् । ननु पाकार्थकस्य कथमिह प्रयोग इति चेत्तदुक्तं तत्वोधिन्यां श्रै धातोरनेकार्थतया पाके वृत्तस्य मित्वार्थेत्रानुवादः । इति (धातुरूपनन्दिनी पु.स.152,धा.स.810) । अनेकर्थत्वात् श्रा धातुरत्र विनम्रतायामुक्तः

    अवबोधः – ज्ञानम्

    सुतऴमधितिष्ठ – अधि शीङ्स्थीसामिति सुतऴशब्दस्य कर्मता

     सावर्ण्यागमः – तन्नामयुगागमनपर्यन्तम्

    तं पदं विभवा आहृत्यान्वग्राहीत् – तं बलिनं भूतिमाहृत्य अन्वग्राहीत् अनुपूर्वात् ग्रहेर्लुङ् । दुह्याजित्यादिना द्विकर्मकता ।

    श्लोकार्थश्च – वामनः अस्मद्वामनं यत्सन्मनः खर्वो हृस्वश्च वामनः इति च तस्य तामसं मलिनं हरन् दुह्याजित्यादिना द्विकर्मकत्वं । श्रीमत्त्रयीविख्यातविक्रमः श्रीमान् चासौ वेदविख्यातविक्रमः तिसृभिरवस्थाभिः सृष्टिस्थितसंहाररूपाभिः विख्यातविक्रमो वा तादृशः त्रिविक्रमो भूयात् ।।   

    श्रीकृष्णाेर्पणमस्तु

  • प्रिय संस्कृतबन्धो,

    संस्कृतेन संभाषणं दिनं दिनं अस्माकं यशोवर्धनम् ।

    किल विद्यालयविजयलाञ्छनं गुरुचरणानामेतदञ्चनम् ।।

    मन्ये नैतदविदितं भवतां संस्कृतं अस्माकं देशभाषाणां मातृरूपेण विराजते इति । अस्माकं देशे बहूनि राज्यानि सन्ति यत्र विभिन्नाः भाषाः प्रोच्यन्ते । उत्तरे देशे हिनदीं तद्विकाराः भाषाः विद्यन्ते । दक्षिणे तेलुगु, तमिल् , कन्नड, मळयाळम् इत्यादयः भाषाः प्रोच्यन्ते । पश्चिमे देशे कोङ्कणि, तुलु, मराठी भाषाः व्याप्रियन्ते । पूर्वस्मिन् देशे बाङ्ग्ला, ओरिया इत्यादिभाषाः विराजन्ते । एवं सतीष्वपि नैकासु भाषासु प्राचीनाखण्डभारते औत्तरात्येन दाक्षिणात्यैः सह व्यवहारे काठिन्यं नैव अनुभूयते स्म । तद् कस्य हेतोः इत्युक्ते सर्वेसां भाषाणां मातृरूपेण विराजते स्म संस्कृतभाषा । स्वासु स्वासु भाषासु अभिमानवन्तोपि नागरिकाः विदेशीयैः सह व्यवहारकरणे संस्कृतं व्याहरन्ति स्म । अधुना तत् स्थानं आग्लभाषया अपहृतम् वर्तते । इदनां स कालः आगतः यस्मिन् सर्वे संस्कृताभिमानिनः पुनः देशभाषामूर्धन्यस्थाने संस्कृतं भाषां अभिषिञ्चेयुः । अस्मिन् प्रसङ्गे आत्माश्रमेण षाण्मासिकः संस्कृतप्रसिक्षणवर्गः प्रचालयिष्यते इति नितरां मोमुद्यते मे मनः । सर्वेपि संस्कृताभीप्सवः अस्मिन् वर्गे प्रविश्य धन्याः भवन्ति इति प्रार्थये ।

    गणे पञ्जीकरणाय इमां कुञ्चिकां नुदन्तु … https://chat.whatsapp.com/FNydjI8AslEIcq2RwWg6uN

    धन्यवादाः