श्रीजयतीर्थगुरुभ्यो नमः

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
श्रीजयतीर्थगुरुभ्यो नमः

गोपीसङ्गीतभङ्गीमधुरितमधुरस्वात्महृत्सङ्गिचोरः
श्रृङ्गारापाङ्गवीक्षोत्किरदमरमनोमोहिनीकान्तिकान्तः ।
सोत्तुङ्गाङ्गस्थरम्यस्वधरसृतसुधावातरेणुस्ववेणुः
स्पर्धल्लक्ष्मीस्वमालः कलयतु धिषणां गोपलीलः सुबालः ।।
श्रीकृष्णपादरजसा परिपावितायां द्वारावतीपुरि विचन्द्रवने समुद्रः ।
तद्रम्यकाम्यदमुखाम्बुजदर्शनेन तत्सङ्गवर्धिततरङ्गनिजाङ्गकोऽभूत् ।।
भ्राजद्गोकुलवल्लवे तदबलावृन्दस्मिते मन्दिरे
वल्लीफुल्लसुमल्लिकाकलितसद्दोलासुलोलस्य ते ।
आस्यस्यन्दिसुधाम्बुचुम्बितनिषादादिस्वरां त्वन्मुखात्
गोपस्वापदवेणुनादलहरीं श्रोष्यामि कस्मिन् युगे ।।
सदा सदागतिस्तुतं वने वनेचराकृतिं
सुरासुरार्तिजन्मदं कलौ कलौकसं प्रभुम् ।
समन्युमन्युखण्डिनं रमारमत्स्ववक्षसं
मुदा मुदाकृतिं समानमामि गोपगोपतिम् ।।
वन्दे कुन्देन्दुलक्ष्मीहरमधुरसुमन्दस्मितं वन्दिदेश-
न्देवं गोपीभुजोरुव्रततिपरिवृतं सेन्दिरावन्दिताङ्घ्रिम् ।
कृष्टाघं पादयुग्मप्रणिहितमनसां कम्बुकण्ठं समाकृ
ष्णं श्रीजिष्वीशनाथं वृकजठरनुतं रुग्मिणीलालिताङ्घ्रिम् ।।
संसारकाननगता निखिलाघजालग्रस्ताः सहस्रकिरणांशुसुपीडिताश्च ।
अद्य स्वगौररुचिकृष्णहिमांशुजातज्योत्स्नाकरम्भजठरम्भरश्चकोराः ।। (स्वकीयाः श्लोकाः – अन्तरात्मा राचूरि)
श्रीजयतीर्थगुरुभ्यो नमः

बन्धीकृता इन्द्रमुखामराः श्रीर्दितिप्रजागन्धमहेन चेति ।
भुवङ्गता सत्कविमेरुमूर्धविराजिता नापि निवर्ततेधुना ।
जृम्भद्भास्वरशब्दवारशुभगर्भोद्भूतसुस्पष्ट-
सच्छब्दार्थायुगमन्दबोधरसनासीमासमाभासना ।
सन्मेरूत्तमतुङ्गमङ्गलमहामूर्धोल्लसत्पिङ्गला-
नङ्गाशङ्कितसत्किरीटविमला राराज्यते देवगीः ।।
श्रीकृष्णार्पणमस्तु

चञ्चलभुजहस्तन्यस्तविपक्षदक्षदमनोद्भासिगदाविपुलविहृतिभयस्विन्ननिजदुर्बलाङ्गः दृष्टपितामहाचार्यानुजराजविपत्तिः तप्ता आम्बिकेयतोकः ।
अचाल्यवीर्यः सचतुर्दशेऽहनि प्रचूर्णसक्थ्यस्थिरभूद्यदङ्गतः ।
अयं जरासन्धबलार्धभाग्भवन् मूहूर्तकेनेन निपात्यतेऽत्र ।।१।।
यदङ्गसङ्गादपि शैशवेऽस्य शतं विभक्तो गुरुसानुरद्रिः ।
तेनैव वैरं परिवर्धयित्वा नूनं धरयां पतति प्रणष्टः ।।२।।
वनेचरो वन्यपलादहिस्रो दोर्दण्डसङ्खण्डितचण्डदैत्यः ।
जायापमानोत्थकृधा समेत्यं नूनं पिनष्टीश्वरमाजिमुख्ये ।।३।।
सेनाचरो गोगणनामिषेण सस्त्रीस्वमित्रो विगतस्वराज्यान् ।
पार्थान् सकृष्णानवतप्यमानान् पुनः पुनस्तापयितुं खलोऽसौ ।।४।।
तदेतगन्धर्ववधूसुकामुको ज्ञातो तदीयै परिनीयमानः ।
हा तात भीमार्जुन पाहि मां त्वद्भ्रातॄन् इति रोदिति स्म ।।५।।
ज्येष्ठाज्ञया मारुतिराप्य देवसद्गायकान् स्वीयबलेन जित्वा ।
मृत्योरपात्तद्दिवसेऽद्य मूढस्तज्ज्येष्ठसिंहं कथमाहते सः ।। ६।।
अथ यदा स्वकण्ठध्वनिविघटितसेनापकुरुपहृदः समरविजयप्रमोदनिर्भरस्य अतिरभस-गदाघातनिपातितसकलशस्त्रास्त्रपारङ्गतस्य सत्वातटस्य अपाङ्गभङ्गनिष्पिष्टसत्वराशेः विजितकपर्दिदर्पककपर्दिनः कुरुजमुख्यभ्रातृगणसंहारगलच्छोणितोक्षितशरीरस्य किर्मीर-बकहिडिम्बसकलराजभयानकस्य गदया नूनमयं प्रमत्तः गदाघातकरम्भमुदरम्भरिः धरामाश्लिषते ।
।।श्रीः।।
श्रीलक्ष्मीवेङ्कटेशाय नमः । श्रीमदानन्दतीर्थभगवत्पादाचार्यगुरुभ्यो नमः
श्रीजयतीर्थगुरुभ्यो नमः
श्रीगणेशाय नमः
साङ्ख्यकारिकाव्याख्यायां साङ्ख्यतत्त्वकौमुद्यां सत्कार्यवादनिरूपणम्

प्रणम्य गुरुपादाब्जं स्तुत्वा नारायणं प्रभुम् ।
सत्कार्यवादस्य मया क्रियते प्रतिपादनम् ।।
इह खलु सकलप्राणिनां त्रिविधदुःखनिरसनपूर्वकं शाश्वतसुखावाप्तेः हेतुभूतं कमपि उपायं मार्गयित्वा याज्ञिकहिंसा अनभ्युपायमिति मत्वा तत्र भवान् ईश्वरकृष्णः तद्विपरीतः श्रेयान् (सा.का 2) इत्युक्तदिशा प्रशस्ययोः१आनुश्रविकवेदसत्वपुरुषान्यतासाक्षात्कारयोर्मध्ये सत्वपुरुषान्यतासाक्षात्कारं श्रेयःसाधनमिति प्रतिपाद्य शास्त्रमारेभे । श्रोतृधीसमवधानाय साङ्ख्यतत्त्वानां सङ्क्षेपेण प्रतिपादनं व्यधात् । तमर्थं प्रामाणिकं कर्तुं प्रमाणसामान्यलक्षणं प्रतिपाद्य प्रत्यक्ष-अनुमान-आप्तश्रुतिरूपप्रमाणानां लक्षणं लक्षणविषयकातिरिक्त-प्रमाणविषयकपूर्वपक्षनिरसनपूर्वकं निरूप्य प्रत्यक्षलक्षणावयवार्थं निरूप्य प्रधानस्य सौक्ष्म्यात् अनुपलब्धित्वं कार्यानुमेयत्वं च निरूप्य तत्कार्यं निरूपितम् । अत्र कार्यकारणसम्बन्धे वादिनां बहवो विप्रतिपत्तयः सन्ति । केचित् नैयायिकादयः असतः सज्जायते इत्याहुः । एकस्य सतो विवर्तः कार्यजातं न वस्तु सत् इति वेदान्तिनः । अन्ये सतः असज्जायते इति । किन्तु सतः सदेव जायते इति साङ्ख्या आहुः । तथाहि तत्र साङ्ख्यकारिका-
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्यस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ।।सां.का.९।।
सत् कार्यं भवति । कुतः ? १. असदकरणात् २. उपादानग्रहणात् ३.सर्वसम्भवाभावात् ४.शक्यस्य शक्यकरणात् ५.कारणभावाच्च । अस्यां कारिकायां सत् कार्यमित्यस्य कारणव्यापारात् प्रागपि कार्यं सदेव भवतीत्यर्थः । अतः असतः सज्जायते इति नैयायिकानामेव मतस्येदं पुनःप्रतिपादनम् इति सिद्धसाधनतारूपदोषः न सम्भवति । पूर्वमेव युक्तिभिः सिद्धस्य प्रमेयस्य पुनः साधनं हि सिद्धसाधनता । अत्र तु प्रागसिद्धस्य सतः कार्यस्य प्रतिपादनात् न सिद्धसाधनतावकाशः ।
| (बौद्धिमतनिरासः) |
तत्र प्रथमं तावत् असदकरणात् इत्यनेन हेतुना असतः सज्जायते इति मन्वानान् बौद्धान् निराकरोति । तन्निराकरणप्रकारश्च वाचस्पतिमिश्रेण स्वीयन्यायवार्तिकतात्पर्यटीकायां सविस्तरं उपपादितः । तदत्र विस्तरभयात् नानूद्यते किन्तु सङ्ग्रहेण तन्निरसनप्रकारः अनूद्यते । तत्र बौद्धाः वदन्ति – सर्वेषां कार्यांणां कश्चन प्रध्वंस एव कारणम् । यथा अङ्कुररूपकार्यस्य बीजध्वंसः एव कारणम् । अतः असतः (प्रध्वंसात्) सत् कार्यमुत्पद्यते इति ।
तन्न । सर्वत्र यद्यपि बीजप्रध्वंसानन्तरम् अङ्कुरस्य उत्पत्तिरुपलभ्यते । मृत्पिण्डप्रध्वंसानन्तरं घटस्योत्पत्तिरपि । तथाऽपि तत्र प्रध्वंसस्य कारणत्वं न सम्भवति । किन्तु भावस्यैव इत्युक्तौ सत एव बीजादेः कारणत्वम् । अभावात् भावस्योत्पत्तिरित्यङ्गीकारे कारणाभावस्थलेपि सर्वत्र सर्वदा सर्वकार्योत्पत्तिप्रसङ्गः। तथा हि – कारणाभावसिद्धिः ऊषरादिष्वपि सुलभैव अस्ति । तस्मात् ऊषरे अङ्कुरोत्पत्तिप्रसङ्गः स्यात् । एवमेव आकाशे पुष्पोत्त्पत्तिप्रसङ्गः स्यात् । कारणविनाशस्य सर्वत्रापि सद्भावात् शालीबीजात् एव शाल्यङ्कुरो जायते न यवबीजात् इत्यत्र किं नियामकम् ? यतः शालीबीजनाशः यवबीजनाशेन समानः । अतः एतद्विज्ञायते यत् तत्तत्कारणे भिन्नभिन्नशक्तिविशेषः अस्ति यस्मात् भिन्नभिन्नं कार्यमुत्पद्यते । सा विशिष्टशक्तिः भावकारणस्यैव धर्मः नत्वभावकारणस्य इति न असतः कारणत्वं इति पक्षः युक्तः ।।
(अद्वैतमतनिरासः)
साम्प्रतमद्वैतसिद्धान्तः निरस्स्यते । विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् इत्यनुमानेन अस्य प्रपञ्चस्य मिथ्यात्वं साधयन्ति अद्वैतिनः । तन्न युक्तम् । कुत इति चेत् – शुक्तौ इदं रजतमिति ज्ञानं तावत् इन्द्रियदोषेण जायते । किन्तु असदेव रजतमिदं प्रत्यभात् इति बाधोत्तरकालं रजतस्य असत्वानुभवः भवति । तथा च भ्रमकाले प्रतीतं रजतं मिथ्या इति वक्तुं शक्यते । परं प्रतीयमानस्य शब्दादिप्रपञ्चप्रत्ययस्य प्रबलप्रमाणभूतस्य बाधः नोपलभ्यते इति कृत्वा बाधाभाववतः जगतः मिथ्यात्वं कथितुं नैव शक्यते । अतः विश्वं मिथ्या इति अद्वैतमतं अनुपपन्नमेव ।
(न्यायमतनिरासः)
| असदकरणादित्यनेन हेतुना न्यायमतनिरासः |
एवं वेदान्तिमतं निरस्य अवशिष्टं कणादादक्षपादप्रवर्तितं वैशेषिकन्यायमतं निरस्यते । जगति तावत् कारणेन कार्यं जायते इति प्रसिद्धम् । अनेन सर्वकार्याणां कारणपूर्वकत्वमवगम्यते । यथा मृद्रूपकारणेन घटरूपकार्यम् उत्पद्यते । यद्यपि सतः मृदादेः घटरूपकार्यं जायते इति कारणं तावत्सदेव इति सर्वैरङ्गीक्रियते । तत्र नास्ति कस्यापि विप्रतिपत्तिः । तथा कारणव्यापारानन्तरमपि, इत्युक्तौ दण्डभ्रमणरूपकरणव्यापारानन्तरमपि, कार्यं सदेव इत्यत्रापि नास्ति सन्देहगन्धोऽपि । किन्तु उत्पत्तेः पूर्वं घटरूपं कार्यं सद्वा असद्वा इति विषये तु अस्ति महती विप्रतिपत्तिः । अत्र उत्पत्तेः पूर्वं इत्यस्य कारणव्यापारात्पूर्वमित्यर्थः । तत्र तावत् नैयायिकाः कार्यस्य उत्पत्तेः पूर्वं कार्यमसदेव इति मन्यन्ते । यथा असन् घटः इति प्रतीत्या घटस्योत्पत्तेः प्राक् असत्त्वं विज्ञायते ।
तत्र तन्मते दोषान् दृष्ट्वा तन्मतमपाकृत्य साङ्ख्यमतरीत्या निर्दुष्टसिद्धान्तप्रतिपादनार्थम् अत्र असदकरणात् इति कारिकायां “सत् कार्यं” इति ग्रन्थकारेण ईश्वरकृष्णेन प्रतिज्ञातम् । तस्यार्थस्तु कार्यं सदेव, इत्युक्तौ कारणव्यापारत् पूर्वमपि सदेव इत्यर्थः । न तु केवलं कारणव्यापारानन्तरम् । कारणव्यापारात् पूर्वं कार्यम् असद्भवति चेत् अस्य सत्त्वं कर्तुं केनापि न शक्यम् । यथा स्वभावतः नीलवर्णं सहस्रशिल्पिभिरपि पीतवर्णकं कर्तुं न शक्यते । तथा च कार्यं सत् असदकरणात्, यदसत् तदकरणं, यथा शशश्रृङ्गम् इत्यनुमानमुक्तं भवति । अत्र अकरणमित्यत्र न करणम् अकरणम् इति विग्रहः । करणमित्यस्य उत्पत्तिः इत्यर्थः । तथा च असतः अकरणमित्यस्य असतः उत्पत्तेरभावः । तस्मात् असतः उत्पत्त्यभावादित्यर्थः । अस्मिन् अनुमाने कार्यं पक्षः। सत्वं साध्यम् । असतः उत्पत्त्यभावः हेतुः । यद्यप्ययं व्यधिकरणः । असतः उत्पत्यभावः पक्षीभूते कार्ये न वर्तते । सः असतः उत्पत्त्यभावः इति हेतुकथने कार्ये तस्यासत्वात् कथं तस्य पक्षधर्मता इक्याकाङ्क्षायां उत्पत्त्यभावः कार्ये स्वप्रतियोगिनिरूपिताश्रयतासम्बन्धेन वर्तते । स्वम् अभावः तस्य प्रतियोगी उत्पत्तिः तदाश्रयः कार्यम् । तत्वसम्बन्धेन हेतुभूतः असतः उत्पत्त्यभावः पक्षीभूते कार्ये वर्तते इति पक्षधर्मता सिद्ध्यति । असतः उत्पत्त्यभावरूपहेतुः दृष्टान्ते शशशृङ्गे अस्तीति समन्वयः । अनेन अयमर्थः फलति – यच्च करणकं तत् सत् यथा घटः । शशविषाणतुल्यात् असतः कारणात् सतः कार्यस्य उत्पत्तेः असम्भवात् कारणमसत् न भवितुमर्हति । कारणव्यापारात् पूर्वं कार्यम् असद्भवति चेत् अस्य सत्त्वं कर्तुं केनापि न शक्यम् । यथा स्वभावतः नीलवर्णं सहस्रशिल्पिभिरपि पीतवर्णकं कर्तुं न शक्यते । अतः कार्यं असाधारणकारणव्यापारात् पूर्वमपि सदेव ।।
| (पूर्वपक्षः) |
नैयायिका एवं मन्यन्ते – कार्यस्य असत्त्वं शशविषाणवदत्यन्तासत् न अपितु यथा पाकात् पूर्वं घटस्य श्यामता पाकानन्तरं तस्य रक्तता अनुभूयमाना अस्ति। तद्वदेव घटे असत्त्वं श्यामतातुल्यं सत्वं रक्ततातुल्यं च अस्ति । सत्वम् असत्वं च विकाररूपं यत्कार्यं तस्य धर्मावेव । यदि इमे विकाररूपकार्यमात्रस्य इत्युक्ते मृद्विकारभूतघटस्य धर्मौ इति नाङ्गीक्रियेते तर्हि सन् घटः असन् घटः इति व्यवहारः न स्यात् । सत्वस्य तथा असत्वस्य स्वकारणाधीना उत्पत्तिः भवति इति कृत्वा तौ सत्वासत्वधर्मौ कादाचित्कौ एव शशविषाणवत् सर्वदा असती न इत्यस्माकमभिप्रायः इति ।
(सिद्धान्तः)
सदसत्वे असतः घटस्य धर्मौ इति यदुक्तं तच्चिन्त्यम् । घटः असन् इत्युक्ते असति घटे सदसद्धर्मौ न भवतः । धर्मिणः एव असत्वात् । अतः असति धर्मिणि सत्वासत्वरूपौ धर्मौ न स्तः । असन् घटः इत्यत्र घटस्य तदैव धर्मेण सह सम्बन्धः कथितुं शक्यते यदैव असत्वाख्यः धर्मः घटे वर्तते अथवा घटः असद्रूपः भवति। नीलं कमलमित्यत्र नीलगुणरूपधर्माश्रयः कमलमिति बोधः जायते । किन्तु असन् घटः इत्यत्र असत्वरूपधर्माश्रयो घटः इति बोधः भवति किन्तु तथा कथितुं न शक्यते । यतः कमलेन सह यथा नीलस्य सम्बन्धः अस्ति तथा अविद्यमानेन घटेन सह असत्त्वरूपधर्मस्य सम्बन्धः नास्ति । अतः कारणव्यापारत्पूर्वं घटः असन् इति कथितुं न शक्यते । तस्मात् यथा असाधारणकारणानन्तरं कार्यं सत् तथैव कारणव्यापारात्पूर्वमपि कार्यं सदेव ।
| अभिव्यक्तिः |
ननु यदि कारणव्यापारात् पूर्वमपि कार्यं सदेव भवति तर्हि कुतः कारणव्यापारः । यथा यन्त्रमर्दनव्यापारात्पूर्वमेव तिलेषु तैलस्य सद्भावात् कुतः यन्त्रव्यापारः । एवमेव गोदाहोत् पूर्वमपि क्षीरस्य सद्भावात् कुतः गोदोहः करणीयः इति आशङ्कायां सतः अभिव्यक्तिः अर्थात् आविर्भावः अवशिष्यते । यदि कार्यं सदित्यङ्गीक्रियते तर्हि अस्य अभिव्यक्तिः उपपद्यते । यथा तिलस्य मर्दनेन तैलस्य अभिव्यक्तिरुत्पद्यते । धान्यानां कुट्टनेन तण्डुलस्य अभिव्यक्तिर्भवति । गोदोहेन गवि क्षीरस्याभिव्यक्तिः उपपद्यते ।
एवं नैयायिकवैशेषिकान् असदकरणदादिति हेतुना निरस्य साम्प्रतं कार्यं सदित्यत्र द्वितीयं हेतुं वदति उपादानग्रहणादिति –
| उपादानग्रहणात् इति द्वितीयो हेतुः |
उपादीयते अनेन इति उपादानं४ कारणम् । उपादानस्य ग्रहणम् उपादानग्रहणम् । तस्मात् । उपादानैः कारणैः कार्यस्य यस्मात् सम्बन्धः वर्तते तस्मात् कार्यं सत् इत्यर्थः। कार्येण सह सम्बद्धं कारणं कार्यस्य जनकं भवति । यथा घटरूपेण कार्येण सह सम्बन्धवत् मृद्रूपं कारणं घटरूपकार्यस्य जनकं भवति । तादृशकारणसम्बन्धः असतः कार्यस्य न सम्भवति । यथा मृद्रूपकारणेन सह पटरूपकार्यस्य सम्बन्धो नास्ति । अतः मृदादयः उपादानकारणत्वात् स्वसम्बद्धस्यैव कार्यस्य जनकाः न त्वसतः असम्बद्धस्य शशविषाणादेः जनकाः इति सत् कार्यम् ।
अत्र कार्येण सम्बद्धमेव कारणं कार्यस्य जनकमिति कथितम् । किन्तु कारणेन असम्बद्धमेव कार्यं कुतो न जन्यते ? इत्याशङ्कायां एवं विवक्षणे असदेव कार्यमुत्पत्स्यते । यदि असम्बद्धमेव कार्यं जन्यते तर्हि मृद्रूपकारणात् पटरूपकार्योत्पत्तिप्रसङ्गः । एवं सर्वकारणात् सर्वकार्योत्पत्तिः नास्तीति कृत्वा कारणेन असम्बद्धं कार्यं कार्यासम्बद्धेन कारणेन जन्यते । सम्बद्धमेव कारयं सम्बद्धेन कारणेन जन्यते । यथाहुः –
असत्वे नास्ति सम्बन्धो कारणैः सत्वसङ्गिभिः ।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ।।। इति
सत्वसम्बद्धैः कारणैः असत्वे सम्बन्धः नास्ति । कारणासम्बद्धस्य कार्यस्य सृष्टिमिच्छतः जनस्य क्षीरात् जलोत्पत्तिप्रसङ्गः अङ्गीकर्तव्यः भवति । इति ।।
| शक्यस्य शक्यकरणात् |
साम्प्रतं शक्यस्य शक्यकरणात् सत् कार्यमिति कथयति। ननु शक्तं असम्बद्धमपि कार्यमुत्पादयति । कारणव्यापारात्पूर्वमपि असतः एव कार्यस्य शक्तेर्भेदात् उत्पत्तिः भवति । अत्र मृदः एव घटः जायते इत्यत्र कारणे शक्तिरस्ति इत्यत्र किं प्रमाणमित्युक्ते – सा शक्तिः कार्यानुमेया भवति इत्युक्ते कार्यं दृष्ट्वा शक्तिः अनुमीयते । यथा मृदः एव घटरूपकार्यं जायते नान्येन इत्यत्र मृदः एव घटरूपकार्यजनने कारणनिष्ठा काचिच्छक्तिः अस्तीत्यनुमानेन ज्ञायते। अनुमानप्रकारश्च – कपालः घटोत्पादकशक्तिमान् घटजनकत्वात् इति । एवं शक्तिमतः कारणस्य अङ्गीकारे सर्वस्मात् सर्वोत्पत्तिरूपाव्यवस्था न भवति इति नैयायिकाः आक्षिपन्ति ।
नैयायिकानामेवमुक्तस्य खण्डनार्थं ग्रन्थकारः शक्तस्य शक्यकरणादित्याह । कारणगता शक्तिः सर्वकारणेष्वस्ति वा उत शक्ये एव वा ? यदि सर्वत्र वर्तर्ते इत्यङ्गीक्रियते तर्हि मृद्रूपकारणे पटाद्युत्पत्तिप्रसङ्गः इत्यव्यवस्था स्यात् । यदि शक्तिः शक्ये अस्तीति कथ्यते तर्हि असति शक्ये कथं सद्रूपायाः शक्तेः सम्बन्धः कथं वक्तुं शक्यते ? असति सतः सम्बन्धः वक्तुं न शक्यते । अत्र नैयायिकः वदति – सा शक्तिः सर्वत्र वर्तते । तेन सर्वेषां कार्याणां उत्पत्तिः एकस्मात् कारणात् एव भवतीति न मन्तव्यम् । अपितु शक्तिविशेषः कश्चिदस्ति, कस्यचित् कारणविशेषात् एक एव कार्यविशेषः उत्पद्यते न सर्वकार्याणि उत्पद्यन्ते । अतः मृद एव घटः तन्तोरेव घटःइतीयं व्यवस्था असत्कार्यवादिनामुपपन्ना एव इति चेत्, हन्त भोः! कारणगतः शक्तिविशेषः कार्येण सम्बद्धो वा असम्बद्धो वा । यदि शक्तिविशेषः सम्बद्धः तर्हि असता सम्बन्धः न घटते । असम्बद्धश्चेत् पुनः मृदः घटोत्पत्तिप्रसङ्गः स्यादिति कार्यं सदेव इति सिद्धम् ।
एवं ग्रन्थकारः असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणादित्यनेन पूर्वपक्षनिरासपूर्वकं असाधारणकारण-व्यापारात्पूर्वमपि कार्यं सदेव इति निरूप्य साम्प्रतं सिद्धान्तं कारणभावाच्च इति हेतुना कथयति । कार्यं उत्पत्तेः प्रागपि सत् कारणात्मकत्वात् । कारणात्मकत्वं नाम कार्यस्य कारणादभिन्नत्वम् । कारणं तु सदेव । तर्हि कारणादभिन्नं कार्यं कथमसत् भवति ? अतः कार्यं सदेव ।
ननु कार्यस्य कारणाभेदे किं प्रमाणम् ? अत्र कारणभावात् इति हेतुः पक्षे नास्ति इति स्वूरपास्धिः अस्ति इत्युक्ते तत्र कार्यस्य कारणाभेदसाधनानि प्रमाणानि उक्तानि –
(१) पटस्तन्तुभ्यो न भिद्यते तन्तुधर्मत्वात्, यत् यतो भिद्यते तत् स्य धर्मो न भवति, यथा गौरश्वस्य, न चायं तथा, तस्मान्न तथा इति प्रथममनुमानम् । अत्र पटः पक्षः । तन्तुभेदाभावः साध्यम् । तन्तुधर्मत्वं हेतुः । यत् गौः यतः अश्वात् भिद्यते भिन्नः भवति तत् गौः तस्य अश्वस्य धर्मः न भवति । अत्र व्यतिरेकव्याप्तिः । यत्र तन्तुधर्मत्वाभावः तत्र तन्तुभेदाभावः । न चायं तथा पटः तन्तुभेदव्यापकः, तन्तुधर्मत्वाभववान् न, तन्तुधर्मत्ववानेव तस्मान्न तथा तस्मात् तन्तुधर्मत्वाभावाभावात् न तथा न तन्तुभिन्नः इति प्रथममनुमानम् ।
(२) तन्तुः तन्तुपटौ न अर्थान्तरौ (भिन्नपदार्थौ न) उपादानोपादेयभावात् (कार्यकारणभाववत्वात्) ययोरर्थान्तरत्वं तयोरुपादानोपादेयभावो न यथा घटपटयोः । इमौ तन्तुपटौ उपादानोपादेयभावाभाववन्तौ न तस्मात् उपादानोपादेयभावाभावाभाववत्त्वात् न अन्थान्तरत्वम् इति द्वितीयानुमानम् ।
(३) तन्तुपटौ उपादानोपादेयभावाभावाभववन्तौ न संयोगाप्राप्त्यभावात्, यत् कुण्डं यस्मात् बदरात् भिद्यते भिन्नो भवति तस्मात् कुण्डबदरौ अर्थान्तरौ । अथवा यत् हिमवात् यस्मात् विन्ध्यात् भिद्ध्यते तस्मात् तौ अर्थान्तरौ । तन्तुपटयोः संयोगो वा अप्राप्तिर्वा नास्ति, अतः इमौ नार्थान्तरौ । अथ पटः तन्तुभ्यो कथं न भिद्यते इति चेत् –
(४) पटः तन्तुभ्यो न भिद्यते गुरुत्वान्तरकार्याग्रहणात् यत् यस्मात् भिन्नं तत् तस्मात् तस्य गुरुत्वान्तरं कार्यं गृह्यते । अत्र पटः पक्षः, तन्त्वभेदः साध्यम्, गुरुत्वान्तरकार्याग्रणं हेतुः इत्युक्ते अन्यत् गुरुत्वं गुरुत्वान्तरम्, तस्य यत्कार्यम् अधिकतुलोन्नमनं तस्य अग्रहणात् अदर्शनात् इत्यर्थः । यत् तुलायामेकपार्श्वे विद्यमानम् एकपलात्मकं२ ग्रैवेयकं यस्मात् अन्यपार्श्वे स्थापितात् विंशतिपलात्मकग्रैवेयकात् भिन्नं तस्मात् विंशतिपलात्मकग्रैवेयात् तस्य एकपलात्मकं ग्रैवेयकं तत् गुरुत्वावान्तररूपं कार्यं गृह्यते । ननुअत्र गुरुत्वान्तराग्रहणात् इति कथनं विहाय गुरुत्वान्तरारपकार्यग्रहणमिति कार्यपदं कुतः निवेशितम्? इति प्रश्ने गुरुत्वान्तरस्य ग्रहणं नाम गुरुत्वान्तरस्य प्रत्यक्षः साक्षात्कारः इत्यर्थः ।
गुरुत्वान्तरस्य प्रत्यक्षेण अग्राह्यत्वात् गुरुत्वान्तरग्रहणमिति कथितुं न शक्यते । किन्तु कथं गुरुत्वान्तरस्य अस्तित्वं विज्ञायेत इति चेत् गुरुत्वान्तरस्य अवनतिरूपेण कार्येण गुरुत्वान्तरमनुमीयते । अत्र गुरुत्वान्तरस्य कार्यं प्रत्यक्षम् । तथाच गुरुत्वान्तरं कार्यानुमेयम् अप्रत्यक्षत्वे सति अवनतिकारणत्वात् । अतः गुरुत्वान्तरकार्यस्यैव ग्रहणं भवतीति गुरुत्वान्तरकार्यग्रहणमित्युक्तम् । तुलादण्डस्य उन्नमनावनमनाभावेन परिमाणपरिमेययोः समानता सूचिता भवति । यदा तु परिमाणनिष्ठगुरुत्वापेक्षया परिमेयगरुत्वस्याधिक्यं भवति । तदा परिमेयद्रव्यनिष्ठगुरुत्वस्य अवनतिरूपकार्यविशेषेण तुलादण्डः अधिकमवनमति । यदि पटः तन्तुभ्यः भिन्नः तर्हि तन्तुनिष्ठगुरुत्वकार्ययापेक्षया पटनिष्ठगुरुत्वस्य अवनतिरूपकार्यविशेषः दृश्यते । प्रकृते तुलादण्डे पटतन्तुनिवेशे अवनतिरूकार्यविशेषः न दृष्यते इति इमौ पदार्थौ न अर्थान्तराविति ज्ञायते । इत्येतानि कार्यकारणाभेदसाधकानि अवीतानुमानानि ।
एवं कार्यकारणोरभेदः अनुमानेन सिद्धः । अत्र पुनः नैयायिकाः कथयन्ति – उपर्युक्ताभेदसाधकानुमाने सत्प्रतिपक्षरूपदोषं वदन्ति साध्याभावसाधकं हेत्वरन्तरं यस्य विद्यते स सत्प्रतिपक्षः ।
(विशेषः -प्रकृतानुमितिप्रतिबन्धकानुमितिजनकज्ञानविषयत्वं सत्प्रतिपक्षदोषलक्षणम् । पटस्तन्तुभ्यो न भिद्यते तन्तुधर्मत्वात्, यत् यतो भिद्यते तत् स्य धर्मो न भवति, यथा गौरश्वस्य, न चायं तथा, तस्मान्न तथा इति अनुमाने प्रकृतानुमितिः पटः तन्तुभेदाभाववानित्यनुमितिः, तस्य प्रतिबन्धिकः या अनुमिति पटः तन्तुभेदाभावाभाववानिति अनुमितिः , तज्जनकं यज्ज्ञानं पटः तन्तुभेदाभावाभाववानिति अनुमित्यात्मकं ज्ञानम् । तद्विषयः तदीयोत्प्रत्याख्यक्रियाभेदः हेतुः तद्विषयत्वम् – तीयोत्पत्त्याख्यक्रेयाभेदे इति हेतुः सत्प्रतिपक्षदोषदुष्टः। )
पञ्चानुमानानां सत्प्रतिपक्षरूपदोषः उक्तः भवति । तद्यथा
पटः तन्तुभिन्नः तदीयोत्पत्त्याख्यक्रियाभेदात् इति प्रथमानुमाने, पटः तन्तुभिन्नः तदीयविनाशात्मक-निरोधभेदात् इति द्वितीयानुमाने, पटः तन्तुभिन्नः अयं पटः इति बुद्धिभेदात्, पटः तन्तुभिन्नः पट इति व्यपदेशभेदात्, पटः तन्तुभिन्नः प्रावरणाद्यात्मार्थकक्रियाभेदात् (पटस्य कार्यं तन्तुः कर्तुं न शक्नोति इति अर्थभेदः, तन्तुः आवरणयोग्यः न भवति) । इति सत्प्रतिपक्षः ।
पटात्मकतन्तौ क्रियाभेद-निरोधभेद-बुद्धिभेदव्यपदेशभेद-अर्थप्रियाभेदाः औपाधिकभेदाः (नैमित्तिकभेदा) ऐकान्तिकं स्वाभाविकं भेदं साधयितुं नार्हन्ति । इत्युक्ते क्रियाभेदादयः औपाधिकभेदाः पटतन्त्वोः स्वाभाविकं भेदं साधयितुं नार्हन्ति । तन्तौ पटस्य आविर्भावः भवति चेत् पटः जायते इति प्रतीतिर्जायते । यदि तिरोभावः भवति तर्हि पटः ध्वस्तः इति प्रतीतिर्जायते इति नास्ति काप्यनुपपत्तिः । यथा कमठस्याङ्गानि हस्तपादादीनि कूर्मशरीरे अन्तर्निविशमानानि अदृश्यानि भवन्ति, बहिरागच्छन्ति न तु कूर्मात् उत्पद्यन्ते अथवा प्रध्वस्ता भवन्ति । एवमेव घटः मृदः घटविशेषा आविर्भवन्तः उत्पद्यन्ते । अथवा सुवर्णात् मुकुटादिविशेषाः आविर्भवन्तः उत्पद्यन्ते । निविशमानाः अदृश्याः भवन्ति विनश्यन्तीति व्रवह्रियन्ते । न तु असतः सज्जायते, सतः वा निरोधः वक्तुं शक्यते । उक्तं च भगवता बादरायणेन भगवद्गीतायां – नासतो विद्यते भावो नाभावो विद्यते सतः (भगवद्गीता २.१६) असतः भावः (उत्पत्तिर्नास्ति) , सतः अभावः (नाशः) नास्ति इति । अथ बुद्धिभेदोऽपि कार्यकारणयोः भेदसाधकः न भवति – कमठः स्वावयवहस्तपादादिभ्यः सङ्कोचाविर्भावेभ्यः बुद्धिभेदे अपि (अयं हस्तः,अयं कमठः इति बुद्धिभेदे सत्यपि) यथा न भिन्नः एवमेव पटघटादयः स्वकारणीभूतमृच्चामीकरादिभ्यो भिन्नाः न भवन्ति । अत्र व्यपदेशभोऽपि कथयितुं न शक्यते – समूहादेकदेशो भिद्यते इति न्यायेन वने तिलकाः इत्यत्र वनतिलकयोः३ व्यपदेशभेदे सत्त्वेऽपि यथा तिलकं वनान्न भिद्यते एवमेव पट-तन्त्वोः व्यपदेशभेदे सत्यपि तौ न अर्थान्तरौ । अपि च अर्थक्रियाभेदः (प्रावराद्यर्थक्रियाभेदः) अपि कार्यकारणयोः भेदं न साधयति । वस्तुनः एकत्वे सत्यपि लोके तस्यैव भिन्नाः क्रियाः दृष्टाः यथा अग्निरेव पचति, अग्निरेव अर्थं प्रकाशयति, स एव दुःखं जनयति । एवमेव भागवते श्रीकृष्णपरमात्मा एकश्चेदपि अशनिक्रियावा, स्मरक्रियावान् इत्यादिभिन्नक्रियावान् दृष्टः ।
तदुक्तं श्रीमद्भागवते –
मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।
मृत्युर्भोजपतेर्विधातृविहितस्तत्वं परं योगिनां
वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ।। इति ।
अपि च अर्थक्रियाभेदः कार्यकारणोर्भेदसाधने कारणं भवितुमर्हति – तन्तुः पटकार्यभूतावरणक्रियां न करोति खलु इत्युक्ते ते तन्तवः व्यस्ताः वा समस्ताः (अव्यवहिततया स्थिताः) अर्थक्रियाव्यवस्थां प्रावरणादिरूपां कुर्वन्ति । यथा प्रत्येकं शिबिकावाहकाः मार्गदर्शनमेव कुर्वन्ति । एकः एव शिबिकां न वहति । सर्वे मिलित्वा शिबिकां वहन्ति । एवमेव तन्तवः प्रत्येकं प्रावरणं न कुर्वन्ति चेदपि मिलित्वा आवरणादिक्रियां कुर्वन्ति । इति न सत्प्रतिपक्षः ।
अत्र नैयायिकाः पुनः साङ्ख्यवादिनमाक्षिपन्ति –
अत्र आविर्भावः असाधारणकारणव्यापारात् पूर्वं सन् वा असन् वा ? यदि असन् इत्यङ्गीक्रियते तदा सिद्धसाधनता । यदि सन् इत्यङ्गीक्रियते तर्हि कारणव्यापारस्य प्रयोजनं किं भवति। यदि तन्तुरेव पटः तर्हि पटस्य आवश्यकता का अस्ति । अथ च कारणव्यापरस्य आविर्भावः प्रयोजनमित्युक्ते अनभिव्यक्ताविर्भावः पूर्वम् अनभिव्यक्तः । तस्य अभिव्यक्तये अन्यस्य अभिव्यक्तिः । तस्य अभिव्यक्तये अन्यस्य अभिव्यक्तिः इति अभिव्यक्तिपरम्परया अनवस्था स्यात् । इति वदन्ति । अस्य आक्षेपस्य समर्पकं समाधानं साङ्ख्यशास्त्रे न उपलभ्यते किन्तु परमते अपि समानं दोषमुद्भाव्य स्वसिद्धान्तः स्थाप्यते –
एवं वक्तुं त्वया न शक्यते । यतो हि असतः सज्जायते इति भवन्मते अपि अयमेव दोषः अस्ति । असतः सज्जायते इत्यत्र उत्पत्तिः सती वा असती वा ? सती चेत् तुरीवेमादेः आवश्यकता न स्यात् । असती चेत् तस्या उत्पत्तिः पूर्वमनुत्पन्ना । तस्या उत्पत्तिः पूर्वमुत्पादनीया । साप्युत्पत्तिः अनुत्पन्ना, अतः तस्या अपि उत्पत्तिः अपेक्षते । तस्या अपि अन्या उत्पत्तिरुत्पादनीया इति उत्पत्तिपरम्परया अनवस्था स्यात् । अतः तूष्णीमास्स्व ।
नन्वथापि उत्पतिः पटात् न अर्थान्तरम् । अपि तु पट एव इयमित्युक्ते पटः इत्येवदुच्चारणेन उत्पद्यते इति ज्ञानं जायते । । अतः पटः इत्युक्ते अग्रे उत्पद्यते इति न कथनीयम् । पुनरुक्ततारूपदोषसद्भावात् । पटः इत्युक्ते उत्पत्तिः इति कारणतः उत्पत्तिः उत्पत्तिः इति पौनरुक्त्यं स्यात् । विनश्यति इत्यपि वक्तुं न शक्यते । पटः उत्पत्तिः । उत्पत्तिविनाशयोः युगपत् एकत्र विरोधः दृष्यते इति कारणतः ।
अपि पटोत्पत्तिः पट एव इति त्वया उच्यते । पटोत्पत्तिः नाम स्वकारणभूततन्तौ समवेतत्वं वा, पटरूपकार्ये सत्तारूपजातिसमवायो वा । पक्षद्वये अङ्गीकृते अपि उत्पत्तिर्नोत्पद्यते । स्वम् – पटोत्पत्तिः । स्वकारणं तन्तुः । तस्मिन् तन्तौ समवायसम्बन्धरूपपटोत्पत्तिः अपि अस्ति । अतः पटोत्पत्तौ पटमात्रधर्मता कथितुं न शक्यते। यदि स्वसत्तासमवायः अङ्गीक्रियते तर्हि स्वं – पटकार्यम् । तस्मिन् यः स्वसत्ताजातिः अस्ति तस्य समवायात्मिका पटोत्पत्तिः नाम स्वसत्तासमवायः एव पटोत्पत्तिः इति वक्तव्यम्। किन्तु उत्पत्तेः उत्पत्तिः असम्भवा भवति । यदि समवायः नित्यः तर्हि असता पटेन सह समवायसम्बन्धः कथं, स्वजातिसमवायो वा । यतः असति सत्सम्भवस्य असम्भवात् । अतः पटः अपि सन् इति कथनीयम् । कार्योत्पत्तिरूपप्रयोजनार्थं तुरीवेमादिकारणव्यापाराणामावश्यकता त्वया अङ्गीकृता । तथैव मम मते कारणव्यापारात्पूर्वमपि सतः पटादेः आविर्भावरूपकारणव्यापारः अपेक्षितः ।
अथाऽपि पटरूपेण कारणानां सम्बन्धः अङ्गीक्रियते इत्युक्ते सोऽपि न अङ्गीकर्तुं शक्यते । पटरूपं – गुणः । तस्य परिणामादि स्वरूपं गुणः न क्रिया । कारणस्य तन्तोः तत्कार्यकार्यभूतपटरूपस्य सम्बन्धः नास्ति । अर्थात् स्वकारणस्य पटस्य यत्कारणं तन्तुरूपं तस्य अन्यथासिद्धिः भवति । इति आक्षिपन्ति ।
अत्र व्यापारद्वारा व्यापारवानन्यथासिद्धो न भवति । यथा घटोत्पादने व्यापारः चक्रभ्रमणम् । व्यापारवान् दण्डः तस्य अन्यथासिद्धिं कथितुं न शक्यते। तुर्यादिव्यापारवद्द्वारापटादिव्यापारेण पटादिस्वरूपं परिमाणादि उत्पद्यते । अतः अनयोः असम्बद्धता नास्ति । अत्र तुर्यादिकारणानां तत्कार्यभूतपटेन जन्यजनकभावसम्बन्धः भवति न तु अकार्यरूपकार्यकार्येण पटरूपेण सह इति ।
अत्र वैयाकरणानां सिद्धान्तः – क्रियासम्बन्धित्वं कारकत्वम् । तदनुसारेण पटरूपे गुणे वैयाकरणाभिमतक्रियात्वं न भवति इति तेन सह सम्बन्धः अपि कथयितुं न शक्यते। अत्र च व्याप्तिरस्ति – यत् कारकं (तन्तु) तत् क्रियासम्बन्धि (पटरूपसम्बन्धि) । एवञ्च यत्र क्रियासम्बन्धित्वाभावः तत्र कारकत्वाभावः । अत्र कारके तन्तौ पटरूपक्रियासम्बन्धित्वं नागच्छति इति कारकत्वं तन्तोर्नागतम् । तस्मात् सत्कार्यवादः निर्दुष्टः अस्ति । अस्मिन् कथमपि किम्प्रकारेणापि दोषाः न उपलभ्यन्ते । तस्मात् कारणव्यापारात्पूर्वमपि कार्यं सदेव इति सिद्धान्तः निर्बाधितः ।।
साङ्ख्यागमाब्धिसम्भूतभ्रभ्रंषितचेतनः ।
गुरुकारुण्यनावाद्य पारगः साङ्ख्यसागरात् ।।
प्रबन्धेऽस्मिन् भवा दोषाः स्वीयकारुण्यधारया ।
क्षम्यन्तां गुरुभिः सर्वे नीरक्षीरविवेकिभिः ।।
।।श्रीकृष्णार्पणमस्तु।।
Foot Notes
Bibliography

ननु भुवि भारते वशीकृतसरस्वत्यः अधीतिबोधाचरणप्रचारणाः स्वशास्त्रप्रणेतारः स्वशास्त्रं प्रवर्तयन्तः आसन्। इह भारते दर्शनानि षडेव वर्तन्ते प्रधानानि –
काणादस्याक्षपादस्य व्यासस्य कपिलस्य च।
पातञ्जलेर्जैमिनिश्च दर्शनानि षडेव हि।।
इति वचनात् काणादः वैशेषिकदर्शनप्रवर्तकः, अक्षपादः न्यायदर्शनप्रवर्तकः, वेदव्यासः वेदान्तदर्शनप्रवर्तकः, कपिलः साङ्ख्यदर्शनप्रवर्तकः, पतञ्जलिः योगदर्शनप्रवर्तकः जैमिनिः मीमांसादर्शनप्रवर्तकः इति ।
तत्र किं नाम दर्शनं इति प्रश्नः घटते । दर्शनमित्यस्य दृश्यते (ज्ञायते) (आत्मा) अनेन इति दर्शनम् । इदं दर्शनमेव परमात्मानं ज्ञातुं दीपशिखा पदार्थजातमिव सहकरोति । प्रायः सर्वेपि दार्शनिका अलं तत्वज्ञानमेव मोक्षं प्राप्तुं उपकरणं इति मन्यन्ते।
अज्ञानादिह संसारः ज्ञानान्मोक्ष इतीर्यते।
अखिलैः तन्त्रिकैः तस्मात् तत्वज्ञानमिहादिदम्।
इति वेदान्तमतरीत्या तत्वज्ञानं निश्श्रेयसः उपकरणं भवति। अस्मिन् वेदान्तदर्शने द्वैतमतं अन्यतरं भासते। अस्य प्रवर्तकाः श्रीमदानन्दतीर्थभगवत्पादाचार्याःभवन्ति। परकारुणिकाः ते अस्मद्धिताय परतत्त्वं भगवन्तं कैः दृष्टिकोनैः पश्यामश्चेद् वयं मुक्तिं प्राप्नुमः इति बोधनाय तत्वसङ्खानं व्यरचयन्। साम्प्रतमहं अस्य ग्रन्थस्य उपोद्घातनं चिकीर्षामि।।
इदं तत्वसङ्ख्यानं मध्वाचार्यकृतेषु दशप्रकरणेषु एकं विद्यते। प्रकरणग्रन्थो नाम यो ग्रन्थः दर्शनानां केचन विशिष्टविषयान् परिशीलयति सः प्रकरणग्रन्थः इति अभिधीयते। दशप्रकरणाानि भवन्ति-
तत्वसङ्ख्यानम् विष्णुसर्वोत्तमत्वं ध्रुवं स्थापयति। अयम् एकादशश्लोकात्मकः ग्रन्थः। अयं तत्वानां सङ्ख्यानं (विस्तारं) करोतीति अस्य अन्वर्थनाम।
किं नाम तत्त्वं इत्यस्मिन् ग्रन्थे द्वैतद्युमणयः आचार्याः प्रत्यपीपदन् – यदनारोपितं तद् तत्वं इत् अभिधीयते इति। प्रमितिविषयः तत्त्वं इत्यर्थः । उदाहरणार्थं- विष्णुः प्रमाणभूतैः शास्त्रपुराणादिभिः विज्ञायते इति प्रमितिविषयत्वात् तत्त्वं भवति। यदि वयं रज्जुं दृष्ट्वा सर्पः इति आरोपयामः सः सर्पः तत्त्वं न भवति।
स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वं इष्यते।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधतरत्।। इति
मुमुक्षुणा खलु भगवान् जगतः सृष्टि-स्थिति-संहार-नियमन-ज्ञान अज्ञान-बन्ध-मोक्षाणां प्रदायकः इति अवश्यमवगन्तव्यः तथा जगदपि अनेकभेदभिन्नं इति अमृषा विज्ञेयं अस्मादेव मोक्षः इति।।
यः एतत्परतन्त्रं त सर्वमेव हरेः सदा ।
वशमित्येव जानाति संसारात् मुच्यते हि सदा ।।
टिप्पणीः –
।।श्रीकृष्णार्पणमस्तु।।

वीक्षस्व । सम्प्रत्ययं प्रावृट्कालः । नभः इरम्मदस्रक् बलाहकैः सञ्छन्नं भाति । नीलोत्पलाभकान्तयः मेघाः मिमते । सर्वत्र वृष्टिधाराः धरणीमार्द्रयन्ति । पृथिवीरेणूत्किराः वाताः वान्ति । अयं कालः चातकानां मोदकालः । आब्दं तृषा परिक्लिष्यमाना स्वदाहं वृष्टिपयसा शमयन्ति । पश्य सर्वे नरः शैत्येन त्रस्ताः स्वीयेषु निवा-सेषु वसन्ति । किन्तु कृषीवलाः वृष्टिमविलक्ष्य क्षेत्रे यवान् वपन्ति । जलाशयाः पूर्णसलिलाः जननयनानि आकर्षन्ति । वृष्टिसलिलेन अङ्कुराः समुत्पद्यन्ते । वृष्ट्यागमनाय विप्राः देवान् क्रतुभिर्यजन्ति । वृष्ट्या सर्वत्र प्रकृतिः हरिता इन्द्रनीलायते । उत्तुङ्गगिरिशृङ्गस्यन्दिनो झराः कस्य सुखं नैधयन्ति । काले अस्मिन् –
अम्भोजकान्ततपनातपतप्तदेहा
आब्दं तृषाकुलधियोऽद्य मुदा रमन्ते ।
जृम्भद्बलाहकपरस्परघातजाम्भो-
वर्षाकरम्भजठरम्भरयः शकुन्ताः ।।(स्वकीयः श्लोकः)
अम्भोजानां कान्तेन विकासकस्य तपनस्य सूर्यस्य (तपनः सविता रविः इत्यमरः) आतपेन किरणेन तप्तदेहाः उष्णीभूतकायाः आब्दं संवत्सरादारभ्य तृषा पिपासया आकुलधियः त्रस्तधियः जृम्भतोः -गर्जतोः बलाहकयोः-मेघयोः (स्तनयित्नुर्बलाहकः) परस्परघातेन – मिथः घट्टनेन जातस्य अम्भसः जलस्य वर्षाः – वृष्टिः तस्य करम्भेन – वृष्टिमिश्रितेन जठरम्भरयः उदरपूरकाः (फलेग्रहिरात्मम्भरिश्च (३.२.२६) फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते। फलशब्दस्य उपपदस्य एकारान्तत्वम् इन्प्रत्ययश्च ग्रहेर् निपात्यते। फलानि गृह्णातीति फलेग्रहिर् वृक्षः। आत्मशब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्तसमुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः। इति इन्प्रत्ययः) चातकाः – तन्नामकाः शकुन्ताः – पक्षिणः (शकुन्तशकुनद्विजाः इित्यमरः ) अद्य -प्रावृषि रमन्ते मोदन्ते ।

सकलसुगुणधाम्नः साकेतपूरीधाम्नः श्रीरामनाम्नः दिव्यनाम जयश्रीराम जयश्रीराम इति जेगीयत्कोटिकोटिभक्तवृन्दैरद्यावधि स्रवन्नयनसुनिरीक्षितवेलासम्प्राप्ता इति कस्येदानीं चेतः नानन्दतुन्दिला ।
ममापि च मानसे रामोत्सवानन्दजनितवेगः कश्चन मां मुखरयति अनवद्यपद्यगुम्फनाय । यथा हि –
नृत्यत्यद्यवसुन्धरा तनुरुहप्रोत्फुल्लरोमाञ्चिता
खेलत्तुङ्गविहङ्गमेन्दुवदनस्वच्छन्दमन्दस्मिता ।
कूजत्कोकिलकम्रकण्ठकवनस्वानन्दसंपूरिता ।
श्रीसाकेतपुरीपरापरिलसद्रामालयाडम्बरा ।।
जय श्रीराम जय श्रीराम जय जय श्रीराम!!!