• श्रीजयतीर्थगुरुभ्यो नमः

    अस्ति काचित् सरस्वतीदृषद्वतीनद्योः मध्यप्रदेशे ब्रह्मावर्तं नाम पुण्यभूमिः यत्र परमपावनी सरस्वती ऐन्द्रीं दिशमुद्दिश्य स्यन्दति । तत्र महापराक्रमी राजर्षिः पृथुः कस्मिंश्चित् शोभने मुहूर्ते शताश्वमोधसङ्कल्पमकरोत् । एवं यज्ञार्थं दीक्षितः सः राजा विधिवत् क्रतुशतं निर्वर्तयितुमारेभे । पृथुना क्रियमाणोयं यज्ञः शक्रकृतक्रतुशतापेक्षया अतिशयितां भेजे यतः स्वयं सर्वव्यापी सर्वसमर्थः सर्वलोकगुरुः साक्षात्  भगवान् श्रीहरिरेव ऋतावस्मिन् यज्ञपतिर्बभूव ।

    परं सुराधिपः शक्रः स्वकृतक्रतुशकापेक्षया अतिशयोपेतं अभिप्रेत्य भगवद्भक्तस्य पृथोः इमं यज्ञमहोत्सवं न सेहे । अमृष्यमाणः सः यज्ञस्य प्रतिघातं चकार । पृथौ अन्त्येन अश्वमेधेन हूयमाने सति स्पर्धमानः इन्द्रः तिरोहितः सन् यज्ञाश्वं अपोवाह ।

    पाखण्डरूपं धृत्वा यज्ञाश्वं अपहृत्य विहायसा गच्छन्तं शक्रं वीक्ष्य तत्र भगवान् अत्रिर्महर्षिः – जहि यज्ञहनं तात महेन्द्रं विबुधाधिपम् इति पृथुपुत्रं विजिताश्वं संचोदयामास । तदाकर्ण्य अतिकृद्धः पृथुसुतः सीताकृतिं अपहृत्य गच्छन्तं रावणं गृध्रराडिव अन्वधावत् । तदा महेन्द्रः यज्ञांश्वं हित्वा स्वस्वीकृतपाखण्डरूपं विसृज्य अन्तर्हितः सन् विहायसि तत्थौ । तदा धीरः सः पृथुपुत्रः यज्ञपशुमादाय पितृयज्ञं प्रति आजगाम । तत्रोपस्थिताः परमर्षयः तस्य अद्भुतं कर्म विलक्ष्य यस्मात् त्वं इन्द्रं पराभूय यज्ञाश्वं जितवान् तस्मात् विजिचाश्वनाम्ना जगति प्रथितो भविष्यसि इति जगदुः ।

    श्रीमद्भागवते चतुर्थस्कन्धे श्रूयमाणायाः अस्याः कथायाः श्रवणेन नूनं पामराणां चित्ते इन्द्रापेक्षया विजिताश्वस्य उत्तमत्वं, इन्द्रस्य अशक्तत्वं, भीरुता, युद्धे पलायनपरता इत्यादिकं भासते । परं विचारणशीलानां विदुषां चेतसि – क्व देवानां सम्राट् इन्द्रः । क्व मानवस्य पृथोः पुत्र विजिताश्वः । किं मानवः देवानपि अतिशेते । कथं वा शतक्रतोः पृथुसुतापेक्षया अवरता । किं शक्रस्यायं तेजोभङ्गः वास्तविकः भवितुं अर्हति इत्यादि शङ्काशतं चकास्ति ।

    तदयं भगवान् सर्वज्ञमुनिः गरुड-स्कान्द-पुराणवचनोदाहरणेन शङ्काशतं विच्छिद्य सन्मार्गगामिनां चेतांसि विमलीचकार । तदित्थम् –

    देवा शक्तास्तु मोहाय दर्शयोयुरशक्तवत् ।

    ऋषीणां चैव राज्ञां च न हि ते देवतासमाः ।।

    आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित् क्वचित् ।। इति गारुडे – भाग ता.  ४.१९.१७

     यदा देवाः स्वापेक्षया अवरान् ऋष्यादीन् प्रणमन्ति तदा तेषां अन्तर्यामिणं श्रीहरिमेव प्रणमन्ति इति कारणतः तेषां किञ्चिदपि तोजोभङ्गः न भवति । यथा हि लेके जनाः स्वापेक्षया नीचयोनिजातानां पश्वादीनां नमनेपि तेजोभङ्गं नानुभवन्ति तथा उत्तमैः अवरान् प्रति नमने कृतेपि तत्र हरिमात्रोद्देश्यत्वस्य सर्वैः ज्ञातुं शक्यत्वात् तेजोभङ्गस्यावकाशो नास्ति । प्रायः समानां अवमानां यदा नमस्कारः तदा एव तेजोभङ्गस्य प्रसक्तिः । तदपि समानानां द्वेषादिसद्भावे एव तोजोभङ्गप्रसङ्गः । द्वेषाभावे तु समानामपि परस्परनमनादिकं तेजोभङ्गकारणं न भवति । उत्तमानां विषये नीचताचिन्ता महते अनर्थाय कल्पते ।

    अतः अत्युत्तमानां अवरे तेजोभङ्गो न विद्यते ।

    ।। श्रीकृष्णार्पणमस्तु ।।

  • श्रीजयतीर्थगुरुभ्यो नमः

  • उन्नीलोत्पललासकाब्जललनापर्यङ्कलासः प्रभु-

    र्मौर्वीशिञ्जितरञ्जकारवचणः सोमाभमौञ्जीधरः ।

    स्वीयापाङ्गविलासलासितसुरो लावण्यवारां निधिः

    सौधामोदकरम्भसम्भृतहृदः स्वापाङ्गहासैः क्रियात् ।। (स्वकीयः श्लोकः)

  • श्रीजयतीर्थगुरुभ्यो नमः

    अम्बाचुम्बितचन्द्रबिम्बवदनं साम्बोर्वपाङ्गोन्नतं

    डिम्भाकारमरन्दसम्मधुकरम्भोरुप्रियं नन्दनम् ।

    आरम्भाञ्चितसत्पदं कलितविश्वम्भर्तृविश्वम्भरा

    भिख्यं नौम्युरुविघ्ननिघ्नममलं रम्भोरुलम्बोदरम् ।।

  • श्रीजयतीर्थगुरुभ्यो नमः

    Happy Ganesha Chuturthi

    उमाकराब्जजो हि सावुमावचः सुपालको ।

    वरेक्षुदण्डखण्डसेवनप्रियो मुदावहः ।।।।

    Brought into life by the lotus hands of Goddess Uma, who is ever obedient to the Mother, relishes of the sweet sugar cane, the harbinger of joy,

    कपालभृन्महात्रिशूलखण्डेतोरुसन्मुखम् ।

    पुनःसुलब्धजीवनं व्रजामहे निरन्तरम् ।।।।

    the one who head was cut off by the fierce Trishula of Lord Shiva, one who was again brought into life, let us all take refuge in him.

    गिरीन्द्रधामनन्दनम् गिरीन्द्रनन्दिनीप्रियम् ।

    गणेशमेकदन्तकं भजामहे निरन्तरम् ।।।।

    the harbinger of joy to the Lord of Mount Kailash, the beloved of the Daughter of Lord Himavan. let us all worship

    सुरक्तवस्त्रधारिणं गजाननं चतुर्भुजम् ।

    निशीथ-राट्सुशापकारणं व्रजामहे प्रभुम्।।।।

    Let us all submit over-selves to Gajanana, who is adorning a red attire, the four-handed, the one who cursed the Moon – the Lord of the Night.

    विनायकं भजामहे सुरासुरेन्दरपूजितम् ।

    हरौ सुभक्तिपूरितान् विना सुदण्डकं परान् ।।।।

    Let us bow to Lord Vinayaka, the one revered by the Gods as well as the Asuras, the quick punisher of those who are not the devotees of Lord Vishnu.

    अम्बाचुम्बितकम्बुलम्बजठराम्भोजाक्षियुक्ताहिमे-

    वासात्भक्तसुदर्शनेन हिमवत् त्वं पासि भक्तान् द्रवन् ।

    हे हेरम्ब सदाखुवाहनगते श्रीपार्वतीनन्दन

    किं भक्ता न वयं प्रदास्यसि नहि श्रेयांसि भूयांसि नः ।।

    O, elephant headed God, who is cuddled by Mother Gowri, eyes sprawling by your heart instantly melts for the sake of devotees which i suppose is due to your stay in the Mt.Kailash (full of melting snow) O'[ Lord Ganesha, whose vehicle is the mouse, the son of Parvati, are we not your devotees that you are not showering the greatest of blessings on all of us?

  • श्रीजयतीर्थगुरुभ्यो नमः

  • उत्तुङ्गाङ्गसृतिः स्वकीयरभसा गङ्गा ललाटे स्थिता

    भङ्गाडम्बरसिन्धुसङ्गमहितः श्रृङ्गारवीरुद्ध्रदः ।

    लावण्याब्धिरभङ्गकीर्तिकविभूरुत्तुङ्गशृङ्गिस्फुटो

    वेदाङ्गागमगम्यलब्धविभवो देशो निजो दीप्यताम् ।।1।।

    Let Our divine country shine, where the holy Ganga is flowing with full force from the towering peaks of Himalaya. A land which is made serene by the dancing waves of the holy river Sindhu, ever enchanting with lush green forests and creeks. an ocean of enchantment, draped by the serene seas on its three sides, decked by the sky-scraping Mountains. A tranquil home of poets and thinkers, let our beloved country shine gloriously, by the grace of Lord Sri Hari, sung by the Vedic lore.

    भारतं भारतं भातात् भूतले भूतलासि तत् ।

    भारताभयशो भातु भारकादिसुभारतम् ।।2।।

    Let the land of Bharat shine with beautiful landscapes and ancient wisdom re-discovering its rich past glories of the Mahabharata times.

    स्वीयारातीशमुक्तासुगणहरणरुण्डार्तिखण्डीभुशुण्डी-

    मुक्तैः शस्त्रैर्विभिन्नप्रपदनिजकरोऽप्याजिरङ्गे स योत्स्यन् ।

    अन्याञ्छस्त्रैः स्वकीयैर्विरहितहृदयान् निर्गतासांश्चकार

    वीरो जीयात्स्वदेशार्पितसकलनिजः पारतन्त्र्यान्तकोऽद्य ।।3।।

    Let there be victory to our valiant warriors protecting its borders risking their lives, braving the enemy guns and delivering lightning surgical strikes to destroy the enemies.

    –         अन्तरात्मा राचूरि

  • श्रीजयतीर्थगुरुभ्यो नमः

    The one who is adorned with extra ordinary charms, the one who is embellished by the tint of the black cloud, the one who has the burnish of lightning, the one who is extolled by Lord Brahma and other celestials, the one who outshines the glow of the moon. By his birth, the Gokulam became the house of sunshine. गोकुलं गोकुलं बभूव । Let such Lord Sri Krishna grant us perpetual fortune.

  • वधूकदम्बलास्यहासहासिताासिताननम् ।

    मधूदकाधराधृतं वधूधुरीणमानसम् ।

    विभावरीविलासकान्तिकान्तकान्तिभासुरम् ।

    सुवेणुगीतगाथकं जगद्बलाबलाश्रितम् ।।

    महालकालिनादपङ्कजाननेनभासुरम् ।

    महोत्सवोत्सुकाङ्गिनं रतिप्रतीक्षणोत्सुकम् ।।

    सुगोपिकापिकस्वरस्वनत्वरासरोत्सुकम् ।

    विनोदनोदिताबलं निशाविषण्णमानसम् ।।

    करेण वेणुरेणुशोणितेन कानितोन्नतम् ।

    महारसासमोत्युकोद्रतिप्रियं प्रियंवदम् ।।

    महालिकाप्तचन्दनं मरन्दमन्दिताधरम् ।

    नमामि नन्दनन्दनं रमाचकोरतन्दिरम् ।।