• श्रीः

    श्रीजयतीर्थगुरुभ्यो नमः

    पराक्रमोत्साहमतिप्रतापैः सौन्दर्यमाधुर्यदयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैः हनूमतः को ह्यधिकस्त्रिलोक्याम् ।।

    पुरा किलासीदनुपमहनुर्दनुजजयी भानुमभितोभियातः शैशव एव, पाथोधिप्लवः,भीतरावणः,दूतो हंसकुलहंसायितस्य दयितोऽदनुजानां, स्वे रतो मारुतो नाम । तस्यासीज्जनको केसरी । कञ्जलोचनाञ्जना तस्य माता । स किलैकदा नियोगाद्राघवस्य राघवीमार्गणे मार्गण इव सङ्गताङ्गुलीयकः न्ययुङ्क्त रामेण । कपिभिर्युतो गतोवाचीमपलदपां निधिम् । मार्गमध्य उदतिष्ठदचलो चलतः । कृतज्ञोऽचलः हैमोवाच- विरमस्व दान्तिन् इति पन्थानमवरुध्य । मारुतिरुवाच- न विश्रम इहाहमभियुक्तो रामस्याज्ञया मैथिलीमार्गणे तस्यावसान एव विश्रमे नान्यथा इति वचोभिराश्वास्याचलमचलसंहननो आलिङ्ग्य चार्त । गच्छतस्तस्यासीत्प्रत्यूहः । चतुरास्यस्य सिंहिकाख्या कष्टायत इव । तां स गत्वा निर्भिद्याभेद्यां तनुं न्यवर्तत ततः । स समृत्योदन्वन्तं रामकान्तां शान्तां सीतां मार्गमाण आस । स निषेव्य मूलं तरोर्निषण्णामशोकस्याधस्तादद्राक्षीत्सशोकामिव स्थिताम् । स विन्यस्य हस्ते हस्तभूषां दूतोस्मि मातर्दाशरथेरिति प्रोच्योदस्थात् । अभिज्ञानाय अवनिजया विन्यस्तां शिरोभूषां आददे । ततः स प्रणिपत्य नादमुच्चैःकृत्याध्वसदारामम् । स्रंसनोपक्रान्तोऽनन्तवीर्यः सशौण्डीर्यः कश्चिद्वानरः इत्यजिज्ञपन् रावणं दूताः । रावणोऽयौक्षीत् नाशने कीशस्य नक्तञ्चरान् । कियतापि यत्नेन नाशकन्त हनने, स्वयं प्नणष्टाः मारुताग्नौ पतित्वा । तदा रावणो मरुतो मारणे युयोजेन्द्रजितम् । स इन्द्रजित् बाणैरव्यात्सीत् । मारुतिर्न विचचालेतस्ततः । तदा तस्यासुरस्य कश्चनोपायः पुस्फोर । अथास्त्रं विधेः प्रयुज्य, प्राध्वङ्कृत्य तं, आनिनाय समया रावणम्। अस्त्रधूनने आढ्योपि , प्राक् असकृद्विधुतविधिवरः, विधेस्तमस्त्रं मानयन् प्राप रावणम् । सोऽप्राक्षि रावणेन किमर्थं ईदृशं कर्म कृतम्,कस्त्वमिति च । मारुतिराह-

    हनूमन्तं विजानीहि जानकीजानिसेवकम्

    यर्हि नो यच्छसि प्रीतिकरां रामस्य जानकीम् ।।

    तर्हि नश्यसि दुष्टात्मन्पुत्रमित्रयुतो जवात् ।

    अत आशु प्रदेहीमां वैदेहीं राघवप्रियाम् ।। (श्लोकः मदीयः)

    कान्दिशीको रावणः तस्मै दुद्रुहिषकः क्रुद्धोऽदिशद्दहने पुच्छस्य कपेः । त अधाक्षुर्वह्निं वह्निप्रियसुतं । स सर्वतो पुरीं विदह्याऽयाद्हनूमान् । तमायातमार्चिषुः कीशाः । तत स श्रीशं राममुपेत्य निधाय शिरोभूषां हस्त इदमाह । दृष्टा कष्टायत इव (स्थिता) सीता । इत्थं बह्व्यः सेवा विधायातूतुषद्रामम् ।।

    इत्थं स मारुतिवरो विविधाः सुसेवाः कृत्वा रघूत्तमवरं समतोषयद्धि ।

    तुष्टो रघूत्तमवरः प्रददौ स्वमूर्तिं गायन्स किम्पुरुषखण्ड उवास नाम।। (श्लोकः मदीयः)

    श्रीकृष्णार्पणमस्तु

    टिप्पणी

    हनुः-ज्ञानम्

    पाथोधिप्लवः-पाथः जलम् । कबन्धमुदकं पाथः इत्यमरः । पाथो धीयत अस्मिन्निति पाथोधिः समुद्रः तं प्लवत इति पाथोधिप्लवः

    भीतरावणः-भीतो (मुष्टिप्रदानेन त्रस्तः) रावणो येनेति भीतरावणः हनूमान्

    हंसकुलहंसायितस्य– हंसः सूर्यः भानुर्हंसः सहस्रांशुः इत्यमरः तस्य यत्कुलं सूर्यकुलं तत्प्रति हंसवद्यो आचरति (आचारार्थे क्विप्) श्रीरामः, सुर्यान्वयहंसः इत्यर्थः

    अदनुजाः देवाः

    स्वे रतो– स्वः स्वातन्त्र्यात् स्व इति प्रोक्तः भगवान् तस्मिन् रतो आसक्तः

    सङ्गताङ्गुलीयकाङ्गः– सङ्गतं यदङ्गुलीयकं (RING) तदङ्गुलीयकमङ्गे शरीरे हस्ते यस्येत्यर्थः

    न्ययुङ्त-नियुक्तोऽभवत् निपूर्वात् युजिर् योगे इत्यतो लङ्

    अवाचीम्-दक्षिणाम्

    अपलत्– पल गतौ लङ्

    अपां निधिम्-समुद्रम्

    उदतिष्ठत् – उत्पूर्वात् तिष्ठतेर्लङ् उत्थितम्

    दान्ती– इन्द्रियनिग्रहवान्

    पन्थाः – मार्गः

    अवसानं-समाप्तिः

    आर्त-ऋणु गतौ इत्यतो लुङ्

    प्रत्यूहः-विघ्नः । विघ्नोन्तरायः प्रत्यूहः इत्यमरः

    कष्टायत इव – कष्टवदाचरतीति कष्टायते न तु स्वभावतो कष्टाय क्रमणे 3.1.14 । आचारे क्विप् , वार्तिकम्-सर्वप्रातिपदिकेभ्यःविब्वा वक्तव्यः

    तां स गत्वा – तां प्रविश्येति यावत्

    समृत्य – सम्पूर्वात् ऋणु गतौ इत्यतो ल्यप्

    उदन्वन्तं – सिन्धुं, उदन्वानुदधिः सिन्धुः इत्यमरः । उदन्वन्तं समृत्य – सिन्धुं विलङ्घ्य

    तरोः मूलं निषेव्य – वृक्षसमीपं गत्वा । विटपी पादपस्तरुः इत्यमरः

    विन्यस्य – संस्थाप्य

    हस्तभूषाम्– अङ्गुलीयकम्

    उदस्थात् – उत्पूर्वात् तिष्ठतेर्लुङ् उत्तस्थौ

    अभिज्ञानाय– मया सीतैव दृष्टा इति अभिज्ञानाय ज्ञानार्थम्

    अवनिजया– अवनिजा भूमिजा सीतेति यावत्, तया

    शिरोभूषाम्– चूडामणिं

    उच्चैःकृत्य-अव्ययम् उच्चैः कृत्वा

    अध्वसत्– ध्वसु अवस्रंसने इत्यतो लुङ्

    आरामः– (Garden) आरामः स्यादुपवनं इत्यमरः

    स्रंसनम्-ध्वंसः

    अनन्तवीर्यः-बहुवीर्यः

    शौण्डीर्यम्-विक्रमः

    अयौक्षीत्– युनक्तेर्लुङ्

    कीशः-वानरः मर्कटो वानरः कीशः इत्यमरः

    नक्तञ्चराः – राक्षसाः

    अव्यात्सीत्-व्यध ताडने इत्यतो लुङ् अताडयत्

    पुस्फोर– स्फुर सञ्चलने इत्यतो लिट्

    समया रावणम् अभितः परितः समया निकषा हा प्रतियोगेपि इत्यतो द्वितीया । रावणस्य समीपं इति यावत्

    धूननम्– कम्पनं नाशनमित्यर्थः । ल्युट् च  3.3.115 इत्यतो ल्युट्

    आढ्यः-समर्थः

    असकृत्– बहुवारम् अभीक्ष्णमसकृत्समाः इत्यमरः

    विधुतविधिवरः- विधुतः कम्पितो नाशितो उल्लङ्घित इत्यावत् । विधिवरः ब्रह्मणो वरो येनासौ हनूमानिति यावत् । वि-धुञ् कम्पने इत्यतो भावे क्तः । नपुंसके भावे क्तः 3.3.114

    जानिः – पत्नी । जानकी एव जानिः पत्नी यस्य सः जानकीजानिः रामः । जाया शब्दस्य बहुव्रीहिसमासान्ते, जायाया निङ्  5.4.134 इत्यतो निङ्

    जवात् – शीघ्रम्

    कान्दिशीकः – भीतः कान्दिशीको भयाद्रुतः इत्यमरः

    तस्मै दुद्रुहिषकःक्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः 1.4.37 इत्यतश्चतुर्थी । तस्मै हनूमते द्रोहङ्कर्तुकामः द्रोहितुं इच्छास्यास्तीति दुद्रुहिषकः, स्वार्थे कः

    अधाक्षुः– दह भस्मीकरणे इत्यतो लुङ्

    वह्निप्रियसुतः– वह्निप्रियो वायुः तत्सुतो हनूमान्

    आर्चिषुः– ऋच स्तुतौ इत्यतो लुङ्

    दृष्टा कष्टायत इव (स्थिता) सीता– कष्टमनुभूयमानेव स्थितेव सीता दृष्टा, मयेति शेषः

    अतूतुषत् – तुष्यतेर्णिजन्ताल्लुङ्

    मूर्तिम्(देहम्) कायो देहः क्लीब पुंसो स्त्रियां मूर्तिस्तनुस्ततनूः इत्यमरः

  • नैषधं विद्वदौषधम्

    विदितमेव तत्र भवतां भवतां यत् समस्तकाव्यजगति कविताकामिनीकान्तः श्रीहर्षचन्द्रः कस्य स्वान्तं नाभिनन्दयति इति । काव्यजगति त्रयः प्रधानकवयः सुप्रथिताः भारवि-माघ-श्रीहर्षाः। एतेषां कवीनां वर्णनं केनचित् श्लोकेन ज्ञातुं शक्यते –

    यावद्भा भारवेर्भाति यावन्माघस्य नोदयः।

    उदिते नैषधे काव्ये क्व माघः क्व च भारविः।।

    यावत्पर्यन्तं शिशुपालवधस्य उदयः नाभवत् तावत्पर्यन्तं भारवेः कीर्तिः व्यराजत । यदा नैषधीयचरितं समाजान्तरिक्षे व्यलसत् तदा किरातार्जुनीयशिशुपालवधयोः कीर्तिः क्व गता । तत्कथं नैषधीयचरितम् उभयोः महाकाव्ययोः कीर्तिं तिरश्चकार इति प्रस्तोतुमिच्छामि ।

    संस्कृतसाहित्यललामस्य विश्वविख्यातस्य नैषधीयचरिताभिधस्य महाकाव्यस्य प्रणेता विद्वच्चक्रचूडामणिः  कवितातार्किकसार्वभौमः महाकविः श्रीहर्षः विराजते। अयं कविरपि न्यायव्याकरणवेदान्तत्वज्ञाचार्यः इति प्रथितः। अस्य तातस्य नाम श्रीहीर इति । अस्य मातुः नाम अल्लदेवी इति। तथ्यमिदं नैषधीयचरिते स्वयमेवोक्तं –

    श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं

    श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् इति ।।

    कान्यकुब्जेश्वरस्य आश्रयभागयं तदादृतिमभजत्। ताम्बूलद्वयमासनसनं च लभते यः कान्यकुब्जेश्वरात् इत्युक्तेः इदं विज्ञायते । अतः अस्य जनिकालः द्वादशाब्दः इति वक्तुं शक्यते ।

    श्रीहर्षो महाकविर्महायोगी च । तत्र च अद्वैतवेदान्त खण्डनखण्डनखाद्य नामकः ग्रन्थः अनेनैव रचितः। अयं कविर्महादार्शनिको महावैय्याकरणश्च इत्यतः सर्वान् अन्यन् कवीन् अतिशेते। असाधारणपाण्डिताविर्भावात् पाण्डित्यपरिपाकवान् प्रबन्धोस्य प्रतीयते। नैकशास्त्रनिष्णातस्य अनुपहता गतिरत्रास्तीति अत्रास्तीति नैषधं विद्वदौषधम् इति यशः स्वर्गङ्गामवगाहते।

    प्रतिपदमनुप्रासप्रचुरत्वात्नैषधे पदलालित्यं इत्यप्यभिधीयते। तदिदानीं पदलालित्यस्य निदर्शनमीषदाकलयामः –

    सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः ।

    विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतः।।४.७२।।

    श्लोकेस्मिन् चन्द्रस्य द्विजराजत्वमतिरमणीयतया वर्णयामास। अस्य कथं विद्वदौषधत्वमिति अन्यं श्लोकं पश्यामः –

    दहति कण्ठमयं खलु तेन किं गरुडवत् द्विजवासनयोज्झितः।

    प्रकृतिरस्य विधुन्तुद दाहिका मयि निरागसि का वद विप्रता।।४.७१।।

    पद्येस्मिन् दमयन्त्याः शोकसमये चन्द्रोदये वर्धितकामपीडा सती दमयन्ती चन्द्रं दूषयतीव राहुं उद्दश्य इत्थं कथयति – हे राहो किं चन्द्रः ब्राह्मणः तं ग्रसामि चेत् गरुडस्य गलस्येव मम गलस्यापि दाहो भवेदिति इति मत्वा तं त्वं न ग्रसितवान् । परं एषः चन्द्रः यतः मां एवं कामवर्धनेन पीडयति अतः तस्य ब्राह्मणता कथं युज्यते । न हि निरपराधिनस्य पीडको ब्राह्मणो भवितुमर्हिति इति निन्दाव्याजेन चन्द्रस्य कामिनीजनानां कामोत्तेजकत्वं विरहवर्धकत्वं च गदयति ।

    काव्येस्मिन् व्याकरणसाङ्ख्यवैशेषिकादिसिद्धान्तानामपि प्रतिपादनं कृतमिति क्लिष्टं काव्यमिदम्।

    एवमुक्तेन वर्णनेन विषदीभवत्येतत् यत् श्रीहर्षः कविताकामिनीकान्तः नानाशास्त्रपारदृष्वा रससिद्धः कवीष्वरः वर्तते। सः भाषां पुत्तलिकामिव प्रनर्तयितुं प्रभवति। तस्य पद्यानि नारिकेलफलोपमानि बहिः कठोराणि अन्तः मधुरजलोपेतानि। रसिकैः विविधशास्त्रनिष्णातैरेव काव्यगौरवमवधारयितुं पार्यते। विविधशास्त्रवर्णनादेवास्य प्रतिपदं क्लिष्टत्वमालक्ष्यते।

    अतः साधूच्यते – नैषधं विद्वदौषधम्।

    श्रीकृष्णार्पणमस्तु

  • श्रीजयतीर्थगुरुभ्यो नमः

    माध्वग्रन्थान् स्वबन्धूनिव सरसहृदाऽऽलिङ्ग्य विज्ञातभावः

    संयोज्यालङ्कृताभिः स्वसहजमतिसम्भूतवाग्भिर्वधूभिः ।

    कृत्वान्योक्तीश्च दासीर्बुधहृदयगृहं प्रौढवृत्तीश्च वृत्ती-

    र्दत्वाऽन्योन्याभियोगं जयमुनिरसकृद्वीक्ष्य रेमे कृतार्थः ।।

    तीर्थप्रबन्धः,पूर्वप्रबन्धः,१८ तमः श्लोकः
    यस्य वाक् कामधेनुर्नः कामितार्थान् प्रयच्छति । सेवे तं जययोगीन्द्रं कामबाणच्छिदं सदा ।।

    भ्लाशिष्ट प्राक् अरुण इव प्रखरप्रभः, गुरुसूर्यविकसितपद्मः आचरितसकलगुरुवाक् लेखीकृतसकलप्रमेयः जयदाता स्वजयभक्तानां , विरक्त ऐश्वर्येऽपि जयकरतीर्थप्रणेता अनुव्याख्याननलिनभृङ्गायमानः भानुकोटितेजाः सरस्वतीकृपासाकारमूर्तिः मध्वमानसह्रदहंसः छत्रीकृताशीविषराट् प्रमेयकुलिषप्रमोडितकुमतिनमुचिः गुर्वपाङ्गनीराजिताङ्गः कामाक्षीमानसोल्लासः व्याख्यातदशप्रकरणसूत्रभाष्यानुव्याख्यानः पत्नीकृतप्रमाणपद्धतिः कागिणीवातस्पृष्टाङ्गः यतिकुलमुक्तावलिः मङ्गलवेडाभिजनः श्रीजयार्यो नाम । सोऽयं विठ्ठलकृपामूर्तिः नायकरघुनाथगेहोद्भव अद्योतत कुलाकाशे । अध्यैष्ट शस्त्रास्त्राणि । कदाचिदौखत् सैन्धवमारुह्य । भ्रमता राज्ञा काले पिपासाच्यावितोत्साहः पपौ स सलिलमनाकुलमनवतरन् ह्रदे । वृत्तान्तमनुपश्यन् जयतीर्थदिग्दर्शनाचार्य अक्षोभ्यतीर्थनामा वादिहिंस्रः किं पशुः पूर्वदेहे ? इति वाचोभङ्ग्या अस्मारयत् पूर्वजन्मचरितम् । उपदेशवागग्निना पवित्रीकृत इव विहायाज्ञानशामिकां , निर्मोक इव परित्यक्तगृस्थाश्रमः परमहंसलक्षणं वपुः अवेष्टत । अचिरादेव करतलामलकीकृतनिगमागमः व्याचख्यौ अष्टादश माध्वग्रन्थान् । पलाययामासान्यवादिनः । आर्जयत् सर्वज्ञकल्पत्वनाम । प्रविवेश वृन्दारण्यम् अनुध्यायन् राघवम् ।

    सस्सिद्धान्तपतङ्गमार्यरचितं दुर्वादवृक्षैर्गुरुर्

    गूढं सन्नयनेभ्य ईक्षितुमलं नो शक्तमित्येव वै ।

    चिच्छेदाशु कुवादिदुष्टविपिनं सन्दर्शयामास नः

    श्रीमन्न्यायसुधायुधेन जयराट् दद्यात् सुविद्यां सदा ।।

    (मदीयः श्लोकः)

    मलखेटपुरे स विवेश रमारमपादयुगं शितधीर्जयराट् । कमलारमणं वरमध्वनुतं मनसा स्मृतवान् मदनेषुजयी ।। (मदीयश्लोकः)

    टिप्पणी

    स्वजयभक्तानाम् – सु-शोभनः यः अजयः-श्रीहरिः तस्य भक्तानाम् ।

    जयकरतीर्थप्रणेता – जयदानशीलशास्त्रविरचयिता । निपानागमयोस्तीर्थम् इति कोशः ।

    छत्रीकृताशीविषराट् – छत्रवत् कृतः आशीविषानां – सर्पाणां राट् – राजा येन सः । आशीविषो विषधरश्चक्री इत्यमरः ।

    अवेष्टत – वेष्ट वेष्टने इत्यतो लङ् आत्मनेपदम् ।

    सैन्धवः – अश्वः । हयसैन्धवसप्तयः इत्यमरः ।

    सर्वज्ञकल्पाः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः इति कल्पप् प्रत्ययः ।

    कुलिशंम् – वज्रम् । कुलिशं बिदुरं पविः ।

    मोडितम् – मुडँ मर्दने इत्यतः क्त ।

    शामिका – लोहान्तरसंसर्गात्मको दोषः ।

    औखत् – जगाम । उखँ गतौ इत्यतो लङ् ।

  • श्रीजयतीर्थगुरुभ्यो नमः

    भगीरथोऽपि राजर्षिर्निन्ये भुवनपावनीम् ।

    यत्र स्वपितृणां देहा भस्मीभूताः स्म शेरते ।।

    श्रीमद्भागवतम्,नवमस्कन्धः,अष्टमोऽध्यायः

    साम्प्रतम् अहम् आजन्मशुद्धानां त्यागाय सम्भृतार्थानां सत्याय मितभाषिणां यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् अन्ववायजस्य भगीरथस्य वृत्तम् ईषदिव स्वरामि । हन्त! श्रूयतां मानवो वंशः ।

    आसीत्पुरा अशेषराजन्यसम्पूजितशासनः प्रवाहितस्वर्धुनीः व्यूढोरस्कः आरब्धान्तगामी आफलोदयक्रियः विराट् भगीरथो नाम । स राजर्षिर्देवान् अयष्ट । अधिजगे वेदान् ।

    सगरसप्ततन्तौ हयान्वेषणसमये कपर्दिकपिलभ्रूविजृम्भभस्मीभूतसगरजसमूहस्य समद्धृत्यै तप्ततपसा अंशुमता स्वर्धुन्यवताराय इषत्प्रायति । तत्सुतेन दिलीपेनाप्ययति । पितृपुत्रयोः नैरस्येऽनुभूते फलस्याकार इव पुण्यमूर्तिमानिव राजर्षिर्भगीरथः आसनसिंहासनहंसतूलिकाहेमलक्ष्मीर्विहाय निक्षिप्ताङ्गुष्ठमात्रः लज्जीकृतस्वावरतपस्वी आयनसहस्रं हिमशीतवर्षपरितापपुरःसरानविगणय्य तप्ततपाः दुर्द्रुश्यमपि द्रुहिणं प्रासादयत् । कथितस्वाभिप्रायोऽयं विरिञ्चिणा गङ्गावतारः अचिरादेव भवितेति विज्ञापितः गङ्गौघसहनाय शिवं सम्यगावर्षमुपतस्थे । तुष्टश्शिवः लसच्छ्रीतुलसीविमिश्रकृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्रीं दवीयोभिः क्षीरधारामिव भावितां गाङ्गमङ्गलतरङ्गां स्वात्मानमपि (रुद्रं) पातालं नेतुमिच्छन्तीं स्वरजसा पररजोनिवारिकां वैष्णवदासाग्रणीः स्वसटया धृत्वा अपवत् । अथ जटास्थायां स्वर्धुन्यां भग्नाशो राजा देहावस्थामविगणय्य शाङ्करं तपस्तेपे । तुष्टो हरः गङ्गां न्यदिशत् । तेन गङ्गोदकेन सागरान् तर्पयामास । ततः भारतमिदमुन्मत्तगङ्गं समभवत् । स्वपितामहोद्धाराय भूमिमानिनाय विष्णुपदीं यः तं सादरं पणे ।

    क्व भूमिर्वाराही क्व च सुरनरेन्द्रस्य भवनं

    न सोढुं शक्तासौ सुरजलममोघं गततुलम् ।

    तथाप्येषानिन्ये सुरवरनदी नाकत अहो

    क्रियासिद्धिः सत्वे भवति महतां नोपकरणे ।। (मदीयः श्लोकः)

    टिप्पणी

    उन्मत्तगङ्गम् – “तृतीयासप्तम्योर्बहुलम्‌” (२.४.८४) इत्यनेन सूत्रेण अव्ययीभावः ।

    सप्ततन्तुः – यज्ञः, यज्ञस्सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः इत्यमरः ।

    कपर्दिकपिल.. – कपर्दः – जटा अस्य अस्तीति कपर्दी तादृषः कपिलनामकपरमात्मा ।

    दवीयोभिः – दूरस्थैः ।

    दृहिणः – ब्रह्मा, धाताब्जयोनिर्दृहिणः इत्यमरः ।

    स्वसटया – सटा – जटा, व्रतिनस्तु सटा जटा इत्यमरः ।

  • श्रीजयतीर्थगुरुभ्यो नमः

    देवे वर्षति यज्ञविप्लवरुषा वज्राश्मवर्षानिलैस्सीदद्बालपशु स्त्रियाऽऽत्मशरणं दृष्ट्वाऽनुकम्प्युत्स्मयः ।

    उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् पायान्न इन्द्रो गवाम् ।।

    श्रीमद्भागवतम्,दशमस्कन्धः,चतुर्विंशोऽध्यायः

    थ नवनीतमोषकः परिहसितनिष्कलङ्कचन्द्रः घनाघनसुन्दरः भैष्मीपूजितविग्रहः सुवदनः सान्द्रानन्दः मन्दावलोकोत्किरत्कान्तिः चन्दनचर्चितः चक्राङ्कितचरणः कृष्णारामः वशीकृतयमः रमामुखसोमः स्ववाक्सुधानन्दितभूमिदेवः करुणावनमाली कंसारातिः स्वकृतगोर्धनोद्धरणेन चेतो मे स्वजते । कवे तच्चरितम् ।

    अथ समुपस्थितकैशोर्यः सबलः वासवदेवः शातक्रतुं क्रतुं निराकृत । गोवर्धनस्य गोवर्धनस्य पणने न्ययोजयत् व्रजभुवः । एवं कृतस्वपणनान्तरायकरस्य अनन्तस्य महिमानं स्वमनसि परिमृज्य दिवस्पतिः घनमतिघनाघनं व्यधात् । पुरुहूतकृतापमानं ध्यात्वा तत्कृपाकरः गोवर्धनकरः रक्षितगोसमूहः आवासरं पाणिक्षिप्तविविधफलप्रसूतिगोवर्धनः शतमन्युममन्युं विधाय तेन स्तुतस्तुत्यः सन् तमनुजग्राह ।

    गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजत् कृष्णं सुरभिः शक्र एव च ।। विविक्त उपसङ्गम्य व्रीळितः कृतहेळनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ।।
    दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ।।

    मोषकः – चोरः । मुष स्तेये इत्यस्मात् धातोः ण्वुल्प्रत्ययः ण्वुल्तृचौ (३.१.१३३)

    कवे – वदामि । (कुङ् शब्दे) इति धातुः ।

    पणनम् – स्तुतिः (पण व्यवहारे स्तुतौ च) ।

    गोवर्धनस्य गोवर्धनस्य – गोवर्धनपर्वतस्य या गौः – कान्तिः तस्या वर्धनः ।

    घनाघनः – वर्षुकमेघः (Rainy Cloud) वर्षुकाब्दो घनाघनः इत्यमरः ।

    कृष्णारामः – कृष्णा – द्रौपदी तस्या आरामः आनन्दवर्धकः ।

    परिमृज्य परि-इत्युपसर्गात् मृजूँ शुद्धौ इति धातोः ल्यप्-प्रत्ययः ।

    वासवदेवः – वासवस्य – इन्द्रस्य । वासवो वृत्रहा वृषा । तस्य देवः स्वामी कृष्णः ।

    दिवस्पतिः – इन्द्रः । शतमन्युर्दिवस्पतिः इत्यमरः ।

    शतमन्युममन्युं विधाय – शतमन्युमिन्द्रम्। अमन्युं – न विद्यते मन्युः – कोपः यस्य सः तथोक्तः । तम् । अमन्युं विधाय – कृत्वा ।

    रक्षितगोसमूहः – गवां समूहः – वेदाः,शास्त्राणि,धेनवश्च । रक्षितः गवां समूहः येन सः । कृष्णः ।

  • ।।श्रीजयतीर्थगुरुभ्यो नमः ।।

    मन्ये नैतदविदितं समेषां विपश्चिदपश्चिमानां यत् प्रायो लोके विविधैरुपायैर् वराकस्योदरस्य भरण एव समातुराः कुपिताहिफणच्छायाकल्पसुखविप्लुषजुषो जना इति । परं सर्वेपि नैतादृशाः । विद्यन्ते खलु तेपि धीराः ये विद्यातुराः सन्तः स्वजीवनस्य सार्थक्याय यतन्ते । ते हि विद्यार्थं सुखं, निद्रां च परित्यक्तुमलम् । तादृशैः  विविधविद्याशिक्षादक्षैः, अधीतिबोधाचरणप्रचारणवद्भिः, अनन्यसंश्रयैः कृतार्थजीविभिः विद्याकल्पलतामाश्रित्य अन्यैः साधनैरप्राप्यममृतकल्पं फलमनुभवपदमानीतं इतीदं निश्चप्रचम् ।

    तदेवं समुपासकानां शाश्वतामृतधारावर्षिणीं, वेदेतिहासपूराणेषु जेगीयमानदिगन्तविभवां, सुरलोकसुधावधीरिणीं, रसर्षिरसनाग्रनर्तकीं, सकलजनसुखसमुन्नतिदायिनीं तामिमां विद्यामधिकृत्य साम्प्रतं वाणीमीरयितुमभिकाङ्क्षतेयं जनस् सुश्रूषुशेमुषीमनुकूलयिष्यन् इति तावच्छ्रूयतां विचक्षणैस् तत्त्वमार्गाभिलिप्सुभिर् भवद्भिः ।

    प्रबन्धेस्मिन् …

    का नाम विद्या

    कति सन्तीह विद्याः

    विद्याप्राप्तिः

    विद्याफलम्

    विद्याप्रशंसा

    अविद्यावतां निन्दा

    का नाम विद्या

    विदन्ति धर्मार्थकाममोक्षान् अनया इति व्युत्पत्या संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ् भृञिणः इत्यनेन क्यप् प्रत्यये कृते विद्या इति निष्पद्यते । तदिमां सकलपुरुषार्थसाधनचतुष्कां विद्यां प्रवदन्ति विज्ञाः । सा विद्या तन्मतिर्यया इति अक्षराधिगतिकरणत्वात् विद्येत्युच्यते । विद्यायाः शास्त्रमिति च नामान्तरम् ।    विद्यैव तु निर्धारणात् इति सूत्रे परिगृहीतत्वाच्च । परमात्मनः सर्वजीवविलक्षणतया ज्ञानं च विद्याशब्देनोच्यते – तदुक्तं – विद्यात्मनि भिदाबोधः इति ।

    कति सन्तीह विद्याः

    विद्यायाः लौकिकविद्या, आध्यात्मिकविद्या इति प्रभेदद्वयं वर्वर्ति । द्वे विद्ये वेदितव्ये परा चैवापरा च इति उपनिषदस्मानुद्भोधयन्ती ऋगादयः सर्वे यदा भगवत्पराः न भवन्ति तदा अपरविद्याः यदा तु ब्रह्मपरा भवन्ति तदा तु परविद्या इत्यभिधीयते । तदेवं भगवज्ज्ञानसाधनीभूतां विद्यां परविद्यात्वेन अभिषिंचति वेदः। परविद्यायाः ब्रह्मविद्या इत्यपि नामान्तरं विद्यते ।

    विष्णुपुराणे विद्यायाः चतुर्दशप्रभेदाः निरूपिताः –

    अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

    धर्मशास्त्रं पुराणं च विद्या हेत्याश्चतुर्दश ।। इति ।।

    ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः, शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः, ज्योतिषम्, मीमांसा, न्यायः, धर्मशास्त्रं तथा पुराणं इतीमानि चतुर्दशविद्यास्थानानि । 

    विद्याप्राप्तिः

    गुरुशुश्रूषया विद्या इत्यार्योक्तेः विद्यासंप्राप्तये गुरूपसत्तिरेव परमं निदानम् । विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इत्याह उपनिषत्पुरुषः । गुरूपजीवनं विना तत्वमार्गे गमनं असंभवि । अप्रसादाद्गुरोर्विद्या न योथोक्तफलदा भवेत् । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवर्ततरं भवति ।

    अनुवर्तते…

  • श्रीजयतीर्थगुरुभ्यो नमः

    संस्कृतभाषा निखिलविश्ववाङ्मयेषु प्राचीनतमा भाषा इति भाषाशास्त्रज्ञैः भण्यते । अस्यां एव भाषायां उपनिबद्धाः वेदाः साहित्यादयः संस्कृतभाषायाः वैशिष्ट्यं प्रकटयन्ति । एषा काव्याख्यरत्नसमुत्कीर्णा भाषा । काव्येषु महाकाव्यं, खण्डकाव्यं इति विभागद्वयं विद्यते । तेषु काव्येषु कवयः स्वेच्छं कल्पनाभिः काव्यं अलङ्कुर्वन्ति । केचन गाम्भीर्यं प्रदर्शयन्ति । केचन उभयमपि प्रकटीकुर्वन्ति । एवं कालिदासोपि अलङ्कारविषये अतीव दक्षः इति नूनं स अत्युत्तमः महाकविः । अत एव तस्य “उपमा कालिदासस्य” इत्यादयः प्रशस्तयः विद्यन्ते । सः महाकाव्यद्वयं लिलेख तस्मिन् कुमारसम्भवम् अन्यतमम् । तस्मिन् काव्ये अष्टादश सर्गाः सन्ति येषु प्रायः पञ्चाशत् सूक्तयः विद्यन्ते । तत्र एका सूक्तिः तु –

    ।। एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।।

    इति । अस्याः अर्थस्तु –

    गुणवति पुरुषे विद्यमानः अपि दोषः गुणबाहुल्येन अभिभूयतेतमाम् । यथा चन्द्रस्य गुणबाहुल्यं अस्ति । परन्तु अङ्कः दोषः अस्ति सो दोषः गुणेषु निमज्जति । इत्येवं प्रकारेण कुमारसम्भवे बहवः सूक्तयः, उपमाश्च कालिदासेन उपनिबद्धाः ।

    श्रीकृष्णार्पणमस्तु

  • ।।श्रीः।।

    ।।श्रीजयतीर्थगुरुभ्यो नमः।।

    आसीत्परमभागवतः परापरतत्ववित् परमकरुणापूरः सलिलकिसलयदूर्वाङ्कुरैरपि प्रतोष्ये परमे सङ्गी तथापि भोगद्रव्येष्वसङ्गी महात्मा दधीचिर्नामर्षिः । तथा हि-

    सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भूषणम् ।।

    स च क्रियमाणस्वोचितसकलक्रियाकलापः सन् स्वाश्रम आस । स चाश्रमः उन्मत्तगङ्गं तटिनीतटाकप्रान्तः नीरवः सस्वर्यमाणपतत्रितत्यजिरः शोश्रूयमाणवेदवादः दोधूयमानामलानिलः सन्नभ्लाशत । तदवसर एव सङ्क्लिश्यमानो वासवः असुरजनेन कटुना वृत्रेण, शरणं गन्तुकामः शरणमगमद्व्रह्माणम् । ब्रह्माभणीत् – याह्यृषिममलचेतसमनभिमानिनमदम्भिनं महात्मानं दधीचिमिति । स चोत्तिष्ठते मुक्तौ । याचस्व तस्यास्थीनि, कुरुष्व कुलिशं तेन, मारयस्वासुरजनमिति । वचसा प्रीयमाणचेताः शतमन्युः प्रास्थित । अधिवसन्तमाश्रमे निश्रमं दान्तं महर्षिं सन्ददृशे । स चर्षिः प्राघुणिकं पाकशासनं सत्कृत्य समागतिप्रयोजनमप्राक्षीत् । स इन्द्रः मन्द्रस्वनेनाह । भवेस्मिन् महानसुरो समर्थः कष्टायते । तन्निहतिप्रयोजनानि भवदस्थीनि । तत्कृतेहमिहायातः कृपया विश्राणयन्तु भवदस्थीनि । इत्थमिन्द्रवचांस्याकर्ण्य कृपयाभिलक्ष्य तमस्थिप्रदाने कृतमतिः निरुद्धश्वासस्चकासापरमिहिर इव । स ऋषिः लोकमुपकर्तुकामः असुमत्याक्षीत् । तत इन्द्रः आदायास्थीनि दम्भोलिं निर्माय निष्पिपेष वृत्रम् ।।

    ।। श्रीकृष्णार्पणमस्तु ।।

    प्राघुणिकः – अनाहूतोपि यः गृहमायाति स प्राघुणिकः । स चोत्तिष्ठते मुक्तौ – मुक्तिं प्राप्तुं यतते (उदोनूर्ध्वकर्मणि 1.3.24 पा.) । अपरमिहिरः – अपरसूर्यः । विश्राणयन्तु – दास्यन्तु (श्रण दाने विपूर्व एव) । दम्भोलिं – वज्रायुधम्

  • श्रीगुरुभ्यो नमः

    श्रीजयतीर्थगुरुभ्यो नमः

    ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । तद्दृष्ट्वा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः ।।

    अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् …….

    श्रीमन्महाभारतम्,आदिपर्व,संभवपर्व,सप्ताधिकशततमोध्यायः

    आसीत्पुरा तुङ्गतरङ्गगङ्गानन्दनः, अधीतसकलशास्त्रः, भार्गवेण अभ्यस्तशस्त्रवेदः, शन्तनुमनोरथरथसारथिः,रक्तः कृष्णपादयोः,विरक्तः दूषणेषु,सिंहसंहननः शान्तनवो भीष्मो नाम । अयमंशो वसूनां शापान्मानुषत्वमवाप । त्रिपथगाप्रसूनः बाल्य एव अभ्यस्तसकलशस्त्रास्त्रः बृहस्पतिपरशुरामयोः पञ्चशतवर्षमधिजगे । सकलनिगमपक्वान्तःकरणोऽसौ आरूढयौवराज्योऽपि पितृपुनर्विवाहाय भीष्मं प्रतिजज्ञे । नाम्ना भीष्मतां जगाम। तत्याज च सिंहासनम् । अप्यायत पितुर्मोदम् । सोऽयं भीष्मोऽपि साधुष्वभीष्मः । वज्रकायः देवलावण्यवान् विजितसकलनृपतिः अम्बिकाम्बालिके प्राप्य स्वानुजाभ्यामवाहयत् । अद्यायत्स्वपरिणयाय । द्वैपायनानुग्रहसम्भूतविचित्रवीर्यात्मजान् संदृश्य सुमोदमन्वभवत् । अमोदत पौत्रैः धृतराष्ट्रपाण्डुविदुरैः । कालान्तरे स्वदुष्टपौत्रान्नाशनेन क्षारपय इव कालतः कुबुद्धिलीनबुद्धिः दुष्कर्माणि चकार । कदाचित् महाभारते तत्समयमपहाय स्वप्रतिज्ञामृतमधिकर्तुं  कृपाकरः दैवकिः पाणिकृतरथचरणः संहर्तुं गाङ्गेयं ससर्प । तेन कृतार्थोऽसौ प्रसङ्गान्तरे पाण्डवेन छिन्नकायः भगवति कृतरतिः शरशय्यां स्वाधिवासं मनुते स्म । अन्ते कृतोपदोशो युधिष्ठिराय भगवन्तमनुस्मरन् स्वासून् जहौ ।

  • भो भो संस्कृतरसजुषः, गीर्वाणतरङ्गिणीपावितान्तःकरणाः स्वीक्रियन्तां नो हार्दानि स्वागतवचनानि सुप्रयुक्तानि । महदिदं प्रमोदस्थानं यद्वयं संस्कतदिनाचरणमभिलक्ष्य श्रावं श्रावं आमोददायिनीं गीर्वाणवाणीं व्यापारयितुं कलवचनैः विदुषः सन्तोषयितुं गद्यपद्यालङ्कृचवचोभिः उपक्लृप्ताः कल्पितावसराः स्मः इति । अतो तत्र भवन्तो भवन्तः अस्मद्मुखकमलगलितं संस्कृतामोदं पायं पायं जुषध्वम् इति सविनयं प्रार्थयामः। आपरितोषाद्विदुषां न साधु मन्यामहे प्रयोगविज्ञानम्।

    सदा सौधामोदम्भरमिमममोघं रसयुतंं
    नवं नानागीतस्तुतिकलितसारं रसजुषाम् ।
    महं गीर्वाणानां सपदि समलङ्कार्यमुधुना
    भवद्भिः सानन्दं समुपगमनेनाश्रमपदम् ।।