गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
recent posts
about
Category: Uncategorized
-
विद्या ह वै ब्राह्मणमाजगाम गोपाय माम् इति हि श्रुतिः । नाम्ना इयं श्रुतिरपि श्रवणकुहरकुणकायिता । या खल्वमरभारतीति प्रथिततमापि सरस्वती निस्स्वार्थं सकलजनमानसचोदयित्री गिरामावेदयित्री, भानुदारं दारित स्यामिति भूरिमनोभीरुः प्रार्थितपत् । तदनु यथाकालं वैदिकपरम्परापर्यवसितप्रयतमानसा कालत्रयविहितत्रियुगकृतिमन्तो ब्राह्मणा अमरभारतीमरणयोगमुत्कृन्तन्तो यथाकालं स्वाचारपरिचरणादिना इह परिरेमिरे । सेयं परम्परा अनादिकालतो निलिम्पपतिसमुपदिष्टा आस्यादास्यं धिषणाधिषणं हृदयाद्धृदयं प्रावृतत् । उपदेष्टा गुरुः । शिरोनिहितानुदेशशिष्टः शिष्यः । सोयं…
-
महानवरात्रिः यस्माच्च कलिना लोका मज्जिता दुःखसागरे ।। एकपादोपि क्षरति रुदन् धर्मो दिने दिने ।। कलौ काले जनाः केवलं स्वार्थपरायणाः । धनपरायणाः न साधनपरायणाः । धनार्थं कमपि जनं निघ्नन्तः परवञ्चनादिना केनापि प्रयत्नेन स्वल्पमेव सुखं सम्पादयितुं ईहन्ते । न च सुखोपलब्धिसाधनानि विजानन्ति । दुखस्य कारणीभूतं कर्म विधाय सुखं वाञ्छन्ति । तदेवं यदा कथमपि कलिकालजनानां पापनिर्मोक्षः एव सुगमः…
-
महानवरात्रिः यस्माच्च कलिना लोका मज्जिता दुःखसागरे ।। एकपादोपि क्षरति रुदन् धर्मो दिने दिने ।। कलौ काले जनाः केवलं स्वार्थपरायणाः । धनपरायणाः न साधनपरायणाः । धनार्थं कमपि जनं निघ्नन्तः परवञ्चनादिना केनापि प्रयत्नेन स्वल्पमेव सुखं सम्पादयितुं ईहन्ते । न च सुखोपलब्धिसाधनानि विजानन्ति । दुखस्य कारणीभूतं कर्म विधाय सुखं वाञ्छन्ति । तदेवं यदा कथमपि कलिकालजनानां पापनिर्मोक्षः एव सुगमः…
-
श्रीतिरुमले नवरात्रिकाले वाहनोत्सवविशेषचिन्तनम् अखण्डभूमण्डलमण्डनस्य रमावरस्य श्रीनिवासस्य ब्रह्मोत्सवः कस्य न प्रमोदातिशयकारकः । यस्मिन् महोत्सवे वाहनमारुह्य श्रीभूभ्यां सह विराजन्तमादिदेवं दिदृक्षवः कुतूहलार्द्रमनसः भक्तिभावसमुद्गतप्रमोदाश्रुबिन्दवः लक्षाधिकाः जनाः कृतार्थाः अमृताः भवन्ति । रथस्थं केशवं दृष्ट्वा पुनर्जन्म न विद्यते इति भणितिः न खलु वन्ध्यवाक्। रथो नाम स्यन्दनः । एवमेव रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च इति विश्वोक्त्या आत्मानं रथिनं विद्धि शरीरं…
-
नवरात्रिवैभवम् – श्रीमदुत्तरादिमठे उत्सववैशिष्ट्यम् सनातनधर्मस्य वैशिष्ट्यं तस्य ज्ञानपरम्परायां विभिन्नेषु आचारपद्धतिषु च निहितमस्ति । काले काले आचर्यमाणाः उत्सवाः न केवलं वैय्यक्तिकस्थरे अपि तु सामाजिकस्थरे अपि नवनवोल्लासं समासजन्ति । ते च हृदयङ्गमाः उत्सवाः न केवलं आबालगोपालं अनुरञ्जयन्ति अपि तु प्राकृतिक-पौराणिक-सामाजिक-आध्यात्मिकस्थरेषु कस्मैचित् आत्यन्तिकप्रयोजनाय च प्रकल्पन्ते । प्रायः उत्सवाः प्रशस्तेषु पर्वकालेषु आचर्यन्ते । योग्यकाले तेषां आचरणेन लोके शान्तिसम्पदः समुल्लसन्ति…
-
विविधक्षेत्रेषु नवरात्र्युत्सवः ।। भारतस्य प्रतिष्ठे द्वे संस्कृतं सांस्कृतिस्तथा ।। इत्युक्तरीत्या भगवती सुरभारती संस्कृतिश्च भारतदेशे देदीप्यते। सेयं संस्कृतिः अस्मद्देशं प्रतिबिम्बयति । देशश्च संस्कृतिम् । संस्कारेण या संशुध्दा वर्तते सैव संस्कृतिरिति कथ्यते । संस्कृतिः जनपदमाश्रित्य वर्धते यथा भाषा । प्रतिदिनं भाष्यमाणा भाषा जीवतीति यथोच्यते एवं संस्कृतैः जनैः आचारपदमानीता एव संस्कृतिः जीवतीति वक्तुं युक्तम् । भारतीयाः जनाः संस्कृताः…
-
श्रीजयतीर्थगुरुभ्यो नमः अथ कदाचित् विश्वावसुकृशानू स्वर्धुनीप्रतीरोपकण्ठं प्रवर्तमानमहामहिमवन्महमासेदतुः । ददृशतुश्च वैयासकिं वैयात्यादिविततविद्युतिम् । सङ्कथाः प्रावर्तिषुः प्रावृषि प्रवर्षमिव । भगवान् बादरायणिराह – अथ समगमच्छरदां शतम् । प्रतनः पृथिवीपतिरिक्ष्वाकुकुलसम्भवो नाभागः । नाभागोपि नाभिर्भूभागं निश्शेषमेवाशिषत् । समयः समवर्तत । अम्बरीषः सम्बभूव । यो हि विभववरैरप्यविभाव्यः, जलधिरिव तेजस्वी, स्वर्णदीव स्वर्णचरणचरी, नन्दिनीजनक इव नन्दिनीवत्सलतापरिबद्धः, कल्पवृक्ष इव शतकल्पकल्पनाकल्पितप्रदो द्वितीयपाकशासनोsद्वितीयोsपाकशासनः । अमुना हि…
-
नवरात्रोत्सवे दुर्गामाहात्म्यम् विदितमेव तत्र भवतां भवतां यत् – अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ।। इत्यादिना भारतस्य पुण्यक्षेत्रत्वेन प्रसिद्धिः संवर्तते । इह भारते उत्पन्नाः पुण्यकर्मिणः पुण्यात्मान इत्येव गदितुमलम् । भारतीयाः खलु उत्सवप्रियाः। वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्वचित् प्रचलत्येव । महती खलु भारतीया सांस्कृतिकपरम्परा । विदेशेषु अपि उत्सवाः क्रियन्ते तथापि नैव ते भारतीयोत्सवसदृशाः । तेषु धार्मिकतापि…
-
ATTENTION : All Sanskrit Learners and Enthusiasts! [High School Students, College Students and Everyone] Ramotsava – Padyabhiramam (श्रीरामोत्सवपद्याभिरामम्) from Atmashrama Dear All, As you all know, we have a grand inauguration (Praana Pratishtapane) of Sri Rama at Ayodhya on Jan 22, 2024. As part of the celebration of this auspicious and mega event through out…