गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
Category: Uncategorized
-
महानवरात्रिः यस्माच्च कलिना लोका मज्जिता दुःखसागरे ।। एकपादोपि क्षरति रुदन् धर्मो दिने दिने ।। कलौ काले जनाः केवलं स्वार्थपरायणाः । धनपरायणाः न साधनपरायणाः । धनार्थं कमपि जनं निघ्नन्तः परवञ्चनादिना केनापि प्रयत्नेन स्वल्पमेव सुखं सम्पादयितुं ईहन्ते । न च सुखोपलब्धिसाधनानि विजानन्ति । दुखस्य कारणीभूतं कर्म विधाय सुखं वाञ्छन्ति । तदेवं यदा कथमपि कलिकालजनानां पापनिर्मोक्षः एव सुगमः…
-
श्रीतिरुमले नवरात्रिकाले वाहनोत्सवविशेषचिन्तनम् अखण्डभूमण्डलमण्डनस्य रमावरस्य श्रीनिवासस्य ब्रह्मोत्सवः कस्य न प्रमोदातिशयकारकः । यस्मिन् महोत्सवे वाहनमारुह्य श्रीभूभ्यां सह विराजन्तमादिदेवं दिदृक्षवः कुतूहलार्द्रमनसः भक्तिभावसमुद्गतप्रमोदाश्रुबिन्दवः लक्षाधिकाः जनाः कृतार्थाः अमृताः भवन्ति । रथस्थं केशवं दृष्ट्वा पुनर्जन्म न विद्यते इति भणितिः न खलु वन्ध्यवाक्। रथो नाम स्यन्दनः । एवमेव रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च इति विश्वोक्त्या आत्मानं रथिनं विद्धि शरीरं…
-
नवरात्रिवैभवम् – श्रीमदुत्तरादिमठे उत्सववैशिष्ट्यम् सनातनधर्मस्य वैशिष्ट्यं तस्य ज्ञानपरम्परायां विभिन्नेषु आचारपद्धतिषु च निहितमस्ति । काले काले आचर्यमाणाः उत्सवाः न केवलं वैय्यक्तिकस्थरे अपि तु सामाजिकस्थरे अपि नवनवोल्लासं समासजन्ति । ते च हृदयङ्गमाः उत्सवाः न केवलं आबालगोपालं अनुरञ्जयन्ति अपि तु प्राकृतिक-पौराणिक-सामाजिक-आध्यात्मिकस्थरेषु कस्मैचित् आत्यन्तिकप्रयोजनाय च प्रकल्पन्ते । प्रायः उत्सवाः प्रशस्तेषु पर्वकालेषु आचर्यन्ते । योग्यकाले तेषां आचरणेन लोके शान्तिसम्पदः समुल्लसन्ति…
-
विविधक्षेत्रेषु नवरात्र्युत्सवः ।। भारतस्य प्रतिष्ठे द्वे संस्कृतं सांस्कृतिस्तथा ।। इत्युक्तरीत्या भगवती सुरभारती संस्कृतिश्च भारतदेशे देदीप्यते। सेयं संस्कृतिः अस्मद्देशं प्रतिबिम्बयति । देशश्च संस्कृतिम् । संस्कारेण या संशुध्दा वर्तते सैव संस्कृतिरिति कथ्यते । संस्कृतिः जनपदमाश्रित्य वर्धते यथा भाषा । प्रतिदिनं भाष्यमाणा भाषा जीवतीति यथोच्यते एवं संस्कृतैः जनैः आचारपदमानीता एव संस्कृतिः जीवतीति वक्तुं युक्तम् । भारतीयाः जनाः संस्कृताः…
-
श्रीजयतीर्थगुरुभ्यो नमः अथ कदाचित् विश्वावसुकृशानू स्वर्धुनीप्रतीरोपकण्ठं प्रवर्तमानमहामहिमवन्महमासेदतुः । ददृशतुश्च वैयासकिं वैयात्यादिविततविद्युतिम् । सङ्कथाः प्रावर्तिषुः प्रावृषि प्रवर्षमिव । भगवान् बादरायणिराह – अथ समगमच्छरदां शतम् । प्रतनः पृथिवीपतिरिक्ष्वाकुकुलसम्भवो नाभागः । नाभागोपि नाभिर्भूभागं निश्शेषमेवाशिषत् । समयः समवर्तत । अम्बरीषः सम्बभूव । यो हि विभववरैरप्यविभाव्यः, जलधिरिव तेजस्वी, स्वर्णदीव स्वर्णचरणचरी, नन्दिनीजनक इव नन्दिनीवत्सलतापरिबद्धः, कल्पवृक्ष इव शतकल्पकल्पनाकल्पितप्रदो द्वितीयपाकशासनोsद्वितीयोsपाकशासनः । अमुना हि…
-
नवरात्रोत्सवे दुर्गामाहात्म्यम् विदितमेव तत्र भवतां भवतां यत् – अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ।। इत्यादिना भारतस्य पुण्यक्षेत्रत्वेन प्रसिद्धिः संवर्तते । इह भारते उत्पन्नाः पुण्यकर्मिणः पुण्यात्मान इत्येव गदितुमलम् । भारतीयाः खलु उत्सवप्रियाः। वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्वचित् प्रचलत्येव । महती खलु भारतीया सांस्कृतिकपरम्परा । विदेशेषु अपि उत्सवाः क्रियन्ते तथापि नैव ते भारतीयोत्सवसदृशाः । तेषु धार्मिकतापि…
-
ATTENTION : All Sanskrit Learners and Enthusiasts! [High School Students, College Students and Everyone] Ramotsava – Padyabhiramam (श्रीरामोत्सवपद्याभिरामम्) from Atmashrama Dear All, As you all know, we have a grand inauguration (Praana Pratishtapane) of Sri Rama at Ayodhya on Jan 22, 2024. As part of the celebration of this auspicious and mega event through out…
-
श्रीमद्भागवते द्वितीयस्कन्धे प्रथमाध्याये वैराजाख्यस्थूलरूपस्य धारणाश्रयत्वं – विशेषस्तस्य देहोयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ।। आण्डकोशे शरीरेस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो योसौ भगवान् धारणाश्रयः ।। इत्यादिभिः श्लोकैः प्रतिपादितम् । एतच्च भगवतो विराण्णामकस्य स्थूलरूपस्य धारणं मनोयजसाधनीभूतोपाययोः आद्यत्वेन संक्षेपविस्तराभ्यां प्रतिपादितम् । ततः द्वितीयाध्याये मनोजये मुख्यतो भगवद्वाचकैः इन्द्राग्न्यादिभिः पदैः इतरार्थास्मरणरूपं द्वितीयसाधनं विधातुं सर्वनाम्नां भगवानेव…
-
प्रियसंस्कृतरसिकाः, ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति । स हि सर्वस्य कर्ता , पालकः, संहारकश्च । स एव सर्वस्य स्वामी । सः सर्वस्य ईष्टे । अत एव वेदाः तं जगज्जन्मादिकारणत्वेन वर्णयन्ति । यतो वा इमानि भूतानि जायन्ते यतो जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति इत्यादीनि वचनानि सन्ति ।