Author: satyapriya K N
-
अथ प्राप्तहस्तावलम्बनो उषादेव्या प्राचीमुदञ्चन् मयूखमाली । अधस्ताच्च तरुपतत्पयोबिन्दुक्लिन्नमृदाकीर्णपरिसरः । पुण्याश्रमेषु होमधूमलहरीभिः सर्वा च प्रकृतिः सुप्रभातसुखानिलेन उदयासीत् । तेषु चाश्रमेष्वन्तमः धौम्याश्रमः यश्च स्वतपसा नाशितबाह्याभ्यन्तरशत्रुः तस्य आरुणिरुपमन्युर्बैदश्चेति शिष्यत्रयमासीत् । तत्र आरुणिमुपाध्यायोब्रवीत् साम्प्रतिकःखलु वर्षाकालः। सञ्जातासु च तासु वर्षासु विद्रवन्त्यालवालाः गच्छ केदारखण्डं बधान । इत्याजिज्ञपत् ।एवमाज्ञिप्तः ततः प्रस्थाय तत्र प्राप्तः केदारखण्दं बद्धं नाशकत् । स एवं क्लिश्यमानेपश्यदुपायं भवतु एनं…
-
अस्ति पुरा त्रिशङ्कुर्नाम महाराजः यः स्वबाहुबलेन सर्वान् शत्रूनुन्मूल्य सागराम्बरां विश्वम्भरां प्रीत्या शशास । प्रजानां प्रीतिपात्रतां गतः। धर्मेण धरां परिपालयतः तस्य मनसि अनेनैव देहेन स्वर्गारोहणं कार्यं इति चिन्ता समुद्भूता । तामेव चिन्तां निविवेदयिषुः वसिष्ठनेदिष्ठमुपातिष्ठत् । वसिष्ठस्तु तदीयं मनोररथमपथे चलितं बुध्वा तदीयामर्थनां प्रत्याचष्टे । एतेन विद्धहृदयो त्रिशङ्कुः कुलगुरेः वसिष्ठस्य शतं पुत्रान् एकैकशः अभ्यर्थयामास तैः सर्वैरपि निराकृतः रुडावृडावृतनयनःपरुषैः…
-
आसीदयोद्ध्यायां सूर्यवंशजो धर्मात्मा सगरो नाम महाराजःसहि शताश्वमेधी बुभूषुः अश्वमेधेन देवमयष्ट। निर्वर्तितास्तेन एकोनशतं यज्ञाः। प्रारब्धे चशततमे मखे सगरोयं शतमखो भूत्वा मदीयं पदमपहरिष्यतीति भिया वासवो याज्ञियमश्वं रसातलमनैषीत्। तेन प्रयाकुलितस्सगरः स्वषष्टिसहस्राणि । पुत्रनाश्वानयनाय अदिक्षत्। एवमाज्ञिप्तास्तेन्विषन्तः कपिलं निकषा स्थितं वाजिनं दृष्ट्वा चायमेव याज्ञियाश्वापहर्ता अपराधीति मन्यमानाः तमभ्यधाविषुः। तेन रुडवाृतचक्षुस्तान् भस्मीचकार ततस्सगरः स्वपुत्रान्चि-रमनागतान्दृष््ट्वा स्वनप्तारमंशुमन्तं प्रेषयामास सच भस्मीभूतान्तान्वीक्ष्य शोकतप्तः साश्वः सन् सगराय…
-
अस्ति पुरा द्वापरीयः पठनपाठनादिना अनूचानपरंपराप्राप्त – वेदरक्षकः धौम्याचार्यः। तस्य च आरुणिरुपमन्युर्बैदश्चेति शिष्या ह्यासन्। तत्रोपमन्युञ्चाह गुरुर्गाः रक्षेति। स चोपाध्याय वचस्यादरवान्ररक्ष गाः। सोहनि गाः प्रचार्य क्षणदानुवृत्तिं उपल लक्ष्य गमनोन्मुखी सन् गुरुमुपुपेत्याभ्यवन्दत। तञ्च पीवानं दृष्ट्वा गुरुरपृच्छच्चैनं केन जीविकां कल्पयसीति। तदोवाचोपमन्युः भैक्षेणाहं पुष्टात्मास्मीति । तमुपाध्यायोब्रवीत् मह्यमनिवेद्य नोप भोक्तव्यं। तथोक्तःसः भैक्षञ्चरित्वोपाध्याय न्यवेदयत् । स तस्मादुपाध्यायो सर्वमेव भैक्षमगृह्णात्। स तथा कृत्वा…