
रसयामि धृतराष्ट्रगावल्गणिसंवादम्
आसीत् पुरा धृतकुरुराष्ट्रः अम्बिकानन्दनः, अक्ष्णा काणोऽपि गोचरितसकलशास्त्रसारः, साधुरपि तनयमोहान्धः, गान्धारीजानिः, कुरुक्ष्मापती राजा धृतराष्ट्राभिधेयः ।
अथ प्रातःकल्पायां शर्वर्यां कृतशौचः विधिना विधिमानर्च । अथ आरूढसिंहासनः कुरुसंसदि भुवो भर्तार आटेकिरे । सेऽयं संसत् कनकपर्यङ्कोपमण्डिता चन्दनकीलालसु-सिक्ता उपमितनवीनविधुकान्तिः स्वास्तीर्णा व्यरोचत । तत्र हि शान्तनवभारद्वाजाग्रतःसराः, विदुरयुयुत्सुप्रमुखाः, धार्तराष्ट्राग्रेसराः खलाः, धृतराष्ट्रपुरस्सराः प्राविशन् परिषदम् । कमलैरिव कासरः व्यराजत सभा । तत्र पाण्डवाननसुरतरुरेणूत्किरमिव भ्राजमानं स्वक्षत्तृमत्तभृङ्गं सुषिक्तमार्गटेकितारं सादरं प्रवेशयाम्बभूव । अथ सञ्जयः प्रोवाच – हे बाहुजाः पाण्डवान् गत्वा समागतोऽस्मीति विजानीत । यथावयः पाण्डवाः सर्वान् राज्ञः प्रतिनन्दन्ति । वृद्धानभिवादयन्ति । वयस्यान् वयस्यन्ति । यथा धृतराष्ट्रेन आदिष्टोऽहं प्राग् प्रस्थितः तथैवाब्रवं पाण्डवसंसदि । अथ वासुदेवधनञ्जयावब्रूताम् । आश्रुत्य वाचमिमां धृतराष्ट्रः प्रतिबभाषे । “हे सञ्जय पृच्छामि त्वां राजमध्ये यत् वासदेवोऽब्रवीदिति” । गावल्गणिर्वाचं प्रासरत् – “हे पार्थिव प्रविष्टोऽहमन्तःपुरं तद्ददर्श । तत्र सत्यभामाङ्कमुपधानं कृत्वा जनार्दनः शेते । यत्पादपङ्कजरेणुनेत्रीं विबुधसरितमुत्तमाङ्गे निधाय शिवः शिवोऽभवत् तादृशौ पादौ बीभत्स्वङ्के निधाय शयानः पररिदृश्यते । अर्जुनश्च पादौ पाञ्चाल्यङ्के निदधौ । तत्र रोमहर्षः समजनि । तदा कृष्णः दीपनीं धार्तराष्ट्राणां मृदुपूर्वां वाचमारेभे । श्रीभगवानुवाच – “हे क्षत्तः, प्रविश्य कौरवसभां कुरुवृद्धस्य, मतिमतः आचार्यस्य श्रुतिपथगं मे वचनं कुरु । पात्रेष्वथ जहीत हिरण्यम् । कामजं मुदमाप्नुत । प्रेयेभ्यः प्रियं चरत । नः राजा विजये त्वरते । यजताध्वरान् । प्रयजत दक्षिणाः । सुतैर्दारैश्च रमध्वम् । यतः वः साध्वसमागतम् । यदा सभायां कृष्णा दवीयं मामाक्रन्दत् ततः ऋणं प्रवृद्धमिव स्वान्तात् कुतश्चिन्नापसर्पति । मद्वितीयेन करकृतगाण्डीवेन कपिध्वजेन वः वैरमुपस्थिम्” । श्रुत्वैतत् वचः साध्वसं साध्वविशत् त्वत्पुत्रलोभं वीक्ष्य मम । कृष्णौ शतपराक्रमौ । त्वन्नन्दनः तौ नावजानाति भीष्मद्रोणाश्रयः कर्णवचसोज्वलितः । इत्युक्त्वा सञ्जय आस
अनुवर्तते ………..
टिप्पणी
रसयामि – रस आस्वादनस्नेहनयोः इत्यतो लडुत्तमपुरुषैकवचनम्
गावल्गणिः – सञ्जयः । गवल्गणस्यापत्यं पुमान् । गवल्गणस्य – तन्नामकस्य सूतस्य । अत इञ् इति सूत्रेण ( अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे ) इञ् प्रत्ययः
→ गवल्गण + इञ् [सुपो धातुप्रातिपदिकयोः 2|4|71 इति ङस्-प्रत्ययस्य लुक्]
→ गवल्गण + इ [तद्धितेष्वचामादेः 7|2|117 इत्यनेन अङ्गस्य आदिस्वरस्य वृद्धिः]
→ गवल्गण + इ [यस्येति च 6|4|148 इति अकारलोपः]
→ गावल्गणि
गावल्गणे संजय स्वागतं ते इति महाभारते (भीष्मपर्वणि) ।
महाभारततार्पर्यनिर्णये च – गवल्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः । य उद्वहो नाम मरुत् तदंशयुक्तो वशी सञ्जयनामधेयः ।। विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च । समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती ।। म.भा.ता.नि ११.१३९,१४०।।
धृतकुरुराष्ट्रः – कुरूणां राष्ट्रं कुरुराष्ट्रम् । धृतं कुरुराष्ट्रं येन सः धृतकुरुराष्ट्रः । कुरवः इत्यत्र तस्य निवासः ४.२.६९ इति सूत्रेण अण्-प्रत्यये जनपदे लुप् ४.२.८१ इति सूत्रेण लुबि रूपमिदम् ।
अक्ष्णा काणः – येनाङ्गविकारः २.३.२० (येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात्) इति तृतीया ।
गान्धारीजानिः – गान्धारी जानिः यस्य सः । जानिः -पत्नी । जायाया निङ् ५.४.१३४ (जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ) इति निङादेशः ।
प्रातःकल्पा – ईषदूनं प्रातः । कल्पप्-प्रत्ययः स्वार्थिकप्रत्ययः । स्वार्थिक्रत्ययाः “स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि” इति वचनानुसारेण प्रकृतेः लिङ्गवचनानि त्यजन्ति । किन्तु अत्र शर्वरीप्रकृतेः लिङ्गमनुसृत्य स्त्रीत्वं प्राप्तमस्ति । सोऽपदादौ (८.३.३८) इति सूत्रेण विसर्जनीयस्य सकारादेशे प्रसक्ते सोऽपदादावित्यनव्ययस्येति वक्तव्यमिति वचनेन निषिध्यते । अतः ‘प्रातः’ इत्यव्ययम् ।
चन्दनकीललम् – चन्दनजलम् । पयः कीलालममृतम् इत्यमरः ।
सु-सिक्तम् – सुः पूजायाम् इति ‘सु’ इत्यस्य कर्मप्रवचनीयसंज्ञा भवति ।
क्षत्ता – सूतः । सूतः क्षत्ता च सारथिः इत्यमरः ।
बाहुजाः – राजानः । बाहोर्जायन्ते इति बाहुजाः । ‘बाहू राजन्यः स्मृतः’ (पुरुषसूक्तम्) । बाहुजः क्षत्रियो विराट् इत्यमरः ।
बीभत्सुः – अर्जुनः । अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः ।। (विराटपर्वणि)