गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

Category: Uncategorized

  • बालानां मुग्धता सर्वान् आकर्षत्येव । अस्माकं गुरुकुले अद्य बालानां मुग्धभावं अधिकृत्य आशुश्लोकरचनस्पर्धा समभवत् । तत्सन्दर्भे मया सह छात्रैः गुम्फितेयं पद्यावली अत्र प्रस्तूयते । किं रे त्वं वद जग्धवानिह मृदं रामो वदत्यग्रजो नैवाम्बाहमनिन्दितो न जघस प्रेक्षस्व कामं मुखम् । इत्येवं प्रसमीक्ष्य बालचरितं तस्थौ स्मयन्ती प्रसूः बालानां किल मुग्धचेष्टितरसैः को वा न सन्तुष्यति ।। – मदीयं पद्यं…

  • सद्यः प्रद्योतनत्विड्विकसितकमलप्रोदयेनैव गोभिः प्रातर्लोकोयाप्तिर्भवति जगति सद्भास्करोद्यत्करैश्चेत् । एवं सत्यात्मतीर्थस्फुटशुचिकमलोद्यन्मनोज्ञोदयेन प्राप्नोत्वानन्दतीर्थागममहदुदयो मन्मनीषाप्रपञ्चे ।।1।। वाग्धाटीशोधिताशः पटुकरणनतासङ्ख्यकोटीश्वरो यः शाटीभाषस्तटी यो भवपृथुजलधेः पाटिताशेषदोषः । टीकाप्रज्ञो नटी यः स्फुटहरिभगवत्पादभावप्रकाशे टीकामाटङ्क्य चित्ते दिशतु पदरतिं श्रीसदात्मा गुरुर्मे ।।2।।

  • श्री जयतीर्थगुरुभ्यो नमः श्री पादानां वर्धन्तीनिमित्तं रचितः श्लोकः श्लोकरचयिता – अनन्तः

  • प्रातर्यास्यति माधवो मधुपुरीमित्थं मिथो जल्पितम् कर्णाकर्णिकयाकलय्य सहसा सर्वं सदा गोकुलम् । ऊरुन्यस्तकफोणि गण्डविलसत्पाणि प्रकामस्खलद्बा ष्पश्रेणि पदाङ्गुलीविलिखितक्षोणि क्षणेनाभवत् ।। गोकुलं श्रीकृष्णसन्निधानेन प्रेमोत्फुल्ला समुल्लसति । कूजद्भिः विहङ्गमैः, नृत्यद्भिः बर्हिभिः, लुटद्भिः प्लवङ्गमैः, रणद्भिः नूपुरैः, क्वणद्भिः किङ्किणीभिः, झींकुर्वद्भिः कुञ्जरैः, गर्जद्भिः शार्दूलैः, कूर्दद्भिः हरिणैः, झणक्षणायमाणवलयसङ्घट्टनैः, रासोत्सवरताभिः गोपीभिः भुवमवतीर्णं वैकुण्ठपुरमिव शुशुभे वृन्दावनम् । कंसप्रेशितः अक्रूरः श्रीकृष्णं मधुरापुरीं नेतुं समाजगाम । इमां…

  • श्रीबन्नञ्जेत्युपाह्वो विलसतु हृदये पूज्यगोविन्दवर्यो वेदव्यासाङ्घ्रिपद्म-प्रणतमहिमसन्मध्वसिद्धान्तदक्षः । प्रत्यग्र-प्रेमपूर्ण-प्रवचनपरिपाटीप्रबन्धप्रबुद्धो नानाशिष्यप्रकीर्ण-प्रमुदकुमुदसं-तोषकेन्दुप्रकल्पः ।।   – कविराघवेन्द्रः Let us always remember Sri Poojya Bannanje Govindacharya, Who was an unparalleled authority on Madhwa Siddhanta, propounded by Acharya Madhwa, the ever devoted at the feet of Lord Vedavyasa. Who was a foremost exponent of the art of discoursing, remarkably filled with creativity,…

  • श्रीजयतीर्थगुरुभ्यो नमः