गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
recent posts
about
Category: Uncategorized
-
आयुषः क्षण एकोsपि सर्वरत्नैर्न लभ्यते ।नीयते तद्वृथा येन प्रमादः सुमहानहो ।। Even after giving all the gems, not a single movement of life returns. Those who spend these precious movements of life unnecessarily are making such a big mistake.
-
संस्कृतदीपिका 2021 वर्षीया षाण्मासिककक्ष्यायाः आरम्भः अस्मिन् नवम्बर् मासस्य विंशतौ दिनाङ्के भविष्यति । शताधिकं छात्राः अस्यां कक्ष्यायां पञ्जीकरणाय अभ्यर्थनानि प्रेषितवन्तः । तेषां सौकर्याय गूगल् ग्रूप संस्कृतिदीपिका इति नाम्ना आविष्कृतः । संस्कृतदीपिका 2021 इति वाट्सप् गणः अपि समारब्धः । सर्वेषां नवीनानां छात्राणां कृते आत्माश्रमस्य अध्यक्षाः आचार्याः स्वागतं व्याहृतवन्तः । अनेन माध्यमेन छात्राः अचिरादेव संस्कृतभाषायां निरर्गलतया सम्भाषयितुं प्रभवन्ति…
-
।।श्री कृष्णार्पणमस्तु।।
-
सर्वेषां नरसिंहजयन्तीपर्वणः शुभाशयाः । जगदाद्यन्तं अस्मान् पीडयन्तीं कोरोनामहामारीं जगतः विद्रावयितुं कृतपरिकराः जगद्गुरवः श्री 1008 श्री सत्यात्मतीर्थाः 14,000 नरसिंहमन्त्रजपं कर्तुं आज्ञापयापासुः । अस्मिन् नरसिंहजयन्ती पर्वणि तत्समारोपं पुरस्कृत्य नरसिंहमन्त्रस्थपदकदम्बेन समुल्लसन्तीं कांश्चन कवितां जनोयं उपनिबबन्ध । तदास्वाद्यतां पद्यरसः । उग्रं ह्युग्रनखत्विषा प्रमुषिताज्ञानान्धकारापदं वीरं घोररिपुप्रचण्डनिनदप्रध्वंससर्वाननम् । मुत्योर्मृत्युमनन्तसौख्यदमहाविष्णुं नृसिंहाकृतिं वन्दे भद्रमभद्रभीषणमहं प्रत्युज्वलन्तं हरिम् ।।
-
युगादिपर्वाखिलदुःखनर्म दिशत्वखर्वं सुखशान्तिवर्गं गान्धर्वसर्वामरतोषपर्व । वल्लीसुमल्लीगणफुल्लकं नः ।।१।। सम्फुल्लमल्लीकबरीरमेशश्चूतैः सुवल्लीयुतमल्लिकाभिः । सपल्लवां गामपि निर्विपल्लवां प्लवो भवाब्धेर्विदधातु तुष्टाम् ।।२ ।। कौमारारुणभास्करोदयविभासंफुल्लसत्पल्लवैः वल्लीफुल्लसुमल्लिकाकलितसद्वातैः प्रकृत्युद्भवैः । सन्तापं बत निम्बबिम्बमखिलं हित्वा युगादौ नराः सौधामोदकरम्भसम्भृतगुडैस्तुष्यन्तु सन्तः सदा ।।३।। धूपायति सन्तापं गोपायति सज्जनान् सहितमोदान् । तदिदं पर्व युगादिर्विपाशयतु दुःखपङ्किले निमग्नान् ।।४।।
-
अयि सृहदः, साम्प्रतं नूतनवर्षोदयः । आदधाति कामपि विनूतनां शोभाम् । पल्लविता नववनराजिः । स्वागतीकरोति एनां कोकिलध्वनिः । समुल्लसति नृणां चेतसि कापि आशाज्योतिः । प्राप्तकालोयं विकारिवर्षस्य करोनाकृतान् विकारान् विस्मृत्य प्लवं आरुढाः सन्तः दुःखसागरं तर्तुम् । यद्यप्यस्ति प्लवेपि करोनासङ्कटः । किन्तु नूतनाब्दस्य नवीनस्फूर्तिः प्लव इव क्लेशात् अस्मात् संतारयिष्यति इति आशास्यते । प्लवेति अस्य नूतनवर्षस्य अन्वर्थकं नाम ।…