गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
recent posts
about
Category: Uncategorized
-
श्रीः श्रीजयतीर्थगुरुभ्यो नमः पुरार्यरिरासीन्नरधुरीणो करिकरसमकरः शरशतहतनक्तञ्चरः करकृतखरहृद्विभेदरवो गुणास्फालनेन, वनेचरो, हरो रमण्याः, परो देवानां, हरो मारवदनश्रियः, शरभङ्गोपहृतपदो, वरगङ्गाचरः, सकार्मुकदण्डदण्डकचरो मण्डितभूः कमलभूगुरू रामो नाम । स प्राप्तत्र्यवरजोऽजो आस । तस्य ह बभूव पिता दशसु विमलास्वाशासु स्यन्दमानस्यन्दनो स्वाधिकनमःस्वाधिकनमाः स्वच्छधिषणो सुलक्षणो लक्ष्म्यक्षिभाग्राजा । तस्यासन् सुन्दर्यः उर्व्यः । कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् । सुमित्रासूत मित्रप्रभौ सुलक्षणशत्रुघ्नौ लक्ष्मणशत्रुघ्नौ । कैकेय्यसूत…
-
अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ।। मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसम्मतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ।। वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ।। स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ।। श्रीमद्भागवतम्,नवमस्कन्धः,षष्ठोऽध्यायः ३,४,५ श्लोकाः टेकते…
-
देदीप्यते मे चित्तरङ्गे भारद्वाजद्रौणिदौर्योधनिधार्तराष्ट्रैकहिंस्रः अर्जुनसुभद्रामन्दानन्दः अभ्यस्तविद्यास्त्रः कृष्णात् कार्ष्णिः प्रतिदिवसोपजायमानोदयः पाण्डवलक्षणोपबृंहितः पुत्रीभूतपरीक्षित् कौरवपर्वतद्युमणिः भेरीव सकलज्ञातस्वनः कुमारः सौभद्रो नाम । उपमितनवेन्दुवंश्यप्रदीपः दारकृतोत्तरः पद्मव्यूहस्फोटकः सदसत्प्रीत्यप्रीतिकरणेन उपमितेन्दुद्युमणिः सः श्रुतपद्मव्यूहोत्क्रमणः अर्जुनेन अवायत् भियम् । अकोकत विद्याम् । नित्यमच्योतत् स्वभक्तिसस्यम् । अरोठदरिचक्रम् । आजिदिग्गजानामपि भीकरे समरे एकः प्रविष्टो ह्यष्टादशहायनः सिंहशावक इव बलिष्ठसंहननः लक्ष्मणमलक्षमं विदधौ । बाणैः प्रस्वेदितकुरुभारद्वाजाङ्गप्रवीरः तैः कपटेन पटुतरं छेदितगात्रोऽपि…
-
।। श्रीः ।। श्रीजयतीर्थगुरुभ्यो नमः भारतं भारुचं भीरुभूरुहाघविघतकम् । भेदकं संशयस्यातिबोधकं नौमि सच्चिताम् ।। विदितचरमेव समेषां यत् महत्वाद्भारवत्वाच्च महाभारतमुच्यते इति । महाभारतमितिहासः । वेदवेद्यप्रणीतमिदं पञ्चमवेदेन परिगण्यते । अदोऽष्टादशपर्वयुतम् । अष्टादशपर्वयुतोप्यष्टापद इव सुवर्णयुतो महतीं प्रतिष्ठामाटेकते । इतिहासेऽमुके बहवः प्रमुखाः भागाः भवन्ति । यथा- गीता विष्णोर्नामसहस्रं विरोटोद्योपर्वणी इत्यादयः । तेषु भागेषु विदुरनीतिरप्यन्यतमा । नयतेः क्तिनि परे निष्पन्नः…
-
।। श्रीः ।। ।।श्रीजयतीर्थगुरुभ्यो नमः।। निश्चप्रचं एव यत् भारते सुमधुरसरसभरितसर्वभाषोत्पादकगीर्वाणवाणी संस्कृतभाषा साम्प्रतं अपि अस्ति । अस्मिन् लोके विचक्षणैः मन्यते यत् संस्कृतभाषा प्रायः सर्वासां भाषाणां जनयित्री एव । सा भाषा देवभाषा विद्यते तदुक्तं “संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः” ग्रीक्,चैनीस्,लाटिन्,आङ्ग्ल इत्यादयः भाषाः संस्कृतादेव अभवन् । संस्कृतं सर्वदा नित्यं । अन्याः भाषाः अनित्याः इति अधिकृत्य उपनिषदि उक्तं…
-
श्रीगुरुभ्यो नमः। श्रीलक्ष्मीनारायणाय नमः । श्रीजयतीर्थगुरुभ्यो नमः । श्रीयदुपत्याचार्यगुरुभ्यो नमः । राराज्यते मे स्वान्ते सकलाधुनिकधरणीपतिसमभिपूजितशासनः भारतजननीगिरिकन्दरप्रसूतिः, मोदी सज्जनानाम्, अमोदी इतरेषां, माधवाशीर्वादपुष्टाङ्गः, सद्भिः कृतसङ्गः, आश्रितमुरारिशङ्करादिसुमनःपदः गाङ्गतरङ्ग इव देदीप्यमानः भगीरथ इव गीर्वाणतरङ्गिणीपथप्रवृत्तः भारतप्रियप्रधानसचिवो नरेन्द्रमोदी नाम । यद्यपि बहुवक्तव्यं तथापि यथामति श्रीनरेन्द्रमोदिनः उद्गमः,व्यक्तित्वं,तत्कृतभारतयोगदानं,वैशिष्ट्यं,नवभारतशिल्पित्वम् इति बिन्दुपञ्चकमाश्रित्य प्रस्तौमि । उद्गमः सोऽयं बडनगरे हीराबेहेन्-दामोरददासदम्पत्योः लब्धजनिः गुजरातधेनुपयसां रसज्ञः बाल्य एव शालाप्रवृत्तः विरामे…
-
श्रीजयतीर्थगुरुभ्यो नमः आसीत्पुरा समस्तनरदेवकिरीटघट्टितपादपीठः पाकशासन इवापरः प्रियव्रतर्षभषाग्नीध्रसौवीरसिन्धुपतीनां वचोरसज्ञः, राजराजेश्वर इव भ्राशमाणः, हर इव जितमारः, क्षपाकर इव प्रतिदिवसोपजायमानकलः, जलधिरिव लक्ष्मीप्रसूतिः, रत्नाकर इव रत्नप्रसूतिः, मेरुरिवौदार्ये , भुवो भर्ता राजा रहूगणो नाम । अथ कदाचित् इक्षुमत्यास्तटे भगवन्तं कपिलर्षिं द्रष्टुं शिबिकायां व्रजतः रहूगणस्य तत्कुलपतिना शिबिकावाहकपुरुषान्वेषणसमये दैवेनोपसादितः कश्चित् पीवा युवा संहननाङ्गः धुरं वोढुमलमिति पूर्वैः सह गृहीतः प्रसभमतदर्हः उवाह शिबिकां स…
-
श्रीः श्रीजयतीर्थगुरुभ्यो नमः अवित्त पुरा सूर्यवंशे यः स्वबाहुबलेन कृतदैत्यकौतुकः आसमुद्रक्षितीशः आजन्मशुद्धः आस्वर्गयशस्वी त्रिशङ्कुर्नाम महाराजः । धर्मेण इळां परिपालयत: सर्वत्र विजयिनः तस्य मनसि अनेन मर्त्यदेहेनैव स्वर्गारोहणं कार्यं इति लिप्सा समजनि | सः ततः क्रतुं कर्तुमुद्युक्तः तपोनिधिं नैशेशं वसिष्ठमुपेत्य पौरौहित्याय वव्रे। वसिष्ठः तु तस्य मनोरथं अपथे प्रवृत्तं बुद्ध्वा तदर्थानां प्रत्याचष्ट । तत् प्रत्याख्यानेन विद्धहृदयः राजा, वसिष्ठस्य शतपुत्रानुपेत्य…
-
श्रीः श्रीजयतीर्थगुरुभ्यो नमः पुरा किलासीदनुपमहनुर्दनुजजयी भानुमभितोभियातः शैशव एव, पाथोधिप्लवः,भीतरावणः,दूतो हंसकुलहंसायितस्य दयितोऽदनुजानां, स्वे रतो मारुतो नाम । तस्यासीज्जनको केसरी । कञ्जलोचनाञ्जना तस्य माता । स किलैकदा नियोगाद्राघवस्य राघवीमार्गणे मार्गण इव सङ्गताङ्गुलीयकः न्ययुङ्क्त रामेण । कपिभिर्युतो गतोवाचीमपलदपां निधिम् । मार्गमध्य उदतिष्ठदचलो चलतः । कृतज्ञोऽचलः हैमोवाच- विरमस्व दान्तिन् इति पन्थानमवरुध्य । मारुतिरुवाच- न विश्रम इहाहमभियुक्तो रामस्याज्ञया मैथिलीमार्गणे तस्यावसान…