गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

Category: Uncategorized

  • न्यायप्रवृत्तिः नाम न्यायेन प्रवृत्तिः । न्यायश्ब्दश्च धर्मापरपर्यायः । स च धर्मः वेदैकसमधिगम्यः । वेदश्च अपौरुषेयत्वेन स्वतः प्रमाणभूतः । स सर्वधर्माणां आश्रयभूतः । अत एव वेदोखिलो धर्ममूलम् इत्युक्तं भागवते । वेदोक्तः धर्मः दुरूह्यः दुर्निरूप्यः दुरधिगम्यः दुरनुष्ठेयश्च सर्वमानवैः । स च वैदिकधर्मः सदृष्टान्तं निरूपतः व्यासरूपिणा स्वयं नारायणेन । कोह्यन्यः पुण्डरीकाक्षात् महाभारतकृद्भवेत्, नष्टधर्मलोककृपालुभिः ब्रह्मादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार इत्यादिवचनैः…

  • अथारभत वचनं पुनरर्जुनः । यदा पिण्डीकृतकुरुसैन्यतृणः स्वयमनलप्रभः धृष्टद्युम्नः मोडते कुरुसैन्यं तदा स मूढः सन्तप्ता । अपि च कुणपमयमसृणशोणितपङ्कसंस्यन्दमानस्यन्दने विभ्राजमानस्य मम शरवरवेगमूर्छितशान्तनवस्य शरौघैर्विद्धकवचधनुः स्मर्ता हितवचनं पाण्डवानाम् । यच्चक्रविक्रमजितो मगधाधिपश्च सानल्पपुष्टपृतनासहितो मुहुश्च । यस्योरुबाहुमथनेन जिताः सुरेन्द्रास्तं केशवं स हि जिघांसति धार्तराष्ट्रः ।।१।। पूर्वं सुरासुरमृधे सुरवैरिमायाजालावृते समयनेमिमममीमरद्यः । तद्विक्रमार्धमपि यस्य न बभूव सोऽयं जेता किमु प्रणतदेवमममोघवीर्यम् ।।२।। साम्प्रतं…

  • श्रीजयतीर्थगुरुभ्यो नमः सत्यपि सुविस्तृते अलङ्कारसाहित्ये सुमहत्यामपि इतिहासप्रणयनपरम्परायां अलङ्कारशास्त्रस्येतिहासस्य नितरामभावो वर्तते । इदानीन्तने युगे प्रायशः समग्रग्रन्थानां पठनपाठनम् न प्रचलति । अध्येतारोsपि तादृशीं विषयोन्मेषशक्तिं तथा नैवाधिगच्छन्ति । यथा पुरा पठनपाठनपरिपाटी पटीयसी सती सुकुमारशेमुषीकान् तर्कोपकरणैः सनाथी कुरुते स्म । यद्यपि बहोः कालात् अलङ्कारशास्त्रेतिहासः सर्वेभ्यः आवश्यकः । संस्कृतभाषायाः काव्यशास्त्रीयग्रन्थेषु यद्गभीरत्वं यद्भिन्नार्थकत्वं यद्प्रकृष्टत्वं यत् सूक्ष्मत्वं यच्च कामधुक्त्वं विद्योतते न तत्…

  • श्रीजयतीर्थगुरुभ्यो नमः अस्ति पुरा सकललोकस्तूयमानो हरिकलो महामहिमो चलत्कुण्डलमण्डितजनमण्डलमहितो लसत्किरीटी शुभलक्षणो हरिपदसेवकोत्तानपादो नाम । अस्यास्तां उभे जाये सुरुचिः सुनीतिश्चेति । सुरुच्यामासीत् उत्तमो नाम ध्रृवो सुनीत्यां च ।एकदा सुरुचेः पुत्रं उत्तमं राजा अङ्कमारोप्य लालयन् अङ्कमारुरुक्षन्तं ध्रृवं राजा नाभ्यनन्दत एवं चिकीर्षितं तं ध्रृवं सुरुचिः सासूयं अतिगर्विता सती उवाच हे वत्स नृपतेः धिष्ण्यं भवान् आरोढुः नार्हति । यतस्त्वं मम…

  • (सञ्जयधार्तराष्ट्रम् – 1 तः अनुवृत्तम् ) अथाम्बिकेयः आकर्ण्य गिरं भगवतो वासुदेवस्य अप्राक्षीत् तत्क्षत्तारम् । हे सञ्जय – पृच्छामि त्वा, सम्पृच्छस्व चूर्णिताशेषाभिघातिनः लीलयोद्धृतदुर्जयाभेद्यदुर्धरगाण्डीवकार्मुकस्य किरीटिनो वाचम् । सञ्जयो गिरमारेभे – हे राजेन्द्र श्रृणोतु युवराजो दुर्योधनः यदाह युधिष्ठिरानुमतो सव्यसाची पुरतः केशवस्य । ”हे पार्थिवसूत कुरूणां मध्ये , तत्र संशृण्वतः वृथा प्रख्यापितपौरुषस्य सूतापसदस्य सदा मया सह युद्धाभिलाषिणो मन्दप्रज्ञस्य कर्णस्य…

  • श्रीजयतीर्थगुरुभ्यो नमः अथैतदन्तरे ज्ञातोदन्तो रावणो राघवं लोभकामोचूचुदन्मारीचम् । जातरूपजातरूपोसौ पुरश्चचार सीतायाः । सा मूर्छाहेतोर्दानवानामलषदिव रुरुम्। सा बभाषेशमक्षिण्याकृषत्ययं मृगोत आशु प्रदेहीति । रामो रुतमाकर्ण्याभ्यहास्त । जातरूपोसावमुमूर्षुरहैषीत् । रामस्तमारात्संस्पन्दयित्वा तस्याजीजसत् । स भूत्वा मारीचस्तारं रामेति लक्ष्मणेति सीतेति च विचक्रे । रवमाकर्ण्याराद्राघवी भीतेव गमने मतिमनाययत लक्ष्मणं । स राममुपससार । लक्ष्मणो राममुपेयिवानिनस्य प्रतिभप्रभमलोकिष्ट । तत्रावैक्षि निहतस्तेनानुभुवा । अमुष्मिन्रावणो…