Category: Uncategorized

  • आसीदयोद्ध्यायां सूर्यवंशजो धर्मात्मा सगरो नाम महाराजःसहि शताश्वमेधी बुभूषुः अश्वमेधेन देवमयष्ट। निर्वर्तितास्तेन एकोनशतं यज्ञाः। प्रारब्धे चशततमे मखे सगरोयं शतमखो भूत्वा मदीयं पदमपहरिष्यतीति भिया वासवो याज्ञियमश्वं रसातलमनैषीत्। तेन प्रयाकुलितस्सगरः स्वषष्टिसहस्राणि । पुत्रनाश्वानयनाय अदिक्षत्। एवमाज्ञिप्तास्तेन्विषन्तः कपिलं निकषा स्थितं वाजिनं दृष्ट्वा चायमेव याज्ञियाश्वापहर्ता अपराधीति मन्यमानाः तमभ्यधाविषुः। तेन रुडवाृतचक्षुस्तान् भस्मीचकार ततस्सगरः स्वपुत्रान्चि-रमनागतान्दृष््ट्वा स्वनप्तारमंशुमन्तं प्रेषयामास सच भस्मीभूतान्तान्वीक्ष्य शोकतप्तः साश्वः सन् सगराय…

  • अस्ति पुरा  द्वापरीयः पठनपाठनादिना  अनूचानपरंपराप्राप्त – वेदरक्षकः धौम्याचार्यः। तस्य च आरुणिरुपमन्युर्बैदश्चेति शिष्या ह्यासन्। तत्रोपमन्युञ्चाह गुरुर्गाः रक्षेति। स चोपाध्याय वचस्यादरवान्ररक्ष गाः। सोहनि गाः प्रचार्य क्षणदानुवृत्तिं उपल लक्ष्य गमनोन्मुखी सन् गुरुमुपुपेत्याभ्यवन्दत। तञ्च पीवानं दृष्ट्वा गुरुरपृच्छच्चैनं केन जीविकां कल्पयसीति। तदोवाचोपमन्युः भैक्षेणाहं पुष्टात्मास्मीति । तमुपाध्यायोब्रवीत् मह्यमनिवेद्य नोप भोक्तव्यं। तथोक्तःसः भैक्षञ्चरित्वोपाध्याय न्यवेदयत् । स तस्मादुपाध्यायो सर्वमेव भैक्षमगृह्णात्। स तथा कृत्वा…

  • विश्वमञ्चे इदमत्रानुक्त्वा परिस्थातुं न प्रभवति मे चेतः । पद्यप्रपञ्चसमञ्चिता कवयः सूक्तिसुधाकरननिश्चोतद्रसचन्द्रिकया सारस्वतप्रपञ्चमुच्चकाशिरे । प्रकृतिसंस्कृत्योः सङ्गम एव कविप्रतिभाविभवं सम्भावयति । तदत्र प्रकृतिसुभगं चन्द्रमसं संवर्णयितुमीषत्प्रयासो विहितः । सोयं जनमानसं आस्वाद्यपदव्यां तथ्यमेव विहारयतीति विस्रम्भे ।। अनेकवानरोद्योगे रामकार्येब्धिमन्थने । तमीबन्धुर्बन्धभयात्समुद्रादुदपद्यत ।। दिनाधिनाथोपि विभात्यहर्मुखे शर्वोपरिष्टस्तु तदुत्तरेण ।  प्रायस्तरां क्लृप्तपदा हि लोके पराक्पतन्ति स्वविधानकाले ।।१।। धावल्यतौल्यं कथमेव कुर्यां पर्यस्तगीर्वाणवचःप्रकीर्त्या । विस्रस्तविष्ण्वङ्घ्रिमदान्तरेण…

  • अद्य प्रातः दर्पणनाम्नी कवितागोष्ठी प्रावर्तत । अस्याः गोष्ठ्याः अध्यक्षत्वेन विद्वांसः कवयः प्रेक्षाप्रतिष्ठानस्य सम्पादकाः श्रीमन्तः बि.एन् शशिकिरणवर्याः शोभामवर्धयन् । आत्माश्रमच्छात्राः आचार्याश्च रम्याः स्वकीयकविताः प्रास्तुवन्। शशिकिरणवर्या अपि अतिरमणीयाभिः स्वरचिताभिः कविताभिः सभामतोषयन्। गोष्ठ्याः अस्याः मुद्रणमचिरादेव लोकैः संविभज्यते

  • नृसिंह सिंहनादरिक्तदैत्यकुम्भिकुम्भकं हिरण्यधन्यजन्यबालफालपालदोर्द्वयम् मदीयपापलेपतापपावकाक्षियुग्मकम् भजे सुपूर्णदोषदूर तेङ्घ्रिपारिजातकम्  ।।1 कदाचिदागताश्शुभास्ससनन्दनादिपावकाः । विकुण्ठिता बभूवुराप्य ते विकुण्ठरक्षकान् ।। जितारिषट्कुवर्गकास्त रोषताम्रलोचनाः तदाशपन् कृपालवोपि यातमाश्वधोगतिम् ।। 2।। रजस्तमोविलीनविष्णुपादमूलवर्जितम् सुराहुजिह्वयोपरक्तचन्द्रमण्डलोपमम् विदोषजालकालितं समस्तलोककण्टकम् भवेत् त्रिजन्म भीकरं नृलोकदोषगोचरम् ।।3।। इतीह शापतापितौ भभूवतुर्मदोत्कटौ विकुण्ठधामपालकौ जयान्तविष्णुपार्षदौ । अमुक्तधामसंस्थितावतो न चाप्ततामसौ दितेस्सुतत्वमापतुर्सुकश्यपात्मजावुभौ ।। 4 वराहवक्त्रतोत्रशस्त्रघातरूक्षराक्षसं हिरण्मयाक्षनामकं मृतं समीक्ष्य विस्फुरन् । मदीयशूलभिन्नतुण्डमाशुसोदरान्तकं विधाय तर्पये निजं प्रियानुजं त्विति…

  • डा. राघवेन्द्राचार्यः राचूरि निदाघवर्षाहिमशीतशैशिरम् वसन्तमत्यन्तसुगन्धवासितम् सर्वर्तुशोभाञ्चितपूर्णषड्गुणं नमामि गोपीसुतमादिपूरुषम् ।। वसन्तः अशोकताम्राधरपाणिपल्लवः सशोकगोपीवनिताविनोदः लसन् स मायूरसुपिञ्छमौलिः वसन्तगोपालकबालमौलिः निदाघः स तप्तवातागमदीपितस्मरः सवल्लकीकाकलिगीतनिस्वनः सचन्दनाम्बूत्कलितातपक्लमो निदाघरूपोsनुमताङ्गनागणः। वर्षाः सुज्ञानतोयाक्तसुभक्तमानसः प्ररूढभक्त्त्यङ्कुरश्रीनिकेतनः । तटित्प्रभोद्दीपितपुण्यकीर्तनो वर्षर्तुलीलोल्लसतीह माधवः ।। शरत् विकचकुसुमरम्यं गोपिकामञ्जुलास्यं मधुप इव समोदं चुम्बनाप्तप्रमोदं विरचयति स पुत्रो गोपिकाया निशासु शरदिवकृतगात्रः श्रीनिवासोमलासु । हेमन्तः तुहिनकिरणशुभ्रः शुक्लशीतांशुगर्भः दितिकुलकृतशिक्षः गोत्रभिद्गोत्ररक्षः कविजनकृतमोदः कामिनीबन्धुरेषः निजजनपरितापं हन्ति हेमन्तरूपः…

  • वृत्तम् – इन्द्रवज्रा कवनम् – डा. राघवेन्द्राचार्यः राचूरि, प्राध्यापकः, आत्माश्रमगुरुकुलम् हरयेनमः, सर्वाभ्यो देवताभ्यो नमः, सर्वेभ्यो गुरुभ्यो नमः, नमः सभायै केभ्यश्चित् दिनेभ्यः पूर्वं अस्माभिः श्रीरङ्गपट्टने कावेर्याः दर्शनभाग्यं प्राप्तम् आसीत् । ततोपि मैसूरुनगरे रोगमोचनधन्वन्तरिदर्शनं च संपाद्य ततो गर्गेश्वरीक्षेत्रे बृहल्लिंगाकारेण स्थितस्य महारुद्रदेवस्य च दर्शनं कृतम् । ततश्चात्राणामौस्तुक्यमालक्ष्य गगनचुक्कीप्रपातस्य वीक्षणार्थं च प्रस्थितम् । सर्वत्र निरन्तरं महत्याः वृष्टेः कारणात् नद्यां…

  • अपरमिदं भारतसाम्राज्यं खलु निश्शेषमाखण्डलस्येव । बहवः खलु विशेषाः । यदेकेनापि समग्रं जीवनमानन्दोदग्रं जीवेः । अथापि कश्चित् ग्रासी राहुः चन्द्रलेखामिव । यमाहुः वैदेशिक इति । तथा हि सन्ति बहवो देशाः तत्र भवाश्च देशीयाः । येषामत्ययेनापि, सम्प्रति उपजीवनेन जीवातुभूतेन निर्बाधं जीवनमातिष्ठामहे । एषु विश्वेष्वपि देशेषु साध्व्यो राज्यतदङ्गप्रकृतयः सक्रममास्थिषत । तदेतन्निरीक्षणाक्षिप्तविक्षेपात्मानो अस्वस्थात्मानो मानवापसदाः कुनयदनुयोनयो विकृतयोनयस्तुरुष्काः स्ववशमनैषत । कथं…