गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
Author: शुभाङ्गः कट्टे
-
।। श्रीः ।। श्रीजयतीर्थगुरुभ्यो नमः भारतं भारुचं भीरुभूरुहाघविघतकम् । भेदकं संशयस्यातिबोधकं नौमि सच्चिताम् ।। विदितचरमेव समेषां यत् महत्वाद्भारवत्वाच्च महाभारतमुच्यते इति । महाभारतमितिहासः । वेदवेद्यप्रणीतमिदं पञ्चमवेदेन परिगण्यते । अदोऽष्टादशपर्वयुतम् । अष्टादशपर्वयुतोप्यष्टापद इव सुवर्णयुतो महतीं प्रतिष्ठामाटेकते । इतिहासेऽमुके बहवः प्रमुखाः भागाः भवन्ति । यथा- गीता विष्णोर्नामसहस्रं विरोटोद्योपर्वणी इत्यादयः । तेषु भागेषु विदुरनीतिरप्यन्यतमा । नयतेः क्तिनि परे निष्पन्नः…
-
श्रीः श्रीजयतीर्थगुरुभ्यो नमः पुरा किलासीदनुपमहनुर्दनुजजयी भानुमभितोभियातः शैशव एव, पाथोधिप्लवः,भीतरावणः,दूतो हंसकुलहंसायितस्य दयितोऽदनुजानां, स्वे रतो मारुतो नाम । तस्यासीज्जनको केसरी । कञ्जलोचनाञ्जना तस्य माता । स किलैकदा नियोगाद्राघवस्य राघवीमार्गणे मार्गण इव सङ्गताङ्गुलीयकः न्ययुङ्क्त रामेण । कपिभिर्युतो गतोवाचीमपलदपां निधिम् । मार्गमध्य उदतिष्ठदचलो चलतः । कृतज्ञोऽचलः हैमोवाच- विरमस्व दान्तिन् इति पन्थानमवरुध्य । मारुतिरुवाच- न विश्रम इहाहमभियुक्तो रामस्याज्ञया मैथिलीमार्गणे तस्यावसान…
-
।।श्रीः।। ।।श्रीजयतीर्थगुरुभ्यो नमः।। आसीत्परमभागवतः परापरतत्ववित् परमकरुणापूरः सलिलकिसलयदूर्वाङ्कुरैरपि प्रतोष्ये परमे सङ्गी तथापि भोगद्रव्येष्वसङ्गी महात्मा दधीचिर्नामर्षिः । तथा हि- सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भूषणम् ।। स च क्रियमाणस्वोचितसकलक्रियाकलापः सन् स्वाश्रम आस । स चाश्रमः उन्मत्तगङ्गं तटिनीतटाकप्रान्तः नीरवः सस्वर्यमाणपतत्रितत्यजिरः शोश्रूयमाणवेदवादः दोधूयमानामलानिलः सन्नभ्लाशत । तदवसर एव सङ्क्लिश्यमानो वासवः…