संस्कृतदिनाचरणस्य शुभाशयाः

श्रीजयतीर्थगुरुभ्यो नमः

बन्धीकृता इन्द्रमुखामराः श्रीर्दितिप्रजागन्धमहेन चेति ।

भुवङ्गता सत्कविमेरुमूर्धविराजिता नापि निवर्ततेधुना ।

जृम्भद्भास्वरशब्दवारशुभगर्भोद्भूतसुस्पष्ट-

सच्छब्दार्थायुगमन्दबोधरसनासीमासमाभासना ।

सन्मेरूत्तमतुङ्गमङ्गलमहामूर्धोल्लसत्पिङ्गला-

नङ्गाशङ्कितसत्किरीटविमला राराज्यते देवगीः ।।

श्रीकृष्णार्पणमस्तु

महालक्ष्मीः

श्रीजयतीर्थगुरुभ्यो नमः

लक्ष्मीरक्षीणचक्षुः कलुषविघटनातिक्षमप्रेक्षणान्ता

पक्षीशाविष्टरेक्षाक्षरणविलसितप्रेक्षणाक्षीणभूतिः ।

संक्षुब्धानेकभङ्गोच्छिशिरकरमहाकर्षणोद्भूतमूर्तिः

चक्षुःक्षोभाप्तभूतिः कलयतु लयलेशाक्षतोरुप्रबोधा ।।1।।

तस्यार्थश्च- कलुषविघटनातिक्षमप्रेक्षणान्ता यदपाङ्गतः पापौघनाशः पक्षीशाविष्टरो भगवान् तस्येक्षाक्षरणतो विलासितप्रेक्षणा शोभनेक्षणा अक्षीणभूतिः । संक्षुब्धः अनेकभङ्गः समुद्रः भङ्गस्तरङ्ग ऊर्मिरिति । उच्छिशिरकरश्चन्द्रः तस्य महाकर्षणवान् यः सुमद्रः तत्रोद्भूतमूर्तिः चक्षुःशोभया आप्ता सृष्टाद्यनेकभूतिः लयेपि अक्षता अविनावदखिलचेतना लक्ष्मीः अक्षीणचक्षुः कलयतु प्रददातु । समेषां वरलक्ष्मीमहस्य शुभाशयान् प्रेषयत्ययं जनः ।।

श्रीकृष्णार्पणमस्तु

वामनः

श्रीजयतीर्थगुरुभ्यो नमः

पुरासीत् ऋषिवरोऽभीष्टसम्पूरघनाघनो अष्टापदत्विण्मिषप्रकाशितास्यो नष्टमनीषोद्धृतिपराशरात्मजाभक्तानुश्रवसंरतोत्कृष्टधराधरेन्द्राधृतव्रततिततिप्रतिमसटाघटोधृष्टानेकमानिनीनेता सम्मृष्टसत्तत्वो मुनिः कश्यपो नाम । सत्सोर्वीषु योषासु पतिगतिमतिरदितिर्नष्टात्मतनयविभवानुनययुगमलपदयुगनया सा पतिमाह । यथा पठन्ति भागवताः –

ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम

यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।

तथा विधेहि कल्याणं धिया कल्याणकृत्तम ।। इति

तदोवाच कश्यपः भद्रे भद्रं काद्रवेयभोगाभोगिनं मुदा उपतिष्ठस्वेति । शिशिरे हि शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते पयोव्रताभिधं लोकेशगीतं लोकेशेशप्रतोषमिदमाचरेति । सा तदामलमानसा विमलमलयजवासितसुमनोमञ्जरीभिर्भद्रश्रीभिर्बिससन्निभमसृणपयोपृषद्भिरातोष्य कमलामहिलालिङ्गितवक्षसमक्षोभ्यं, अतार्प्सीद्ब्रहविदो ब्राह्मणान् । इत्थमियमहरहरमहेतिमन्ति द्वादशाहानि व्यत्यैत् । कालतश्चाविर्भूय कालातीतो भगवान्, अदितिकतिपयमहावाग्भिरभिष्टुतोम्भोजसम्भवेन च, डिम्भकृतिं मा मामनुष्वेह, वृन्दारकवृन्दमादुहे भूतिवारमित्यभाणीत् । विजयायाममलसंहननो वामनोभवत् । तदाह बादरायणः –

द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।

विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ।।

स वामनरूपी, वामनः सन्मनसाममराणां उपनीतो धृतरथाङ्गाद्यङ्को जयन्नवनीलाजिनावृतः  कमण्डल्वमलिनो धृताक्षमालो नृनक्षाण्याजहार । स वेदिमायाय बलिनो बलिन आहृतोपशतक्रतोः,ततां, जितातिक्रमनृपमहतो, महीयानमहीयांसं त्रिपदं वरमाययाचे । महानुभावो बली कलितमहाविभूतिस्तं तृणायामनुत । याचितोनवरतं, अजस्रं याचयन्तं तं माणवकं वामनं मनस्तोषायानादृतहृदददात्त्रिपदं वरम् । अनुनयी बली, अनुपदमाक्रान्ताखिललोकमधस्तादुपरिष्ठाच्च, सानुयोगं तृतीयपदनिधाने, विज्ञातानुभावो भगवतो महतः, मां पदमवारुन्धीति सप्रश्रयमाशश्रौ । तदुक्तं भागवते पदं तृतीयं कुरु शीर्ष्णि मे निजम् इति । ततश्च प्रभूतावबोधं तं त्रिविक्रम आह – विभूतिनाशो हि सतामनुग्रहः । अतश्च त्वमधितिष्ठ सुतऴं यावतो हि सावर्ण्यागमः । एवं त्रिविक्रमस्तं पदं विभवा आहृत्यान्वग्राहीत् ।।

वामनो वामनास्मत्सन्मानसं तामसं हरन् ।

भूयात्त्रिविक्रमः श्रीमत्त्रयीविख्यातविक्रमः ।।

श्रीकृष्णार्पणमस्तु

टिपण्णी

अष्टापदत्विण्मिषप्रकाशितास्यो  – अष्टापदमष्टसु लोहेषु पदं स्थानमस्येत्यष्टापदं सुवर्णम् जाम्बूनदमष्टापदोस्त्रियाम् इत्यमरः तन्मिषेण व्याजेन मिषं व्याजे स्पर्धने नेति मेदिनी इगुपधेति कः तेन प्रकाशितमास्यं वक्त्रं वक्त्रास्ये वदनं तुण्डमित्यमरः यस्यासौ तथोक्तः कश्यपः ।

अनुश्रवः – गुरुमुखादनु  श्रूयते इत्यनुश्रवो वेदः ऋदोरबित्यप्

व्रततिः – वल्ली तु व्रततिर्लता इति च

सटा – व्रतिनस्तु सटा जटेत्यमरः

अधृष्टा – शालीना अप्रगल्भा लज्जमानेति भावः

नेता – नेता परिवृढः प्रभुरिति च

पतिगतिमतिः- पतिरेव गतिरिति मतिर्मनीषा धीः प्रज्ञा शेमुषी मतिरित्यमरः यस्यासावदितिः

अनुनययुगमलपदयुगनया – अनुनयो नम्रता तया युनक्तीति युक् सत्सू इत्यादिना क्विप् सा च अमलं पदयुगं यस्य सः हरिस्तस्मिन् नयो नम्रता यस्याः सा तथोक्ता ।

 काद्रवेयभोगाभोगिनम् – काद्रवेयः शेषाभिधो नागः काद्रवेयास्तधीश्वर इति च तस्मिन् भोगस्य आभोगः परिपूर्णता आभोगः परिपूर्णता इति च तादृशस्तथोक्तस्तं हरिम्   

शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते – अत्यन्तं शीतलः शीतलतमः आतिशायने तमप् इत्यादिना तमप् तादृशो यो मधुरकिरणश्चन्द्रः किरणोस्त्रमयूखांशुरित्यमरः तेन स्यन्दितो यः शीकरः अम्बुकणः शीकरोम्बुकणःस्मृत इति च तच्च तदानन्दी च आमोदी तेन नन्दितो यः कुन्दकदम्बः कुन्दपुष्पनिकरः निकुरम्बं कदम्बकमित्यमरः तस्य य आमोदः सुखवासनं आमोदः सोतिनिर्हारीति च तेन नन्दिते शोभिते शिशिर इत्यन्वयः । अदिते इति सम्बुद्धिः ।

उपतिष्ठस्व – उप पूर्वात् तिष्ठतेः लोट् उपान्मन्त्रकरणे इत्यात्मनेपदम् । मन्त्रकरणम् स्तवः  

लोकेशगीतम् – लोकेशो ब्रह्मा हिरण्यगर्भो लोकेश इति च तेन गीतमभिहितम् ।

लोकेशेशप्रतोषकम् – लोकेशेशो हरिः तत्प्रतोषकमानन्ददायि व्रतम् ।

 मलयजः – गन्धसारो मलयजः इति च

मञ्जरी – वल्लरी मञ्जरीति च (ಹೂವಿನ ತೆನೆ) इति भाषायाम् ।

भद्रश्रीभिः  – चन्दनेन भद्रश्रीश्चन्दनोस्त्रियाम्  इति च ।

बिससन्निभमसृणपयोपृषद्भिः – विसं नलिनादुद्धृतं बिसं मृणालं बिसमब्जादिकदम्बे इति च तस्य तेन वा सन्निभानि तुल्यानि तुल्यार्थैः इत्यादिना विकल्पितत्वात् । यानि मसृणपयसां मृदुलपयसां पृषन्ति बिन्दूनि पृषन्ति बिन्दुपृषताः इति च ताभिः पयोबिन्दुभिरित्यर्थः

अतार्प्सीत् – तृप प्राणने इत्यतो लुङि पुषादिद्युताद्लृदितः परस्मैपदेषु इति च्लेरङादेशः

ईतयः –  उपद्रवाः

व्यत्यैत् – वि पूर्वात् इण् गतौ इत्यतो लङ्

डिम्भाकृतिं मा मनुष्वेह – डिम्भः अर्भकः पोतःपाकोर्भको डिम्भ इति च तदाकृतिं मा मां इहेदानीं मुनुष्व जनीहि मनुतेर्लोट् 
 वृन्दारकवृन्दमादुहे भूतिवारम् –
देवनिकरं विभवसमूहतो वारसङ्घातसञ्चया इत्यमरः आनन्दयामि दुह्याजित्यादिना द्विकर्मकत्वम्

संहननः – कायः

द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।

विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः

तदर्थश्च यस्मिन्नहनि हरेर्जन्म अभवत् तदा सविता मध्यन्दिनगतो बभूव सा विजयेति कथ्यते ।

वामनः- वामं वल्गु भद्रं नयतीति वामनः यथाह भगवत्पादो मध्वः वामन वामन भामन वन्दे इति तत्र च विश्वपतितीर्थीया वामं कल्याणमकल्याणं च सतामसताञ्च यथायोग्यं नयतीति तस्य सम्बुद्धिः । वामौ वल्गुप्रतीपौ द्वावित्यभिधानात् । न च वामन इत्यत एव तदर्थसिद्धेस्सन्मनसामिति व्यर्थमिति वाच्यम् । स च वैशिष्ट्यद्योतनार्थः यथा ब्राह्मणा आगता वसिष्ठोप्यागत इतिवत् । देवार्थमेव चास्य रूपस्य गृहीतत्वात् ।

धृतरथाङ्गाद्यङ्को – रथाङ्गं चक्रं चक्रं रथाङ्गं तस्यान्ते इति च माणवकः मुद्राधारीत्यर्थः

 जयन्नवनीलाजिनावृतः – जयदुत्कर्षमापद्यन्नवनीलाजिनं तेनावृतः परिवृतः । अजिनस्य नीलत्वं च ऐणेयम्

कमण्डल्वमलिनो – शुभ्रकरकः । कमण्डलौ च करकः इति च तेनामलिनः शुभ्रः

नृनक्षाण्याजहार – दुह्याजिति द्विकर्मकत्वम्

बलिनो बलिनः – पराक्रमवतो बलीन्द्रस्य सैन्यवतो वा वरूथिनी बलं सैन्येमित्यमरः ।शक्तिः पराक्रमः प्राणाविति च

आहृतोपशतक्रतोः,ततां, –  आहृताः इष्टाः उपशतं क्रतवः येनासौ वली । शतोनक्रतुकर्ता इति भावः । ततामिति वेदिविशेषणम्

जितातिक्रमनृपमहतो – जिताः अतिक्रमेण नृपाः येन बलिना स चासौ महान् च तस्य बलिन इत्यनेनान्वयः  

महीयानमहीयांसं त्रिपदं वरमाययाचे – महीयानिति स इत्यतोन्वयः  तादृशो वामनः अमहीयांसं स्वतः परतश्च, द्विवचन इत्यादिना ईयसुन् तादृशं त्रिपदाभिधं वरं आययाचे याचितवान् दुह्याजिति द्विकर्मकता

तृणायामनुत – तं वरं तृणाय मेने अनादरत्वेनाचिन्तयत् । मन्यकर्मण्यनादरे विभाषाप्राणिषु इति वैकल्पिकचतुर्थी । विकल्पाभावे द्वितीया यथा तृणममनुत

अनवरतं – मुहुः

अजस्रम् – पुनः पुनः । न च पुनरुक्तितादोषः । तत्रान्वयस्तु अनवरतं याचितो बली अजस्त्रं याचयन्तमददादिति

सानुयोगम् – सप्रश्नं प्रशनोनुयोगः पृच्छा च इति च

मां पदमवारुन्धीति  – पदा मां आवृणु । दुह्याजित्यादिना द्विकर्मकत्वम्  

आशश्रौ –  आङः श्रा पाके इत्यतो लिटि रूपम् । ननु पाकार्थकस्य कथमिह प्रयोग इति चेत्तदुक्तं तत्वोधिन्यां श्रै धातोरनेकार्थतया पाके वृत्तस्य मित्वार्थेत्रानुवादः । इति (धातुरूपनन्दिनी पु.स.152,धा.स.810) । अनेकर्थत्वात् श्रा धातुरत्र विनम्रतायामुक्तः

अवबोधः – ज्ञानम्

सुतऴमधितिष्ठ – अधि शीङ्स्थीसामिति सुतऴशब्दस्य कर्मता

 सावर्ण्यागमः – तन्नामयुगागमनपर्यन्तम्

तं पदं विभवा आहृत्यान्वग्राहीत् – तं बलिनं भूतिमाहृत्य अन्वग्राहीत् अनुपूर्वात् ग्रहेर्लुङ् । दुह्याजित्यादिना द्विकर्मकता ।

श्लोकार्थश्च – वामनः अस्मद्वामनं यत्सन्मनः खर्वो हृस्वश्च वामनः इति च तस्य तामसं मलिनं हरन् दुह्याजित्यादिना द्विकर्मकत्वं । श्रीमत्त्रयीविख्यातविक्रमः श्रीमान् चासौ वेदविख्यातविक्रमः तिसृभिरवस्थाभिः सृष्टिस्थितसंहाररूपाभिः विख्यातविक्रमो वा तादृशः त्रिविक्रमो भूयात् ।।   

श्रीकृष्णाेर्पणमस्तु

रामायणम्

श्रीजयतीर्थगुरुभ्यो नमः

अथैतदन्तरे ज्ञातोदन्तो रावणो राघवं लोभकामोचूचुदन्मारीचम् । जातरूपजातरूपोसौ पुरश्चचार सीतायाः । सा मूर्छाहेतोर्दानवानामलषदिव रुरुम्। सा बभाषेशमक्षिण्याकृषत्ययं मृगोत आशु प्रदेहीति । रामो रुतमाकर्ण्याभ्यहास्त । जातरूपोसावमुमूर्षुरहैषीत् । रामस्तमारात्संस्पन्दयित्वा तस्याजीजसत् । स भूत्वा मारीचस्तारं रामेति लक्ष्मणेति सीतेति च विचक्रे । रवमाकर्ण्याराद्राघवी भीतेव गमने मतिमनाययत लक्ष्मणं । स राममुपससार । लक्ष्मणो राममुपेयिवानिनस्य प्रतिभप्रभमलोकिष्ट । तत्रावैक्षि निहतस्तेनानुभुवा । अमुष्मिन्रावणो समये समयैत सीताम् । शरण अशरणामारादालक्ष्यासौ रावणः प्राकृत । अग्निजा विदेहजामपनीय परनिमित्तादनल्विधौ स्थानिवद्भावमधत्त । सा भूमिजां प्रहाय सभूमिमग्निजामनेष्ट । सीतोमापतिनिवेशमाविवेश । । विभ्वीं विभुं समया स्थितामिमां विमानो विमान आरोप्य सममन्दिष्ट । अर्दनान्तरे जटायुरजजीज्जानेरजस्य रक्षाकामो । रावणोवाध्वसज्जटायुं तूणिना । निहतपतत्रः पतत्री प्रत्यजञ्जीत् । रावणोसूदत सीरजारक्षाकाम्यं । अपघनापघनोपपदत न्यसूकृतेवाधः । ततो लक्ष्मणराघवावगातां निवसनं । सानुप्रभू रामो तत्रायाय नोदीदसत् सीताम् । तेन दुःखितमिव । विललाप चेत्थम्-

मदेकजाया नवयैवना सती तपस्विनी तप्ततपःप्रमोदिनी

पत्नीवियुक्तः सः पुलस्त्यनन्दनः कुतो विगर्ह्यं चरितं चकार सः ।।

किं मयाचरितोंहः । मया विधिर्विहितोपि स प्रत्यनुपकार्भूत् । तत्र चानुमीयते-

विधिः प्रत्यनुपकारी उपकारवतामननुकूलतया विहितत्वात् दुष्टवत् इति

तथाहि- ”कमपि सकलहृद्यं कल्पयेन्नैव दैवम्” इति विलपन् पुरः समगमदन्विषन् क्षोणिजां । ततोध्वनि न्यसूकृतमिव स्थितं विं विरसौ वीरोन्वैक्षत । जटायुरायुरहासीत्प्रवृत्तमावर्त्य रामाय । रामस्ततोर्ध्वदैहिकमाचरय्य खगस्य निकटमाटिटेक शैलस्य । तत्ररादायान्तं दान्तं विरक्तं पवनसुतं हनुमन्तमालुलोक । पवनसुतोननाम पावनतनुं रामं । रामोस्वङ्क्त मारुतिं । ततोध्वानमाटोक्य सुग्रीवेण सुग्रीवो ऐक्षत । तत्राह्वरितो रामो वानरैर्वा नरैर्माघवतापनविरोधमाविविदे । ततो रविजेनार्तिथतोत्सादने वालिनः । तौ च सम्प्रहरेते । ऐन्द्रमुष्टिभिः प्रतिहतोशक्तः भानुः प्रययौ । इक्षमाणोपि विदिताखिललोकचेष्टो राघवो माघवानं नोत्ससाद । सहोदरजने जनितेपि विरोध उत्सार्यतेबहुर्बहुकालत इति धर्ममभिद्योतयितुं पाकशासनिं नो व्यौच्छीत् । ततश्च-

रामः सीताभिरामोहन्निकामं पाकशासनिम् ।

शिञ्जिनीमञ्जुमुक्ताहिदेश्यकाशवता गवा ।।

वानरो वा नरैः सनरैस्तत्परिवृढैराहत्यामुमुदे । ततोभ्यषिञ्चछ्श्रीरामो कीशारामं सुग्रींवं राज्ये । ततोस्ते च रवौ तद्भुवि भावि कर्मानवबुद्ध्यास्थिते मर्कटे तदधिपे चासंबुद्धे प्रतिकृतिं, सम्प्राप्तकराभिरामभूषः प्रतिविधित्सयाराराद्धराधरस्य धराधरस्य रमणीमणिमभिवीक्षमाणो सहवानरैः । सुग्रीवः प्राससार बलं स्वकं । मारुतिर्मानुमार्गणरतो कालतो कालामाशामभिससार । तत्र चानुवीक्ष्योदधिं तत्समोसावुत्स्कुन्द्य, प्रतीरोधमागर्ह्य यातलङ्कः परानुशङ्कितमूर्तिर्हुंकृत्य लङ्किणीमावलय्य अक्षानुविद्धेक्षो सीतामादंसयामास । तामानम्य पाणिप्रवाले तदाशोभं निधाय परिगृह्य च शीर्षाभ्राजमानं पुरश्चोपसीतया गतेन तेनादध्वंसे वाटिका । पवनसुतोतिमात्रमात्माजानावर्धयित्वा रक्षसः, तर्जयित्वा तं लङ्कामभिदह्य रामपदमापेदे दत्ताङ्गालङ्कृतिः । ततश्च सहवानरो रामो सेतुं निबध्याव्यात्सीद्राक्षसान् । सीतां चाभिसङ्गृह्य सविमानो विमानो नन्दयन् लोकान् नन्दिग्रामप्राप्तः सभरतोयोध्यामाजगाम ।

श्रीरामचन्द्रोमितधर्मसान्द्रः सुसिक्तराज्योमितभोगभोज्यः ।

स्वभक्तदत्तामितभूतिवातसुतप्रदत्तामितभूतिरव्यात् ।।

श्रीकृष्णार्पणमस्तु

रामायणम्-१

श्रीः

श्रीजयतीर्थगुरुभ्यो नमः

पुरार्यरिरासीन्नरधुरीणो करिकरसमकरः शरशतहतनक्तञ्चरः करकृतखरहृद्विभेदरवो गुणास्फालनेन, वनेचरो, हरो रमण्याः, परो देवानां, हरो मारवदनश्रियः, शरभङ्गोपहृतपदो, वरगङ्गाचरः, सकार्मुकदण्डदण्डकचरो मण्डितभूः कमलभूगुरू रामो नाम । स प्राप्तत्र्यवरजोऽजो आस । तस्य ह बभूव पिता दशसु विमलास्वाशासु स्यन्दमानस्यन्दनो स्वाधिकनमःस्वाधिकनमाः स्वच्छधिषणो सुलक्षणो लक्ष्म्यक्षिभाग्राजा । तस्यासन् सुन्दर्यः उर्व्यः । कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् । सुमित्रासूत मित्रप्रभौ सुलक्षणशत्रुघ्नौ लक्ष्मणशत्रुघ्नौ । कैकेय्यसूत स्वरतं भरतम् । ते च प्रववृधिरे चतुरो भ्रातरो हरिशावका इव । ते चासुरधीतिनो धनुषि । अथाजगामैकदा नेतुं विश्वामित्रो विश्वमित्रं सत्रघ्नघ्नाय । शत्रुघ्नावरजो रामो, अन्वयात्तमृषिम् । तत्रारङ्ग्य, मुखश्रुतरसगीरसावयात् युतो मुनिना ताटकामताटकाङ्कर्तुम् । तां प्रतिहन्य, प्रवन्द्य सिद्धं, सिद्धपदमैष्ट । ततो भङ्गं विधाय रक्षसां, रक्षो मखस्य, इयेट स्वयम्वरमवरजयुतः । तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय । दशमोदो दशरथोऽलषद्राममभिषेक्तुं राज्ये । तमभिलाषं हन्तुमुद्यतया निकृत्या, विकृतमत्या कैकेय्याऽभिषेको न्यवधि । तयाऽव्रियेताम् द्वे दशरथात् । भवत्वधिवासो वनं रामः । भरतो हरतु राज्यम् । इमामश्रव्यामाश्रुत्य वाचं अभ्युपागमच्छलेन । ततः स दशस्यन्दनो स्यन्दमानेतुं मन्त्रिणं सुमन्त्रमामन्त्रयत । तेन सुमन्त्रेणानिन्ये । तं स्यन्दमारुह्य सपत्नीकः सपत्ननाशाय सावरजोऽजो पूतः पूतः पुर आर्षीत् । तमन्वयुर्द्विधा द्विजाः । तञ्चर्षयो हंसाः हंसशुक्लशिरोरुहाः गन्धवहबन्धवः उरवो रामप्रियकराः । तमभियान्तं रथे दशरथोऽभिलक्ष्य कियतापि कालेन नातार्प्सीत् । अङ्गनाश्लिष्टाङ्गो दशरथः विलप्य प्रमील्य धरामश्लिक्षत् । ततो रामेण कार्मुकदण्डेन दण्डकेष्वदाक्षि । भरतो नाभिरतो राज्ये रामस्थं देशं ससार । वनेऽवनिजया चकासतं दशस्यन्दनसुतमाननाम भरतः । तेन पूज्यपादः पूज्यपादुके अयाचि । सन्यासे पादुके आदाय भरतो ननन्द नन्द्याख्ये ग्रामे । तत अतीत्य चित्रकूटं चित्रधामा पञ्चवटीमाप । तत्रासौ रममाणः, स्वस्मिन् रममाणान् रमयमाणो आस । तत्रोटजं निर्माय विधायावात्सीत् । एतदन्तर आनृणे विधवा शूर्पणखा । साऽह भव मे पतिरिति । तां रामो हास्यकथयाऽवरजं याहीत्यूचे । ततः स यविष्ठेन, दुष्टचरितां, विकर्णनासां अचीकरत् । प्रतिकर्तुकामा सा शूर्पणखा खरदूषणादीन्प्राहिणोत् । तान्रामोऽमीमरदेकः समरेऽमरस्तुते ।।

टिप्पणी

अर्यरिः– अरीणामरिः राक्षसारी रामः

नरधुरीणः– नरश्रेष्ठः, धुरं वहतीति धुरीणः खः सर्वधुरात्‌  4 4 78 इति खः

शरशतहतनक्तञ्चरः– शरशतेन हतः नक्तञ्चरो येनासाविति, रामः

करकृतखरहृद्विभेदरवो गुणास्फालनेन– हस्तकृतो खराणां अरीणां, तन्नामकस्येति वा हृद्भेविभेदरवः शब्दः येनेति रामः। गुणः ज्या मौर्वी ज्या शिञ्जिनी गुणः इत्यमरःआस्फालनम् आङ् पूर्वात् स्फुर सञ्चलने इत्यतो करणाधिकरणयोश्च 3 3 117 इति ल्युट् । ताडनमित्यर्थः

वनेचरःहलदन्तात्‌ सप्तम्याः संज्ञायाम्   6 3 9 इत्यलुक्

हरो रमण्याः– रमणी सीता सुन्दरी रमणी रामा इत्यमरः । हरः, हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते । ऋदोरप्‌  3 3 57 इत्यप्

शरभङ्गोपहृतपदः– शरभङ्गो ऋषिः तस्मै उपहृतं दत्तं पदं स्थानं येनासौ रामः

सकार्मुकदण्डदण्डकचरो – कार्मुकं धनुः सैव दण्डः तेन सहितः दण्डकेषु अरण्येषु चरः रामः

कमलभूगुरू रामःढ्रलोपे पूर्वस्य दीर्घोऽणः 6 3 111 इति दीर्घः । कमलभूर्ब्रह्मा तद्गुरुः पिता रामः

प्राप्तत्र्यवरजः– प्राप्ताः त्रयो लक्ष्मणभरतशत्रुघ्नाह्वया अवरजाः अनुजाः यवीयोवरजानुजाः इत्यमरः येनेति रामः

स्यन्दमानस्यन्दनः– स्यन्दू प्रस्त्रवणे लटः शतृशानचावप्रथमासमानाधिकरणे 3 2 124 इत्यतो शानच् । स्यन्दमानं गम्यमानं स्यन्दनं रथः यस्येति तथोक्तो दशरथः

स्वाधिकनमःस्वाधिकनमाः-स्वस्मादधिकाः स्वाधिकाः, दशरथादुच्चाः तेषां कृते नमः यस्यास्तीति सः दशरथः अपि च स्वः दशरथः एवाधिकः येषां अयोध्याजनानां ते स्वाधिकाः तेषां नमः यस्यास्ति सः दशरथः

लक्ष्म्यक्षिभाक्– लक्ष्म्याः ये अक्षिणी ते भजतीति लक्ष्म्यक्षिभाक्, सम्पत्तिमान् दशरथः

कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् -कौसल्या कौ भूमौ रक्षोहृदां शल्यं हृदयभेदकं रामं असूत

सुलक्षणशत्रुघ्नौ– शोभनानि लक्षणानि ययोः लक्ष्मणशत्रुघ्न्वोः तौः सुलक्षणौ, शत्रून् हतः इति शत्रुघ्नौ सुलक्षणौ च शत्रुघ्नौ च सुलक्षणशत्रुघ्नौ

स्वरतः– स्वातन्त्र्यात् स्व इति प्रोक्तः भगवान् तस्मिन् रतं अनुरक्तमिति भावः

हरिशावकाः– सिंहशिशवः, पोतः पाकोर्भकः डिम्भः पृथुकः शावकः शिशुः इत्यमरः (lion cubes)

ते चासुरधातिनो धनुषि– ते बालाः धनुषि विषये अधीतिनः आसुः । अधीतमनेनेत्यधीती इष्टादिभ्यश्च 5 2 88 इति इनिः । धनुषि कृतविद्या इति भावः

विश्वमित्रम्मित्रे चर्षौ 6 3 130 इति ह्रस्वः । रामः

सत्रघ्नघ्नाय– सत्रं यज्ञः सत्रमाच्छादने यज्ञे इत्यमरः तं हन्ति नाशयन्ति राक्षसाः तेषां हत्यै

शत्रुघ्नावरजो– शत्रुघ्नो अवरजो यस्येति भावः रामः

अन्वयात्– अनु पूर्वात् यातेर्लङ्

आरङ्ग्य– आङ्पूर्वात् रिगि गतौ इत्यतो ल्यबन्ताव्ययम्

रक्षः मखस्य– यज्ञस्य पालकः

मुखश्रुतरसगीः– मुखेन विश्वामित्रमुखेन श्रुताः रसाः अनुरागयुताः स्नेहाः गिरः त्वत्प्रसादात् अस्मद्यज्ञनिष्पत्तिरभूदित्यादिस्नेहपूर्ववचांसि येन रामेणेति तथोक्तः

ताटकामताटकां कर्तुम्– ताटकां अताटकां निष्चञ्चलां कर्तुं संहर्तुंमित्यर्थः

सिद्धं– मुनिम् । षिधू शास्त्रे माङ्गल्ये च इत्यतो अचि निष्पन्नं । सिद्धिरस्यास्तीति सिद्धः अर्शआदिभ्यो अच् 5 2 17

सिद्धपदंबहवोत्र तपस्यन्तः सन्तः सिद्धत्वं आप्नुयुः । तस्मात्सिद्धाश्रमो नाम इति वचनात् यस्मिन् पदे स्थाने आश्रम इत्यर्थः । बहवः सिद्धाः मुनयः आसन् तादृशं विश्वामित्राश्रमं इत्यर्थः

ऐष्ट– ईङ् गतौ इत्यतो लुङ्

इयेट– इट गतौ इत्यतो लिट्

तत्र हस्तेकृत्य सारसलोचनो सीतां, असिताम्बुदः सजल इव, हंसकुलराजहंसो रामो, पार्थिवं पार्थिवान्, प्रमदं प्रमादाः, च आनिनाय – तत्र स्वयम्वरे, सारसलोचनो कमललोचनो सारसं सरसीरुहं इत्यमरः । हंसः सूर्यः भानुर्हंसः सहस्त्रांशुः इत्यमरः तत्कुलस्य राजहंस इव स्थितः रामः सीतां हस्तेकृत्य नित्यं हस्ते पाणावुपयमने 1 4 77 इति पाणिशब्दस्य गतिसंज्ञा । दारकर्म कृत्वा, यथा, सितं न भवतीति असितं (dark blue) तादृशाम्बुदः मेघः जलपूर्णः सन् पार्थिवान् पृथिव्यां जातान् वृक्षान् सस्यानि च वर्षणेन प्रमदं आनन्दं मुत्प्रीतिः प्रमदो हर्षः इत्यमरः । आनिनाय दुह्याजित्यादिना द्विकर्मकत्वम् । तथा रामः पार्थिवं दशरथं तथा अन्यान् पार्थिवान् तथा प्रमदाः स्त्रियः प्रमदं मोदमानिनाय

दशमोदः– दशेति पूर्णमुद्दिष्टं दशं पूर्णमिहोच्यते इति वचनात् दशशब्दः पूर्णवचनः । पूर्णमोदः इत्यर्थः

अलषत्– लष का्न्तौ इत्यतो लङ् । ऐच्छत्

निकृत्या– कैकेयां निकृत्यावेशः तस्याः कारणतो रामो वनमगच्छत् । यथाहाचार्यः- तथापि सा यदावेशाच्चकार त्वय्यशोभनं ।

निकृतिर्नाम सा क्षिप्ता मया तमसि शाश्वता ।।

रामः वनं अध्यूषो भवतुअधिशीङ्स्थासां कर्म 1 4 46 इत्यतो द्वितीया

भरतो हरतु राज्यम्– भरतः राज्यम् हरतु स्वीकरोतु । हरणं चतुर्विधम्- प्रापणं स्वीकारः स्तेयं नाशनं च । इह स्वीकारे हरणशब्दो विद्यते

आश्रुत्य– आङ्पूर्वात् शृणोतेर्ल्यप्

अभ्युपागमच्छलेनप्रसभं तु बलात्कारो हठोथ स्खलितं छलम् इत्यमरः । अभ्युपागमत् अङ्गीचकार अङ्गीकाराभ्युपगमः प्रतिश्रव समाधयः इत्यमरः

आमन्त्रयत– आङ्पूर्वात् मत्रि गुप्तपरिभाषणे इत्यतो लङ् । स्वरित ञितः कर्त्रभिप्राये क्रियाफले 1 3 72 इत्यतो आत्मनेपदम्

सपत्ननाशाय– सपत्नाः राक्षसाः रिपौ वैरि सपत्नारिः इत्यमरः

पूतः पूतः पुर आर्षीत्– पूतः शुद्धः, त्यक्तभूषणः, परिवीताजिनः इत्यर्थः । पूतः पू स्त्री पुरी नगर्यौ वा पत्तनं पुटभेदनम् इत्यमरः तसिल्प्रत्ययान्तमव्ययम् । पुरः अग्रे आर्षीत् ऋषी गतौ इत्यतो लुङ्

तमन्वयुर्द्विधा द्विजाः– द्विधाः द्विविधाः ब्राहणतो पक्षितश्च

हंसशुक्लशिरोरुहाः हंसाः– हंस इव शुक्लाः सिताः शिरोरुहाः कचः केशः शिरोरुहः इत्यमरः तादृशाः हंसाः योगिनः

गन्धवहबन्धवाः– गन्धवहो वायुः, पृषदश्वो गन्धवहो इत्यमरः, स एव अशनेन बन्धुः एषामिति भावः । तादृशाः योगिनः । पवनाशना इत्यर्थः

रामप्रियकराः– रामस्य प्रियकराः जनाः

अतार्प्सीत्– तृप प्रीणने इत्यतो लुङ्

प्रमील्य– मूर्च्छां प्राप्य, प्रपूर्वात् मील निमेषणे इत्यतो ल्यप् यथाह श्रीहर्षः-

सुताः कमाहूय चिराय चूङ्कृतैर्विधाय कम्प्राणि मुखानि कं प्रति ।

कथासु शिष्यध्वमिति प्रमील्य स स्रुतस्य सेकाद्बुबुधे नृपाश्रुणः ।। इति

धरामश्लिक्षत्– ममार । श्लिषतेर्लुङ्

कार्मुकदण्डेन– कार्मुकं धनुः सैव दण्डो यस्यासौ रामः तेन

अदाक्षि– दक्ष गतिहिंसनयोरित्यतो यकि लुङ् । चचार अवधीदिति वा

अवनिजया चकासतं– अवनिजा सीता तया चकासतं नाभ्यस्ताच्छतुः 7 1 78 इति न नुमागमः । जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा ।

पूज्यपादः– पूज्यौ पादौ यस्यसौ रामः अथवा पूज्यश्चासौ पादश्च पूज्यपादः रामः । उत्तमानां स्वरूपं तु पादशब्देन भण्यते इति वचनात् पादशब्दो उत्तमस्वरूपद्योतकः

सन्यासे पादुके– न्यासभूत-रामदत्त-पादुके इत्यर्थः । न्यासः स्थापनमित्यर्थः

चित्रधामा– चित्रमद्भुतं धाम रश्मिः यस्यासाविति रामः । धाम देहे गृहे रश्मौ इति विश्वः

स्वस्मिन् रममाणान्– स्वस्मिन्नासक्तान्

उटजम्संस्त्यायमुटजं धाम इत्यमरः । गृहमित्यर्थः

आनृणे– ऋणु गतौ इत्यतो लिट्

शूर्पणखापूर्वपदात्‌ संज्ञायामगः 8 4 3 इत्यतो णत्वम्

हास्यकथया– परिहासरुपकथया

अवरजंयवीयोवरजानुजाः इत्यमरः लक्ष्मणमित्यावत्

यविष्ठेनयवीयोवरजानुजाः इत्यमरः लक्ष्मणेनेत्यर्थः

दुष्टचरिताम्– दुष्टं चरितं विधवापुनरुद्वाहरुपं यस्या सा शूर्पणखा

प्रतिकर्तुकामा– प्रतीकारं कर्तुं इच्छावती शूर्पणखा ।

प्राहिणोत्– गि गतौ वृद्धौ च इत्यतो लङ् । हिनुमीना 8 4 15 इति णत्वम्

अमीमरत्– मृणोतेर्णिचि लुङ्

विदुरनीतिः

।। श्रीः ।।

श्रीजयतीर्थगुरुभ्यो नमः

भारतं भारुचं भीरुभूरुहाघविघतकम् ।

भेदकं संशयस्यातिबोधकं नौमि सच्चिताम् ।।

विदितचरमेव समेषां यत् महत्वाद्भारवत्वाच्च महाभारतमुच्यते इति । महाभारतमितिहासः । वेदवेद्यप्रणीतमिदं पञ्चमवेदेन परिगण्यते । अदोऽष्टादशपर्वयुतम् । अष्टादशपर्वयुतोप्यष्टापद इव सुवर्णयुतो महतीं प्रतिष्ठामाटेकते । इतिहासेऽमुके बहवः प्रमुखाः भागाः भवन्ति । यथा- गीता विष्णोर्नामसहस्रं विरोटोद्योपर्वणी इत्यादयः । तेषु भागेषु विदुरनीतिरप्यन्यतमा । नयतेः क्तिनि परे निष्पन्नः नीतिशब्दः, मार्गदर्शनमित्यर्थः । विदेः कुरचि परे निष्पन्नः विदुरशब्दः, वेदनशीलः इत्यर्थः । विद्यारतेर्विदुरो नाम तस्य इति निर्णयोक्त्या तस्य विद्यारतेः विदुरस्य या नीतिः सैव विदुरनीतिः इत्याभण्यते । धृतराष्ट्रो धृतराष्ट्रः यदा सञ्जयं सम्प्रेष्यं सम्प्रेष्य पाण्डवान् प्रति, तस्यागमनोत्तरं पाण्डवेङ्गितमविजानमानः व्याकुलीभूतः निर्निद्रः विदुरं शरणं आपेदे । ततः स उपादिदेश विदुरः । सैव विदुरनीतिः । तत्रादौ पठ्यते । –

अभियुक्तं बलवता दुर्बलं हीनसाधनं ।

ह्रतस्वं कामिनं चोरमाविशन्ति प्रजागराः ।। महा,उद्योगपर्व,प्रजागरपर्व,15 ।।

ये ह्यभियुक्ताः प्रतिस्थिताः बलवद्भिः ये च दुर्बलाः साधनहीनाश्च तथा अपहृतश्रियः ये च कामुकाः चाराश्च तैः रात्रिर्निर्निद्रया ह्रियते । अदश्चाद्यं पद्यं विदुरनीतेः । अधुना विदुरो यमुपदिशति स ह्येतानि पद्योक्तविशेषणानि सर्वाण्यर्हति । यथा – धृतराष्ट्रः – बलवताभियुक्तः पाण्डवाभियुक्तः दुर्बलः पाण्डवसमानबलरहितः साधनहीनः हृतस्वः हृतमानः कामी दुर्योधनपरमविश्वासी चोरः परराज्यचोरः अतोऽधुना जागर्ति क्षपायाम् । अनेनैतद्विज्ञायते नैवं जनैः सम्भूयेत । बलवदभियुक्तो न स्यात् बलमोजो ज्ञानबलं च ज्ञानबलैः ज्ञानवृद्धैः येऽभियुक्ताः ते प्रजाग्रति । इत्थमियं नीतिः सर्वतोमुखतयाऽध्वदर्शिका भवति । अन्यदप्युदाहरणमभिलक्षयामहे ।

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।

पराक्रमाश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ।। महा,उद्योगपर्व,प्रजागरपर्व,106

श्लोकेऽस्मिन् पुरुषलक्षणं विशिनष्टि अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा मेधा कौल्यं साधुकुलोत्पन्नता दमः इन्द्रियनिग्रहः श्रुतं अधीतिः पराक्रमः धैर्यम् अबहुभाषिता स्वल्पभाषिता यथाशक्ति दानं शक्तिमनतिक्रम्य दानशीलता कृतज्ञता कृतार्थता एत अष्टौ पुरुषं द्योतयन्ति । एवमेषा नीतिः समेषामुपकर्त्री ।।

श्रीकृष्णार्पणमस्तु

टिप्पणी

भारुचम्– भाः ज्ञानं रोचयतीति दीपयति भारुक् अन्येभ्योपि दृश्यते इति क्विप्

भीरुभूरुहाघविघातकम्– भीरवः ये भूरुहाः जनाः (भुवि रोहन्ते रुह बीजजन्मनि प्रादुर्भावे च) तेषामघविघातकम् पापनाशकम्, भारतम्

सच्चिताम्– सती चिद्येषामिति सच्चितस्तेषाम् साधूनाम्

अदः– अदसः प्रथमा , इदं इत्यर्थः

अष्टापद इव सुवर्णयुतः– अष्टापदं सुवर्णम् । अष्चसु लोहेषु पदं प्रतिष्ठा इति अष्टापदम् तद्वत् सुवर्णयुतः सु शोभनवर्णैः पदैः युतम् भारतम्, सु शोभनवर्णेन (color) युतं सुवर्णम्

आटेकते– आङो टेकृ गतौ इत्यतो लट् आवहति इति भावः

अमुके – अस्मिन्

नीतिःस्त्रियां क्तिन् 3.3.94

विदुरःविदिभिदिच्छिदेः कुरच् 3.2.162

निर्णयोक्त्या– महाभारततात्पर्यनिर्णयोक्त्या

आभण्यतेभण शब्दे इत्यतो यकि निष्पन्नं रूपम्

धृतराष्ट्रः– धृतं राष्ट्रं देशः येनेति भावः । राष्ट्रं तु विषयः सोपि युक्तो ग्रामैः शताधितकैः इति मेदिनी

सम्प्रेष्यम्सम्पूर्वात् ईष उञ्छे इत्यतो ऋहलोर्ण्यत् 3.1.124 इति ण्यत् , दूतं इत्यर्थः ।

सम्प्रेष्यसम्पूर्वात् प्रेषृ गतौ इत्यतो, समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7.1.137 इति ल्यप्

इङ्गितम्-अभिप्रायः मनोभावः इगि गतौ इत्यतो नपुंसके भावे क्तः इति क्तः

जागर्तिजागृ निद्राक्षये इत्यतो लट्

नैवं जनैः सम्भूयेत – जनैः नैवं भवितव्यम् । सम्पूर्वात् भवतेर्यकि निष्पन्नं रूपम्

प्रजाग्रति – प्रपूर्वात् जागृ निद्राक्षये इत्यतो लड्बहुवचनम्

अध्वदर्शिका – मार्गदर्शिका

अभिलक्षयामहे– अभिपूर्वात् लक्ष दर्शनाङ्कयोः

बहुभाषिता – Chatterbox

हनूमान्

श्रीः

श्रीजयतीर्थगुरुभ्यो नमः

पराक्रमोत्साहमतिप्रतापैः सौन्दर्यमाधुर्यदयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैः हनूमतः को ह्यधिकस्त्रिलोक्याम् ।।

पुरा किलासीदनुपमहनुर्दनुजजयी भानुमभितोभियातः शैशव एव, पाथोधिप्लवः,भीतरावणः,दूतो हंसकुलहंसायितस्य दयितोऽदनुजानां, स्वे रतो मारुतो नाम । तस्यासीज्जनको केसरी । कञ्जलोचनाञ्जना तस्य माता । स किलैकदा नियोगाद्राघवस्य राघवीमार्गणे मार्गण इव सङ्गताङ्गुलीयकः न्ययुङ्क्त रामेण । कपिभिर्युतो गतोवाचीमपलदपां निधिम् । मार्गमध्य उदतिष्ठदचलो चलतः । कृतज्ञोऽचलः हैमोवाच- विरमस्व दान्तिन् इति पन्थानमवरुध्य । मारुतिरुवाच- न विश्रम इहाहमभियुक्तो रामस्याज्ञया मैथिलीमार्गणे तस्यावसान एव विश्रमे नान्यथा इति वचोभिराश्वास्याचलमचलसंहननो आलिङ्ग्य चार्त । गच्छतस्तस्यासीत्प्रत्यूहः । चतुरास्यस्य सिंहिकाख्या कष्टायत इव । तां स गत्वा निर्भिद्याभेद्यां तनुं न्यवर्तत ततः । स समृत्योदन्वन्तं रामकान्तां शान्तां सीतां मार्गमाण आस । स निषेव्य मूलं तरोर्निषण्णामशोकस्याधस्तादद्राक्षीत्सशोकामिव स्थिताम् । स विन्यस्य हस्ते हस्तभूषां दूतोस्मि मातर्दाशरथेरिति प्रोच्योदस्थात् । अभिज्ञानाय अवनिजया विन्यस्तां शिरोभूषां आददे । ततः स प्रणिपत्य नादमुच्चैःकृत्याध्वसदारामम् । स्रंसनोपक्रान्तोऽनन्तवीर्यः सशौण्डीर्यः कश्चिद्वानरः इत्यजिज्ञपन् रावणं दूताः । रावणोऽयौक्षीत् नाशने कीशस्य नक्तञ्चरान् । कियतापि यत्नेन नाशकन्त हनने, स्वयं प्नणष्टाः मारुताग्नौ पतित्वा । तदा रावणो मरुतो मारणे युयोजेन्द्रजितम् । स इन्द्रजित् बाणैरव्यात्सीत् । मारुतिर्न विचचालेतस्ततः । तदा तस्यासुरस्य कश्चनोपायः पुस्फोर । अथास्त्रं विधेः प्रयुज्य, प्राध्वङ्कृत्य तं, आनिनाय समया रावणम्। अस्त्रधूनने आढ्योपि , प्राक् असकृद्विधुतविधिवरः, विधेस्तमस्त्रं मानयन् प्राप रावणम् । सोऽप्राक्षि रावणेन किमर्थं ईदृशं कर्म कृतम्,कस्त्वमिति च । मारुतिराह-

हनूमन्तं विजानीहि जानकीजानिसेवकम्

यर्हि नो यच्छसि प्रीतिकरां रामस्य जानकीम् ।।

तर्हि नश्यसि दुष्टात्मन्पुत्रमित्रयुतो जवात् ।

अत आशु प्रदेहीमां वैदेहीं राघवप्रियाम् ।। (श्लोकः मदीयः)

कान्दिशीको रावणः तस्मै दुद्रुहिषकः क्रुद्धोऽदिशद्दहने पुच्छस्य कपेः । त अधाक्षुर्वह्निं वह्निप्रियसुतं । स सर्वतो पुरीं विदह्याऽयाद्हनूमान् । तमायातमार्चिषुः कीशाः । तत स श्रीशं राममुपेत्य निधाय शिरोभूषां हस्त इदमाह । दृष्टा कष्टायत इव (स्थिता) सीता । इत्थं बह्व्यः सेवा विधायातूतुषद्रामम् ।।

इत्थं स मारुतिवरो विविधाः सुसेवाः कृत्वा रघूत्तमवरं समतोषयद्धि ।

तुष्टो रघूत्तमवरः प्रददौ स्वमूर्तिं गायन्स किम्पुरुषखण्ड उवास नाम।। (श्लोकः मदीयः)

श्रीकृष्णार्पणमस्तु

टिप्पणी

हनुः-ज्ञानम्

पाथोधिप्लवः-पाथः जलम् । कबन्धमुदकं पाथः इत्यमरः । पाथो धीयत अस्मिन्निति पाथोधिः समुद्रः तं प्लवत इति पाथोधिप्लवः

भीतरावणः-भीतो (मुष्टिप्रदानेन त्रस्तः) रावणो येनेति भीतरावणः हनूमान्

हंसकुलहंसायितस्य– हंसः सूर्यः भानुर्हंसः सहस्रांशुः इत्यमरः तस्य यत्कुलं सूर्यकुलं तत्प्रति हंसवद्यो आचरति (आचारार्थे क्विप्) श्रीरामः, सुर्यान्वयहंसः इत्यर्थः

अदनुजाः देवाः

स्वे रतो– स्वः स्वातन्त्र्यात् स्व इति प्रोक्तः भगवान् तस्मिन् रतो आसक्तः

सङ्गताङ्गुलीयकाङ्गः– सङ्गतं यदङ्गुलीयकं (RING) तदङ्गुलीयकमङ्गे शरीरे हस्ते यस्येत्यर्थः

न्ययुङ्त-नियुक्तोऽभवत् निपूर्वात् युजिर् योगे इत्यतो लङ्

अवाचीम्-दक्षिणाम्

अपलत्– पल गतौ लङ्

अपां निधिम्-समुद्रम्

उदतिष्ठत् – उत्पूर्वात् तिष्ठतेर्लङ् उत्थितम्

दान्ती– इन्द्रियनिग्रहवान्

पन्थाः – मार्गः

अवसानं-समाप्तिः

आर्त-ऋणु गतौ इत्यतो लुङ्

प्रत्यूहः-विघ्नः । विघ्नोन्तरायः प्रत्यूहः इत्यमरः

कष्टायत इव – कष्टवदाचरतीति कष्टायते न तु स्वभावतो कष्टाय क्रमणे 3.1.14 । आचारे क्विप् , वार्तिकम्-सर्वप्रातिपदिकेभ्यःविब्वा वक्तव्यः

तां स गत्वा – तां प्रविश्येति यावत्

समृत्य – सम्पूर्वात् ऋणु गतौ इत्यतो ल्यप्

उदन्वन्तं – सिन्धुं, उदन्वानुदधिः सिन्धुः इत्यमरः । उदन्वन्तं समृत्य – सिन्धुं विलङ्घ्य

तरोः मूलं निषेव्य – वृक्षसमीपं गत्वा । विटपी पादपस्तरुः इत्यमरः

विन्यस्य – संस्थाप्य

हस्तभूषाम्– अङ्गुलीयकम्

उदस्थात् – उत्पूर्वात् तिष्ठतेर्लुङ् उत्तस्थौ

अभिज्ञानाय– मया सीतैव दृष्टा इति अभिज्ञानाय ज्ञानार्थम्

अवनिजया– अवनिजा भूमिजा सीतेति यावत्, तया

शिरोभूषाम्– चूडामणिं

उच्चैःकृत्य-अव्ययम् उच्चैः कृत्वा

अध्वसत्– ध्वसु अवस्रंसने इत्यतो लुङ्

आरामः– (Garden) आरामः स्यादुपवनं इत्यमरः

स्रंसनम्-ध्वंसः

अनन्तवीर्यः-बहुवीर्यः

शौण्डीर्यम्-विक्रमः

अयौक्षीत्– युनक्तेर्लुङ्

कीशः-वानरः मर्कटो वानरः कीशः इत्यमरः

नक्तञ्चराः – राक्षसाः

अव्यात्सीत्-व्यध ताडने इत्यतो लुङ् अताडयत्

पुस्फोर– स्फुर सञ्चलने इत्यतो लिट्

समया रावणम् अभितः परितः समया निकषा हा प्रतियोगेपि इत्यतो द्वितीया । रावणस्य समीपं इति यावत्

धूननम्– कम्पनं नाशनमित्यर्थः । ल्युट् च  3.3.115 इत्यतो ल्युट्

आढ्यः-समर्थः

असकृत्– बहुवारम् अभीक्ष्णमसकृत्समाः इत्यमरः

विधुतविधिवरः- विधुतः कम्पितो नाशितो उल्लङ्घित इत्यावत् । विधिवरः ब्रह्मणो वरो येनासौ हनूमानिति यावत् । वि-धुञ् कम्पने इत्यतो भावे क्तः । नपुंसके भावे क्तः 3.3.114

जानिः – पत्नी । जानकी एव जानिः पत्नी यस्य सः जानकीजानिः रामः । जाया शब्दस्य बहुव्रीहिसमासान्ते, जायाया निङ्  5.4.134 इत्यतो निङ्

जवात् – शीघ्रम्

कान्दिशीकः – भीतः कान्दिशीको भयाद्रुतः इत्यमरः

तस्मै दुद्रुहिषकःक्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः 1.4.37 इत्यतश्चतुर्थी । तस्मै हनूमते द्रोहङ्कर्तुकामः द्रोहितुं इच्छास्यास्तीति दुद्रुहिषकः, स्वार्थे कः

अधाक्षुः– दह भस्मीकरणे इत्यतो लुङ्

वह्निप्रियसुतः– वह्निप्रियो वायुः तत्सुतो हनूमान्

आर्चिषुः– ऋच स्तुतौ इत्यतो लुङ्

दृष्टा कष्टायत इव (स्थिता) सीता– कष्टमनुभूयमानेव स्थितेव सीता दृष्टा, मयेति शेषः

अतूतुषत् – तुष्यतेर्णिजन्ताल्लुङ्

मूर्तिम्(देहम्) कायो देहः क्लीब पुंसो स्त्रियां मूर्तिस्तनुस्ततनूः इत्यमरः

महर्षिः दधीचिः

।।श्रीः।।

।।श्रीजयतीर्थगुरुभ्यो नमः।।

आसीत्परमभागवतः परापरतत्ववित् परमकरुणापूरः सलिलकिसलयदूर्वाङ्कुरैरपि प्रतोष्ये परमे सङ्गी तथापि भोगद्रव्येष्वसङ्गी महात्मा दधीचिर्नामर्षिः । तथा हि-

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भूषणम् ।।

स च क्रियमाणस्वोचितसकलक्रियाकलापः सन् स्वाश्रम आस । स चाश्रमः उन्मत्तगङ्गं तटिनीतटाकप्रान्तः नीरवः सस्वर्यमाणपतत्रितत्यजिरः शोश्रूयमाणवेदवादः दोधूयमानामलानिलः सन्नभ्लाशत । तदवसर एव सङ्क्लिश्यमानो वासवः असुरजनेन कटुना वृत्रेण, शरणं गन्तुकामः शरणमगमद्व्रह्माणम् । ब्रह्माभणीत् – याह्यृषिममलचेतसमनभिमानिनमदम्भिनं महात्मानं दधीचिमिति । स चोत्तिष्ठते मुक्तौ । याचस्व तस्यास्थीनि, कुरुष्व कुलिशं तेन, मारयस्वासुरजनमिति । वचसा प्रीयमाणचेताः शतमन्युः प्रास्थित । अधिवसन्तमाश्रमे निश्रमं दान्तं महर्षिं सन्ददृशे । स चर्षिः प्राघुणिकं पाकशासनं सत्कृत्य समागतिप्रयोजनमप्राक्षीत् । स इन्द्रः मन्द्रस्वनेनाह । भवेस्मिन् महानसुरो समर्थः कष्टायते । तन्निहतिप्रयोजनानि भवदस्थीनि । तत्कृतेहमिहायातः कृपया विश्राणयन्तु भवदस्थीनि । इत्थमिन्द्रवचांस्याकर्ण्य कृपयाभिलक्ष्य तमस्थिप्रदाने कृतमतिः निरुद्धश्वासस्चकासापरमिहिर इव । स ऋषिः लोकमुपकर्तुकामः असुमत्याक्षीत् । तत इन्द्रः आदायास्थीनि दम्भोलिं निर्माय निष्पिपेष वृत्रम् ।।

।। श्रीकृष्णार्पणमस्तु ।।

प्राघुणिकः – अनाहूतोपि यः गृहमायाति स प्राघुणिकः । स चोत्तिष्ठते मुक्तौ – मुक्तिं प्राप्तुं यतते (उदोनूर्ध्वकर्मणि 1.3.24 पा.) । अपरमिहिरः – अपरसूर्यः । विश्राणयन्तु – दास्यन्तु (श्रण दाने विपूर्व एव) । दम्भोलिं – वज्रायुधम्