गणेशचतुर्थीशुभाशयाः

श्रीजयतीर्थगुरुभ्यो नमः

अम्बाचुम्बितचन्द्रबिम्बवदनं साम्बोर्वपाङ्गोन्नतं

डिम्भाकारमरन्दसम्मधुकरम्भोरुप्रियं नन्दनम् ।

आरम्भाञ्चितसत्पदं कलितविश्वम्भर्तृविश्वम्भरा

भिख्यं नौम्युरुविघ्ननिघ्नममलं रम्भोरुलम्बोदरम् ।।

कृष्णाष्टमीपर्वणः शुभाशयाः

वधूकदम्बलास्यहासहासिताासिताननम् ।

मधूदकाधराधृतं वधूधुरीणमानसम् ।

विभावरीविलासकान्तिकान्तकान्तिभासुरम् ।

सुवेणुगीतगाथकं जगद्बलाबलाश्रितम् ।।

महालकालिनादपङ्कजाननेनभासुरम् ।

महोत्सवोत्सुकाङ्गिनं रतिप्रतीक्षणोत्सुकम् ।।

सुगोपिकापिकस्वरस्वनत्वरासरोत्सुकम् ।

विनोदनोदिताबलं निशाविषण्णमानसम् ।।

करेण वेणुरेणुशोणितेन कानितोन्नतम् ।

महारसासमोत्युकोद्रतिप्रियं प्रियंवदम् ।।

महालिकाप्तचन्दनं मरन्दमन्दिताधरम् ।

नमामि नन्दनन्दनं रमाचकोरतन्दिरम् ।।