Author: शुभाङ्गः कट्टे

  • श्रीजयतीर्थगुरुभ्यो नमः

  • श्रीजयतीर्थगुरुभ्यो नमः अम्बाचुम्बितचन्द्रबिम्बवदनं साम्बोर्वपाङ्गोन्नतं डिम्भाकारमरन्दसम्मधुकरम्भोरुप्रियं नन्दनम् । आरम्भाञ्चितसत्पदं कलितविश्वम्भर्तृविश्वम्भरा– भिख्यं नौम्युरुविघ्ननिघ्नममलं रम्भोरुलम्बोदरम् ।।

  • श्रीजयतीर्थगुरुभ्यो नमः

  • वधूकदम्बलास्यहासहासिताासिताननम् । मधूदकाधराधृतं वधूधुरीणमानसम् । विभावरीविलासकान्तिकान्तकान्तिभासुरम् । सुवेणुगीतगाथकं जगद्बलाबलाश्रितम् ।। महालकालिनादपङ्कजाननेनभासुरम् । महोत्सवोत्सुकाङ्गिनं रतिप्रतीक्षणोत्सुकम् ।। सुगोपिकापिकस्वरस्वनत्वरासरोत्सुकम् । विनोदनोदिताबलं निशाविषण्णमानसम् ।। करेण वेणुरेणुशोणितेन कानितोन्नतम् । महारसासमोत्युकोद्रतिप्रियं प्रियंवदम् ।। महालिकाप्तचन्दनं मरन्दमन्दिताधरम् । नमामि नन्दनन्दनं रमाचकोरतन्दिरम् ।।

  • श्रीजयतीर्थगुरुभ्यो नमः

  • श्रीजयतीर्थगुरुभ्यो नमः बन्धीकृता इन्द्रमुखामराः श्रीर्दितिप्रजागन्धमहेन चेति । भुवङ्गता सत्कविमेरुमूर्धविराजिता नापि निवर्ततेधुना । जृम्भद्भास्वरशब्दवारशुभगर्भोद्भूतसुस्पष्ट- सच्छब्दार्थायुगमन्दबोधरसनासीमासमाभासना । सन्मेरूत्तमतुङ्गमङ्गलमहामूर्धोल्लसत्पिङ्गला- नङ्गाशङ्कितसत्किरीटविमला राराज्यते देवगीः ।। श्रीकृष्णार्पणमस्तु

  • श्रीजयतीर्थगुरुभ्यो नमः लक्ष्मीरक्षीणचक्षुः कलुषविघटनातिक्षमप्रेक्षणान्ता पक्षीशाविष्टरेक्षाक्षरणविलसितप्रेक्षणाक्षीणभूतिः । संक्षुब्धानेकभङ्गोच्छिशिरकरमहाकर्षणोद्भूतमूर्तिः चक्षुःक्षोभाप्तभूतिः कलयतु लयलेशाक्षतोरुप्रबोधा ।।1।। तस्यार्थश्च- कलुषविघटनातिक्षमप्रेक्षणान्ता यदपाङ्गतः पापौघनाशः पक्षीशाविष्टरो भगवान् तस्येक्षाक्षरणतो विलासितप्रेक्षणा शोभनेक्षणा अक्षीणभूतिः । संक्षुब्धः अनेकभङ्गः समुद्रः भङ्गस्तरङ्ग ऊर्मिरिति । उच्छिशिरकरश्चन्द्रः तस्य महाकर्षणवान् यः सुमद्रः तत्रोद्भूतमूर्तिः चक्षुःशोभया आप्ता सृष्टाद्यनेकभूतिः लयेपि अक्षता अविनावदखिलचेतना लक्ष्मीः अक्षीणचक्षुः कलयतु प्रददातु । समेषां वरलक्ष्मीमहस्य शुभाशयान् प्रेषयत्ययं जनः ।। श्रीकृष्णार्पणमस्तु

  • श्रीजयतीर्थगुरुभ्यो नमः पुरासीत् ऋषिवरोऽभीष्टसम्पूरघनाघनो अष्टापदत्विण्मिषप्रकाशितास्यो नष्टमनीषोद्धृतिपराशरात्मजाभक्तानुश्रवसंरतोत्कृष्टधराधरेन्द्राधृतव्रततिततिप्रतिमसटाघटोधृष्टानेकमानिनीनेता सम्मृष्टसत्तत्वो मुनिः कश्यपो नाम । सत्सोर्वीषु योषासु पतिगतिमतिरदितिर्नष्टात्मतनयविभवानुनययुगमलपदयुगनया सा पतिमाह । यथा पठन्ति भागवताः – ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ।। इति तदोवाच कश्यपः भद्रे भद्रं काद्रवेयभोगाभोगिनं मुदा उपतिष्ठस्वेति । शिशिरे हि शीतलतममधुरकिरणस्यन्दितशीकरानन्दिनन्दितकुन्दकदम्बामोदिनन्दितेदिते पयोव्रताभिधं लोकेशगीतं लोकेशेशप्रतोषमिदमाचरेति ।…

  • श्रीजयतीर्थगुरुभ्यो नमः अथैतदन्तरे ज्ञातोदन्तो रावणो राघवं लोभकामोचूचुदन्मारीचम् । जातरूपजातरूपोसौ पुरश्चचार सीतायाः । सा मूर्छाहेतोर्दानवानामलषदिव रुरुम्। सा बभाषेशमक्षिण्याकृषत्ययं मृगोत आशु प्रदेहीति । रामो रुतमाकर्ण्याभ्यहास्त । जातरूपोसावमुमूर्षुरहैषीत् । रामस्तमारात्संस्पन्दयित्वा तस्याजीजसत् । स भूत्वा मारीचस्तारं रामेति लक्ष्मणेति सीतेति च विचक्रे । रवमाकर्ण्याराद्राघवी भीतेव गमने मतिमनाययत लक्ष्मणं । स राममुपससार । लक्ष्मणो राममुपेयिवानिनस्य प्रतिभप्रभमलोकिष्ट । तत्रावैक्षि निहतस्तेनानुभुवा । अमुष्मिन्रावणो…

  • श्रीः श्रीजयतीर्थगुरुभ्यो नमः पुरार्यरिरासीन्नरधुरीणो करिकरसमकरः शरशतहतनक्तञ्चरः करकृतखरहृद्विभेदरवो गुणास्फालनेन, वनेचरो, हरो रमण्याः, परो देवानां, हरो मारवदनश्रियः, शरभङ्गोपहृतपदो, वरगङ्गाचरः, सकार्मुकदण्डदण्डकचरो मण्डितभूः कमलभूगुरू रामो नाम । स प्राप्तत्र्यवरजोऽजो आस । तस्य ह बभूव पिता दशसु विमलास्वाशासु स्यन्दमानस्यन्दनो स्वाधिकनमःस्वाधिकनमाः स्वच्छधिषणो सुलक्षणो लक्ष्म्यक्षिभाग्राजा । तस्यासन् सुन्दर्यः उर्व्यः । कौसल्यासूत कौ शल्यं रामं रक्षोहृदाम् । सुमित्रासूत मित्रप्रभौ सुलक्षणशत्रुघ्नौ लक्ष्मणशत्रुघ्नौ । कैकेय्यसूत…