गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
Author: शुभाङ्गः कट्टे
-
विश्वमञ्चे इदमत्रानुक्त्वा परिस्थातुं न प्रभवति मे चेतः । पद्यप्रपञ्चसमञ्चिता कवयः सूक्तिसुधाकरननिश्चोतद्रसचन्द्रिकया सारस्वतप्रपञ्चमुच्चकाशिरे । प्रकृतिसंस्कृत्योः सङ्गम एव कविप्रतिभाविभवं सम्भावयति । तदत्र प्रकृतिसुभगं चन्द्रमसं संवर्णयितुमीषत्प्रयासो विहितः । सोयं जनमानसं आस्वाद्यपदव्यां तथ्यमेव विहारयतीति विस्रम्भे ।। अनेकवानरोद्योगे रामकार्येब्धिमन्थने । तमीबन्धुर्बन्धभयात्समुद्रादुदपद्यत ।। दिनाधिनाथोपि विभात्यहर्मुखे शर्वोपरिष्टस्तु तदुत्तरेण । प्रायस्तरां क्लृप्तपदा हि लोके पराक्पतन्ति स्वविधानकाले ।।१।। धावल्यतौल्यं कथमेव कुर्यां पर्यस्तगीर्वाणवचःप्रकीर्त्या । विस्रस्तविष्ण्वङ्घ्रिमदान्तरेण…
-
अपरमिदं भारतसाम्राज्यं खलु निश्शेषमाखण्डलस्येव । बहवः खलु विशेषाः । यदेकेनापि समग्रं जीवनमानन्दोदग्रं जीवेः । अथापि कश्चित् ग्रासी राहुः चन्द्रलेखामिव । यमाहुः वैदेशिक इति । तथा हि सन्ति बहवो देशाः तत्र भवाश्च देशीयाः । येषामत्ययेनापि, सम्प्रति उपजीवनेन जीवातुभूतेन निर्बाधं जीवनमातिष्ठामहे । एषु विश्वेष्वपि देशेषु साध्व्यो राज्यतदङ्गप्रकृतयः सक्रममास्थिषत । तदेतन्निरीक्षणाक्षिप्तविक्षेपात्मानो अस्वस्थात्मानो मानवापसदाः कुनयदनुयोनयो विकृतयोनयस्तुरुष्काः स्ववशमनैषत । कथं…
-
विद्या ह वै ब्राह्मणमाजगाम गोपाय माम् इति हि श्रुतिः । नाम्ना इयं श्रुतिरपि श्रवणकुहरकुणकायिता । या खल्वमरभारतीति प्रथिततमापि सरस्वती निस्स्वार्थं सकलजनमानसचोदयित्री गिरामावेदयित्री, भानुदारं दारित स्यामिति भूरिमनोभीरुः प्रार्थितपत् । तदनु यथाकालं वैदिकपरम्परापर्यवसितप्रयतमानसा कालत्रयविहितत्रियुगकृतिमन्तो ब्राह्मणा अमरभारतीमरणयोगमुत्कृन्तन्तो यथाकालं स्वाचारपरिचरणादिना इह परिरेमिरे । सेयं परम्परा अनादिकालतो निलिम्पपतिसमुपदिष्टा आस्यादास्यं धिषणाधिषणं हृदयाद्धृदयं प्रावृतत् । उपदेष्टा गुरुः । शिरोनिहितानुदेशशिष्टः शिष्यः । सोयं…
-
महानवरात्रिः यस्माच्च कलिना लोका मज्जिता दुःखसागरे ।। एकपादोपि क्षरति रुदन् धर्मो दिने दिने ।। कलौ काले जनाः केवलं स्वार्थपरायणाः । धनपरायणाः न साधनपरायणाः । धनार्थं कमपि जनं निघ्नन्तः परवञ्चनादिना केनापि प्रयत्नेन स्वल्पमेव सुखं सम्पादयितुं ईहन्ते । न च सुखोपलब्धिसाधनानि विजानन्ति । दुखस्य कारणीभूतं कर्म विधाय सुखं वाञ्छन्ति । तदेवं यदा कथमपि कलिकालजनानां पापनिर्मोक्षः एव सुगमः…
-
श्रीजयतीर्थगुरुभ्यो नमः अथ कदाचित् विश्वावसुकृशानू स्वर्धुनीप्रतीरोपकण्ठं प्रवर्तमानमहामहिमवन्महमासेदतुः । ददृशतुश्च वैयासकिं वैयात्यादिविततविद्युतिम् । सङ्कथाः प्रावर्तिषुः प्रावृषि प्रवर्षमिव । भगवान् बादरायणिराह – अथ समगमच्छरदां शतम् । प्रतनः पृथिवीपतिरिक्ष्वाकुकुलसम्भवो नाभागः । नाभागोपि नाभिर्भूभागं निश्शेषमेवाशिषत् । समयः समवर्तत । अम्बरीषः सम्बभूव । यो हि विभववरैरप्यविभाव्यः, जलधिरिव तेजस्वी, स्वर्णदीव स्वर्णचरणचरी, नन्दिनीजनक इव नन्दिनीवत्सलतापरिबद्धः, कल्पवृक्ष इव शतकल्पकल्पनाकल्पितप्रदो द्वितीयपाकशासनोsद्वितीयोsपाकशासनः । अमुना हि…
-
श्रीजयतीर्थगुरुभ्यो नमः
-
श्रीजयतीर्थगुरुभ्यो नमः
-
श्रीजयतीर्थगुरुभ्यो नमः