Author: आत्माश्रमगुरुकुलम्

  • अयि सृहदः, साम्प्रतं नूतनवर्षोदयः । आदधाति कामपि विनूतनां शोभाम् । पल्लविता नववनराजिः । स्वागतीकरोति एनां कोकिलध्वनिः । समुल्लसति नृणां चेतसि कापि आशाज्योतिः । प्राप्तकालोयं विकारिवर्षस्य करोनाकृतान् विकारान् विस्मृत्य प्लवं आरुढाः सन्तः दुःखसागरं तर्तुम् । यद्यप्यस्ति प्लवेपि करोनासङ्कटः । किन्तु नूतनाब्दस्य नवीनस्फूर्तिः प्लव इव क्लेशात् अस्मात् संतारयिष्यति इति आशास्यते । प्लवेति अस्य नूतनवर्षस्य अन्वर्थकं नाम ।…

  • बालानां मुग्धता सर्वान् आकर्षत्येव । अस्माकं गुरुकुले अद्य बालानां मुग्धभावं अधिकृत्य आशुश्लोकरचनस्पर्धा समभवत् । तत्सन्दर्भे मया सह छात्रैः गुम्फितेयं पद्यावली अत्र प्रस्तूयते । किं रे त्वं वद जग्धवानिह मृदं रामो वदत्यग्रजो नैवाम्बाहमनिन्दितो न जघस प्रेक्षस्व कामं मुखम् । इत्येवं प्रसमीक्ष्य बालचरितं तस्थौ स्मयन्ती प्रसूः बालानां किल मुग्धचेष्टितरसैः को वा न सन्तुष्यति ।। – मदीयं पद्यं…

  • प्रातर्यास्यति माधवो मधुपुरीमित्थं मिथो जल्पितम् कर्णाकर्णिकयाकलय्य सहसा सर्वं सदा गोकुलम् । ऊरुन्यस्तकफोणि गण्डविलसत्पाणि प्रकामस्खलद्बा ष्पश्रेणि पदाङ्गुलीविलिखितक्षोणि क्षणेनाभवत् ।। गोकुलं श्रीकृष्णसन्निधानेन प्रेमोत्फुल्ला समुल्लसति । कूजद्भिः विहङ्गमैः, नृत्यद्भिः बर्हिभिः, लुटद्भिः प्लवङ्गमैः, रणद्भिः नूपुरैः, क्वणद्भिः किङ्किणीभिः, झींकुर्वद्भिः कुञ्जरैः, गर्जद्भिः शार्दूलैः, कूर्दद्भिः हरिणैः, झणक्षणायमाणवलयसङ्घट्टनैः, रासोत्सवरताभिः गोपीभिः भुवमवतीर्णं वैकुण्ठपुरमिव शुशुभे वृन्दावनम् । कंसप्रेशितः अक्रूरः श्रीकृष्णं मधुरापुरीं नेतुं समाजगाम । इमां…

  • श्रीबन्नञ्जेत्युपाह्वो विलसतु हृदये पूज्यगोविन्दवर्यो वेदव्यासाङ्घ्रिपद्म-प्रणतमहिमसन्मध्वसिद्धान्तदक्षः । प्रत्यग्र-प्रेमपूर्ण-प्रवचनपरिपाटीप्रबन्धप्रबुद्धो नानाशिष्यप्रकीर्ण-प्रमुदकुमुदसं-तोषकेन्दुप्रकल्पः ।।   – कविराघवेन्द्रः Let us always remember Sri Poojya Bannanje Govindacharya, Who was an unparalleled authority on Madhwa Siddhanta, propounded by Acharya Madhwa, the ever devoted at the feet of Lord Vedavyasa. Who was a foremost exponent of the art of discoursing, remarkably filled with creativity,…

  • श्रीजयतीर्थगुरुभ्यो नमः अस्ति काचित् सरस्वतीदृषद्वतीनद्योः मध्यप्रदेशे ब्रह्मावर्तं नाम पुण्यभूमिः यत्र परमपावनी सरस्वती ऐन्द्रीं दिशमुद्दिश्य स्यन्दति । तत्र महापराक्रमी राजर्षिः पृथुः कस्मिंश्चित् शोभने मुहूर्ते शताश्वमोधसङ्कल्पमकरोत् । एवं यज्ञार्थं दीक्षितः सः राजा विधिवत् क्रतुशतं निर्वर्तयितुमारेभे । पृथुना क्रियमाणोयं यज्ञः शक्रकृतक्रतुशतापेक्षया अतिशयितां भेजे यतः स्वयं सर्वव्यापी सर्वसमर्थः सर्वलोकगुरुः साक्षात्  भगवान् श्रीहरिरेव ऋतावस्मिन् यज्ञपतिर्बभूव । परं सुराधिपः शक्रः स्वकृतक्रतुशकापेक्षया…

  • सकलसुगुणधाम्नः साकेतपूरीधाम्नः श्रीरामनाम्नः दिव्यनाम जयश्रीराम जयश्रीराम इति जेगीयत्कोटिकोटिभक्तवृन्दैरद्यावधि स्रवन्नयनसुनिरीक्षितवेलासम्प्राप्ता इति कस्येदानीं चेतः नानन्दतुन्दिला । ममापि च मानसे रामोत्सवानन्दजनितवेगः कश्चन मां मुखरयति अनवद्यपद्यगुम्फनाय । यथा हि – नृत्यत्यद्यवसुन्धरा तनुरुहप्रोत्फुल्लरोमाञ्चिताखेलत्तुङ्गविहङ्गमेन्दुवदनस्वच्छन्दमन्दस्मिता ।कूजत्कोकिलकम्रकण्ठकवनस्वानन्दसंपूरिता ।श्रीसाकेतपुरीपरापरिलसद्रामालयाडम्बरा ।। जय श्रीराम जय श्रीराम जय जय श्रीराम!!!

  • सर्वेपि अद्य कोविद्-२०१९ इत्यस्मात् वैराणोः संत्रस्ताः । सकलमपि विश्वं भयभ्रान्तमकरोत् अयं वैराणुः । न कोपि देशः अद्यत्वे अवशिष्टः यः अनेन वैराणुना अपरिमृष्टः । अतिसुलभतया अन्यसङ्क्रामकत्वमेव एतस्य बलम् । केवलं सम्पर्कमात्रेण एकस्मात् पुरुषात् अन्यपुरुषं संक्रम्य तमपि कोविदं (कोविद्-ग्रस्तं) करोत्येष वैराणुः । यद्येवं सर्वेपि अनया भङ्ग्या कोविदः भवेयुः तर्हि नारायणावतारस्य भगवतो व्यासस्य किं कृत्यं अवशिष्यते । मन्दजनान्…

  • नमः सर्वेभ्यः,     अहं आचार्य राघवेन्द्रः । संस्कृतच्छात्राणां भवतां समेषां अभिनन्दनानि आशीर्वचांसि च । भवन्तः सर्वे जानन्त्येव यत् संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति जेगीयमानायाः संस्कृतमातुः वरपुत्राः वयं एतद्देशप्रसूताः प्रगल्भभारतीयाः । प्रतिवर्षं श्रावणपूर्णिमायां विश्वसंस्कृतदिनस्य आचरणं विश्वाद्यन्तं संस्कृतप्रेमिभिः क्रियते । आत्माश्रमेपि एष्यत् श्रावणपौर्णिमायां विशेषतया संस्कृतदिनाचरणं भविष्यति । विशेषपूजा, पारायणं, भजनं, संस्कृतकार्यक्रमाश्च तस्मिन् दिने आयोजयिष्यन्ते…

  • प्रिय संस्कृतबन्धो, संस्कृतेन संभाषणं दिनं दिनं अस्माकं यशोवर्धनम् । किल विद्यालयविजयलाञ्छनं गुरुचरणानामेतदञ्चनम् ।। मन्ये नैतदविदितं भवतां संस्कृतं अस्माकं देशभाषाणां मातृरूपेण विराजते इति । अस्माकं देशे बहूनि राज्यानि सन्ति यत्र विभिन्नाः भाषाः प्रोच्यन्ते । उत्तरे देशे हिनदीं तद्विकाराः भाषाः विद्यन्ते । दक्षिणे तेलुगु, तमिल् , कन्नड, मळयाळम् इत्यादयः भाषाः प्रोच्यन्ते । पश्चिमे देशे कोङ्कणि, तुलु, मराठी…

  • कश्चित् कोविदनामकोसुरवरो बंभ्रम्यमाणो भुवि चीनादेशसुलब्धजन्मविभवो नागात् सुतृप्तिं क्वचित् ।। नानादेशजनादनोददहनो दृप्तो हिरण्याभिधस् तं त्वं संहर संहराशुनखराग्रेतं नृसिंहाग्रणीः ।। कोविद् नामकः कश्चन असुरः चीनादेशे जातः । साम्प्रतं सः विजृम्भते सर्वदेशगतजनान् सः संहरति दुःखं च ददाति । एवंभूतोपि स अधुनापि तृप्तिं न प्राप । हे सर्वोत्तम नरसिंह, त्वं तं सद्य एव स्वनखराग्रगतं कृत्वा संहर संहर इति प्रार्थना…