गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
Author: आत्माश्रमगुरुकुलम्
-
अद्य प्रातः दर्पणनाम्नी कवितागोष्ठी प्रावर्तत । अस्याः गोष्ठ्याः अध्यक्षत्वेन विद्वांसः कवयः प्रेक्षाप्रतिष्ठानस्य सम्पादकाः श्रीमन्तः बि.एन् शशिकिरणवर्याः शोभामवर्धयन् । आत्माश्रमच्छात्राः आचार्याश्च रम्याः स्वकीयकविताः प्रास्तुवन्। शशिकिरणवर्या अपि अतिरमणीयाभिः स्वरचिताभिः कविताभिः सभामतोषयन्। गोष्ठ्याः अस्याः मुद्रणमचिरादेव लोकैः संविभज्यते
-
नृसिंह सिंहनादरिक्तदैत्यकुम्भिकुम्भकं हिरण्यधन्यजन्यबालफालपालदोर्द्वयम् मदीयपापलेपतापपावकाक्षियुग्मकम् भजे सुपूर्णदोषदूर तेङ्घ्रिपारिजातकम् ।।1 कदाचिदागताश्शुभास्ससनन्दनादिपावकाः । विकुण्ठिता बभूवुराप्य ते विकुण्ठरक्षकान् ।। जितारिषट्कुवर्गकास्त रोषताम्रलोचनाः तदाशपन् कृपालवोपि यातमाश्वधोगतिम् ।। 2।। रजस्तमोविलीनविष्णुपादमूलवर्जितम् सुराहुजिह्वयोपरक्तचन्द्रमण्डलोपमम् विदोषजालकालितं समस्तलोककण्टकम् भवेत् त्रिजन्म भीकरं नृलोकदोषगोचरम् ।।3।। इतीह शापतापितौ भभूवतुर्मदोत्कटौ विकुण्ठधामपालकौ जयान्तविष्णुपार्षदौ । अमुक्तधामसंस्थितावतो न चाप्ततामसौ दितेस्सुतत्वमापतुर्सुकश्यपात्मजावुभौ ।। 4 वराहवक्त्रतोत्रशस्त्रघातरूक्षराक्षसं हिरण्मयाक्षनामकं मृतं समीक्ष्य विस्फुरन् । मदीयशूलभिन्नतुण्डमाशुसोदरान्तकं विधाय तर्पये निजं प्रियानुजं त्विति…
-
डा. राघवेन्द्राचार्यः राचूरि निदाघवर्षाहिमशीतशैशिरम् वसन्तमत्यन्तसुगन्धवासितम् सर्वर्तुशोभाञ्चितपूर्णषड्गुणं नमामि गोपीसुतमादिपूरुषम् ।। वसन्तः अशोकताम्राधरपाणिपल्लवः सशोकगोपीवनिताविनोदः लसन् स मायूरसुपिञ्छमौलिः वसन्तगोपालकबालमौलिः निदाघः स तप्तवातागमदीपितस्मरः सवल्लकीकाकलिगीतनिस्वनः सचन्दनाम्बूत्कलितातपक्लमो निदाघरूपोsनुमताङ्गनागणः। वर्षाः सुज्ञानतोयाक्तसुभक्तमानसः प्ररूढभक्त्त्यङ्कुरश्रीनिकेतनः । तटित्प्रभोद्दीपितपुण्यकीर्तनो वर्षर्तुलीलोल्लसतीह माधवः ।। शरत् विकचकुसुमरम्यं गोपिकामञ्जुलास्यं मधुप इव समोदं चुम्बनाप्तप्रमोदं विरचयति स पुत्रो गोपिकाया निशासु शरदिवकृतगात्रः श्रीनिवासोमलासु । हेमन्तः तुहिनकिरणशुभ्रः शुक्लशीतांशुगर्भः दितिकुलकृतशिक्षः गोत्रभिद्गोत्ररक्षः कविजनकृतमोदः कामिनीबन्धुरेषः निजजनपरितापं हन्ति हेमन्तरूपः…
-
वृत्तम् – इन्द्रवज्रा कवनम् – डा. राघवेन्द्राचार्यः राचूरि, प्राध्यापकः, आत्माश्रमगुरुकुलम् हरयेनमः, सर्वाभ्यो देवताभ्यो नमः, सर्वेभ्यो गुरुभ्यो नमः, नमः सभायै केभ्यश्चित् दिनेभ्यः पूर्वं अस्माभिः श्रीरङ्गपट्टने कावेर्याः दर्शनभाग्यं प्राप्तम् आसीत् । ततोपि मैसूरुनगरे रोगमोचनधन्वन्तरिदर्शनं च संपाद्य ततो गर्गेश्वरीक्षेत्रे बृहल्लिंगाकारेण स्थितस्य महारुद्रदेवस्य च दर्शनं कृतम् । ततश्चात्राणामौस्तुक्यमालक्ष्य गगनचुक्कीप्रपातस्य वीक्षणार्थं च प्रस्थितम् । सर्वत्र निरन्तरं महत्याः वृष्टेः कारणात् नद्यां…
-
नवरात्रिवैभवम् – श्रीमदुत्तरादिमठे उत्सववैशिष्ट्यम् सनातनधर्मस्य वैशिष्ट्यं तस्य ज्ञानपरम्परायां विभिन्नेषु आचारपद्धतिषु च निहितमस्ति । काले काले आचर्यमाणाः उत्सवाः न केवलं वैय्यक्तिकस्थरे अपि तु सामाजिकस्थरे अपि नवनवोल्लासं समासजन्ति । ते च हृदयङ्गमाः उत्सवाः न केवलं आबालगोपालं अनुरञ्जयन्ति अपि तु प्राकृतिक-पौराणिक-सामाजिक-आध्यात्मिकस्थरेषु कस्मैचित् आत्यन्तिकप्रयोजनाय च प्रकल्पन्ते । प्रायः उत्सवाः प्रशस्तेषु पर्वकालेषु आचर्यन्ते । योग्यकाले तेषां आचरणेन लोके शान्तिसम्पदः समुल्लसन्ति…
-
विविधक्षेत्रेषु नवरात्र्युत्सवः ।। भारतस्य प्रतिष्ठे द्वे संस्कृतं सांस्कृतिस्तथा ।। इत्युक्तरीत्या भगवती सुरभारती संस्कृतिश्च भारतदेशे देदीप्यते। सेयं संस्कृतिः अस्मद्देशं प्रतिबिम्बयति । देशश्च संस्कृतिम् । संस्कारेण या संशुध्दा वर्तते सैव संस्कृतिरिति कथ्यते । संस्कृतिः जनपदमाश्रित्य वर्धते यथा भाषा । प्रतिदिनं भाष्यमाणा भाषा जीवतीति यथोच्यते एवं संस्कृतैः जनैः आचारपदमानीता एव संस्कृतिः जीवतीति वक्तुं युक्तम् । भारतीयाः जनाः संस्कृताः…
-
ATTENTION : All Sanskrit Learners and Enthusiasts! [High School Students, College Students and Everyone] Ramotsava – Padyabhiramam (श्रीरामोत्सवपद्याभिरामम्) from Atmashrama Dear All, As you all know, we have a grand inauguration (Praana Pratishtapane) of Sri Rama at Ayodhya on Jan 22, 2024. As part of the celebration of this auspicious and mega event through out…