गीर्वाणतरङ्गिणी
आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्
Author: अनन्तः
-
श्रीजयतीर्थगुरुभ्यो नमः सत्यपि सुविस्तृते अलङ्कारसाहित्ये सुमहत्यामपि इतिहासप्रणयनपरम्परायां अलङ्कारशास्त्रस्येतिहासस्य नितरामभावो वर्तते । इदानीन्तने युगे प्रायशः समग्रग्रन्थानां पठनपाठनम् न प्रचलति । अध्येतारोsपि तादृशीं विषयोन्मेषशक्तिं तथा नैवाधिगच्छन्ति । यथा पुरा पठनपाठनपरिपाटी पटीयसी सती सुकुमारशेमुषीकान् तर्कोपकरणैः सनाथी कुरुते स्म । यद्यपि बहोः कालात् अलङ्कारशास्त्रेतिहासः सर्वेभ्यः आवश्यकः । संस्कृतभाषायाः काव्यशास्त्रीयग्रन्थेषु यद्गभीरत्वं यद्भिन्नार्थकत्वं यद्प्रकृष्टत्वं यत् सूक्ष्मत्वं यच्च कामधुक्त्वं विद्योतते न तत्…
-
श्रीजयतीर्थगुरुभ्यो नमः अस्ति पुरा सकललोकस्तूयमानो हरिकलो महामहिमो चलत्कुण्डलमण्डितजनमण्डलमहितो लसत्किरीटी शुभलक्षणो हरिपदसेवकोत्तानपादो नाम । अस्यास्तां उभे जाये सुरुचिः सुनीतिश्चेति । सुरुच्यामासीत् उत्तमो नाम ध्रृवो सुनीत्यां च ।एकदा सुरुचेः पुत्रं उत्तमं राजा अङ्कमारोप्य लालयन् अङ्कमारुरुक्षन्तं ध्रृवं राजा नाभ्यनन्दत एवं चिकीर्षितं तं ध्रृवं सुरुचिः सासूयं अतिगर्विता सती उवाच हे वत्स नृपतेः धिष्ण्यं भवान् आरोढुः नार्हति । यतस्त्वं मम…
-
श्रीजयतीर्थगुरुभ्यो नमः अस्ति पुरा विजितभूमण्डलपराक्रमी पाण्डवललामो महाललामो गदाधरः कौन्तेयः संम्परायकुशलः धिष्ण्याभिख्यः समयसत्यः भीमो नाम । जातः सः तत्क्षणम् द्वीपिनः भीतया कुन्त्या पातितः शतधा भञ्जयामास गोत्रम् । अतः खलु शतशृङ्गः इति नाम्ना विराजते स पर्वतः। अथ कदाचन गजपुर्यां सुयोधनेन प्रदत्तक्ष्वेलभोजनं जग्ध्वा खेलया सुप्तः धार्तराष्ट्रेन च प्रमाणकोट्याख्ये तटाके पातितः सन् अधोभुवने बलिना संम्पूजितःदशसहस्रेभबलदं हाटकरसं पपौ । ततः…
-
श्रीजयतीर्थगुरुभ्यो नमः संस्कृतभाषा निखिलविश्ववाङ्मयेषु प्राचीनतमा भाषा इति भाषाशास्त्रज्ञैः भण्यते । अस्यां एव भाषायां उपनिबद्धाः वेदाः साहित्यादयः संस्कृतभाषायाः वैशिष्ट्यं प्रकटयन्ति । एषा काव्याख्यरत्नसमुत्कीर्णा भाषा । काव्येषु महाकाव्यं, खण्डकाव्यं इति विभागद्वयं विद्यते । तेषु काव्येषु कवयः स्वेच्छं कल्पनाभिः काव्यं अलङ्कुर्वन्ति । केचन गाम्भीर्यं प्रदर्शयन्ति । केचन उभयमपि प्रकटीकुर्वन्ति । एवं कालिदासोपि अलङ्कारविषये अतीव दक्षः इति नूनं स…