श्री श्री श्री १००८ श्री सत्यात्मतीर्थश्रीपादानां वर्धन्ती महोत्सवः

श्री जयतीर्थगुरुभ्यो नमः

श्री पादानां वर्धन्तीनिमित्तं रचितः श्लोकः

श्लोकरचयिता – अनन्तः

अलङ्कारशास्त्रम् २

श्रीजयतीर्थगुरुभ्यो नमः

मुनिः भरतः तदीयं नाट्यशास्त्रम् च

मुनिभरतः रससम्प्रदायस्य प्राचीतमः आचार्यः अस्ति । एतन्मतेन नाटके रसस्यैव प्राधान्यं तिष्ठति । कालिदासेन तु आचार्यमेनं देवतानां नाट्याचार्यं इति उल्लिख्य नाटकेष्वष्टरसानां विकासः तथा अप्सराद्वा तदभिनयः पूर्वसञ्जातः इति निर्दिष्टं तथा च विक्रमोर्वशीये –

मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः प्रयुक्तः ।

ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ।।

अनेन अपि अस्य कालिदासात् पूर्वत्वं द्वितीयशताब्धेः प्राचीनत्वं च निर्दिष्टं भवति ।अयं भरतमुनिः स्वकीयम् नाट्यशास्त्रम् इति ग्रन्थम् चकार । अश्मिन् नाट्यशास्त्रे शुद्धालङ्काररूपेण चत्वारः अलङ्काराः एव प्रदर्शिताः सन्ति ।

उपमा रूपकं चैव दीपकं यमकं तथा ।

अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः । ।

-इति

एवं भरतमुनिः नाट्यशास्त्रं उल्लिख्य जनानां महोपकारं चकार ।।

अनुवर्तते ….

श्रीगणेशचतुर्थीपर्वणः शुभाशयाः

श्रीजयतीर्थगुरुभ्यो नमः

Happy Ganesha Chuturthi

उमाकराब्जजो हि सावुमावचः सुपालको ।

वरेक्षुदण्डखण्डसेवनप्रियो मुदावहः ।।।।

Brought into life by the lotus hands of Goddess Uma, who is ever obedient to the Mother, relishes of the sweet sugar cane, the harbinger of joy,

कपालभृन्महात्रिशूलखण्डेतोरुसन्मुखम् ।

पुनःसुलब्धजीवनं व्रजामहे निरन्तरम् ।।।।

the one who head was cut off by the fierce Trishula of Lord Shiva, one who was again brought into life, let us all take refuge in him.

गिरीन्द्रधामनन्दनम् गिरीन्द्रनन्दिनीप्रियम् ।

गणेशमेकदन्तकं भजामहे निरन्तरम् ।।।।

the harbinger of joy to the Lord of Mount Kailash, the beloved of the Daughter of Lord Himavan. let us all worship

सुरक्तवस्त्रधारिणं गजाननं चतुर्भुजम् ।

निशीथ-राट्सुशापकारणं व्रजामहे प्रभुम्।।।।

Let us all submit over-selves to Gajanana, who is adorning a red attire, the four-handed, the one who cursed the Moon – the Lord of the Night.

विनायकं भजामहे सुरासुरेन्दरपूजितम् ।

हरौ सुभक्तिपूरितान् विना सुदण्डकं परान् ।।।।

Let us bow to Lord Vinayaka, the one revered by the Gods as well as the Asuras, the quick punisher of those who are not the devotees of Lord Vishnu.

अम्बाचुम्बितकम्बुलम्बजठराम्भोजाक्षियुक्ताहिमे-

वासात्भक्तसुदर्शनेन हिमवत् त्वं पासि भक्तान् द्रवन् ।

हे हेरम्ब सदाखुवाहनगते श्रीपार्वतीनन्दन

किं भक्ता न वयं प्रदास्यसि नहि श्रेयांसि भूयांसि नः ।।

O, elephant headed God, who is cuddled by Mother Gowri, eyes sprawling by your heart instantly melts for the sake of devotees which i suppose is due to your stay in the Mt.Kailash (full of melting snow) O'[ Lord Ganesha, whose vehicle is the mouse, the son of Parvati, are we not your devotees that you are not showering the greatest of blessings on all of us?

अलङ्कारशास्त्रम् – १

श्रीजयतीर्थगुरुभ्यो नमः

सत्यपि सुविस्तृते अलङ्कारसाहित्ये सुमहत्यामपि इतिहासप्रणयनपरम्परायां अलङ्कारशास्त्रस्येतिहासस्य नितरामभावो वर्तते । इदानीन्तने युगे प्रायशः समग्रग्रन्थानां पठनपाठनम् न प्रचलति । अध्येतारोsपि तादृशीं विषयोन्मेषशक्तिं तथा नैवाधिगच्छन्ति । यथा पुरा पठनपाठनपरिपाटी पटीयसी सती सुकुमारशेमुषीकान् तर्कोपकरणैः सनाथी कुरुते स्म । यद्यपि बहोः कालात् अलङ्कारशास्त्रेतिहासः सर्वेभ्यः आवश्यकः । संस्कृतभाषायाः काव्यशास्त्रीयग्रन्थेषु यद्गभीरत्वं यद्भिन्नार्थकत्वं यद्प्रकृष्टत्वं यत् सूक्ष्मत्वं यच्च कामधुक्त्वं विद्योतते न तत् कस्याः अपि भाषायाः आलङ्कारिकग्रन्थेषु सन्निहितं अस्ति ।

भाषायां व्युत्पत्तिविवर्धनाय यथा व्याकरणशास्त्रं आवश्यकं तथैव काव्ये नैपुण्याय अलङ्कारशास्त्रं आवश्यकम् । अलङ्कारशास्त्रं विना काव्ये नैपुण्यमेव न सम्पद्यते अपि तु वाक्यदोषदृष्टिरपि नोत्पद्यते ।अत एव अलङ्कारशास्त्रं अध्येतव्यम् ।

भारते अलङ्कारशास्त्रोत्पत्तिः कदाभवत् ? किमुपादानं गृहीत्वा अलङ्कारशास्त्रस्य उदयो जातः इति प्रश्नः समुदेति । प्रश्नोयं जटिलः । अनेकैर्विद्वद्भिरस्य मीमासा कृता । शास्त्रमिदं स्वजन्मसमयादेव नितरां लोकप्रियतां गतम् । तस्मादेतत् काव्यालङ्कारकाव्यशास्त्रसाहित्यशास्त्रादिकतिपयभिन्नभिन्ननामभिः ससम्मानं समाहूतमभूत् । तत्र अलङ्कारशास्त्रम्, काव्यशास्त्रम्, साहित्यशास्त्रम्, सौन्दर्यशास्त्रम्, क्रियाकल्पः इत्यादीनि नामानि भवन्ति ।

तत्रादौ अलङ्कारशास्त्रम्

आधुनिकेषु सर्वप्रथमो अलङ्कारशास्त्रग्रन्थः भामहप्रणीतः काव्यालङ्कार एव इति कृत्वा अस्य शास्त्रस्य नाम अलङ्कारशास्त्रम् इति प्रसिद्धम् ।।

१) अलङ्कारलक्षणम्

तत्र अलङ्कारशास्त्रे पञ्चरीत्या लक्षणानि उक्तानि विद्वद्भिः । तत्र-

वामनः – सौन्दर्यमलङ्कारः तथा अलङ्कृतिरलङ्कारः

दण्डी – काव्यशोभाकरानलङ्कारान् प्रचक्षते ।

मम्मट – उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुवित् । हारादिवदलङ्कारास्तेनृप्राःसोपमादयः ।।

रुप्यः – अभिधाप्रकारविशेषा एवालङ्काराः

विश्वनाथः – शब्दार्थयोरस्थिरा ये धर्मा शोभातिशायिनः । रसादीनुपकुर्वन्तोलङ्कारस्तोङ्गदादिवत् ।।

२) अलङ्कारस्य रूपनिष्पत्तिः

अलङ्कारशब्दः उभयार्थे प्रयुज्यते । भावार्थे करणार्थे च ।

भावार्थे तु – अलम् + कृ + क्तिन् = अलङ्कृतिः सैव अलङ्कारः इत्युच्यते ।

करणार्थे तु अलम्+ कृ+ घञ् = अलंक्रियते अनेन इति अलङ्कारः ।

३) अलङ्कारशास्त्रप्रवर्तकाः –

१) भरतः – नाट्यशास्त्रम्

२) व्यासः – विष्णुधर्मोत्तरपुराणम्

३) भट्टिः – भट्टिकाव्यम्

४) भामहः – काव्यालङ्कारः(१)

५) दण्डी – काव्यादर्शः

६) उद्भटः – काव्यालङ्कारसारसङ्ग्रहः

७) वामनः – काव्यालङ्कारसूत्रम्

८) रुद्रटः – काव्यालङ्कारः(२)

९) व्यासः – अग्निपुराणम्

१०) भोजः – सरस्वतीकण्ठाभरणम्

११) मम्मटः – काव्यप्रकाशः

१२) रुप्यकः – अलङ्कारसर्वस्वम्

१३) शोभाकरमित्रम् – अलङ्काररत्नाकरः

१४) अमृतानन्दयोगी – अलङ्कारसंग्रहः

१५) जयदेवः – चन्द्रालोकः – इत्यादयः सन्ति विद्वांसः ।।

।।श्रीकृष्णार्पणमस्तु ।।

अनुवर्तते…………….

ध्रुवः

श्रीजयतीर्थगुरुभ्यो नमः

अस्ति पुरा सकललोकस्तूयमानो हरिकलो महामहिमो चलत्कुण्डलमण्डितजनमण्डलमहितो लसत्किरीटी शुभलक्षणो हरिपदसेवकोत्तानपादो नाम । अस्यास्तां उभे जाये सुरुचिः सुनीतिश्चेति । सुरुच्यामासीत् उत्तमो नाम ध्रृवो सुनीत्यां च ।एकदा सुरुचेः पुत्रं उत्तमं राजा अङ्कमारोप्य लालयन् अङ्कमारुरुक्षन्तं ध्रृवं राजा नाभ्यनन्दत एवं चिकीर्षितं तं ध्रृवं सुरुचिः सासूयं अतिगर्विता सती उवाच हे वत्स नृपतेः धिष्ण्यं भवान् आरोढुः नार्हति । यतस्त्वं मम कुक्षौ न जातः । अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः इति महान्तः भणन्ति । हरिं तपसाराध्य सिंहासनोपवेशनयोग्ये मदीयोदरे जायस्वेति वरसंवृतो आर इति । धृवः समातुः सुरुच्याः वाक्यं श्रुत्वा दुरुक्तिविद्धः सन् रुषा श्वसन् अवाचं पितरं हित्वा मातुरालयं जगाम । तत्र मात्रा हे पुत्र, परेषु अमङ्गलं माचिन्तय इत्यादिवचनैः सः प्रसादितः । ततः मात्रा यत् दर्भगायाः मयि जातस्त्वं यदीच्छस्युत्तमासनं आराध्यायाहि देवम् । हे अङ्ग, ब्रह्मादिभिः ज्ञानभक्त्यादिवृद्ध्यर्थं प्रार्थ्यमानं हरिं त्वमपि स्तोत्रैः स्तुहि । ततः स बालः समातुः वचोबाणान् अमृष्यमाणः उत्तमपदप्राप्तये हरिं आराधयितुं पितुः पुरात् वनं निश्चक्राम । मार्गे नारदेन कुतो यासि इत्याद्यवचनैः पृष्टः सुरुच्याः दुर्वचोबाणैः खिन्ने मद्हृदये अधुनापि शमः नैव जायते । ततो नारदः अब्रवीत् – हे बाल, अस्ति अनतिदूरे मध्वाख्यं वनम् । तत्राविष्टः त्वं ध्याहि हरिम् ओं नमो भगवते वासुदेवायेति । । तथा आदिॆष्टो ध्रुवः मधुवनं गत्वा यथाह महर्षिः तथा चकार । त्रिरात्रान्ते त्रिरान्तान्ते कपित्थादिफलाशनः प्रथमं मासं यापयामास । द्वितीयं तु पर्णतृणाद्याशनः यमापयाञ्चक्रे । तार्तीयं मासं नवमे नवमे अहनि अब्भक्षः सन् यापयाम्बभूव । चतुर्ॆथं च मासं द्वादशे द्वादशे दिने वायुभक्षः बभूव । पञ्चमे मासे तु जितेन्द्रियः जितश्वासः अचलव् स्थितः तपः चकार । ततो देवा शरण्यं भगवन्तं शरणं प्रजग्मुः । अथ देवः भृत्यदिदृक्षया आजगाम । तत्र हृदि स्थितं भगवन्तं मनसा स्मरन् तस्य रूपस्यान्तर्धेन ददर्श बहिस्थं हृद्रूपसदृशं देवं । ततः कम्बुस्पर्शेन समधिगतसर्वविद्यः –

योन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्याश्र्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ।।

इत्यादिश्लोकैः पञ्चवर्षीयेन शिशुना निस्सृतंअत्यर्थ-गर्भितं वचनं अहो बत लक्ष्मीसान्निध्ययुक्कम्बु-माहात्म्यम् । अहो सुभाग्यं कष्टसाध्यं बालस्य पुण्यम् । भगवता प्राप्तस्थानवरः ध्रुवः नातिप्रीतः आजगाम पुरम्। तत्र पित्रा विजयोत्सवेन महितो बालः नातिचिरम् प्राप राज्यम् तथा समाप्तायुः जगाम स्वक्षितिं ध्रुवमण्डलम् ।।

श्रीकृष्णार्पणमस्तु

महापराक्रमी भीमसेनः

श्रीजयतीर्थगुरुभ्यो नमः

अस्ति पुरा विजितभूमण्डलपराक्रमी पाण्डवललामो महाललामो गदाधरः कौन्तेयः संम्परायकुशलः धिष्ण्याभिख्यः समयसत्यः भीमो नाम । जातः सः तत्क्षणम् द्वीपिनः भीतया कुन्त्या पातितः शतधा भञ्जयामास गोत्रम् । अतः खलु शतशृङ्गः इति नाम्ना विराजते स पर्वतः। अथ कदाचन गजपुर्यां सुयोधनेन प्रदत्तक्ष्वेलभोजनं जग्ध्वा खेलया सुप्तः धार्तराष्ट्रेन च प्रमाणकोट्याख्ये तटाके पातितः सन् अधोभुवने बलिना संम्पूजितःदशसहस्रेभबलदं हाटकरसं पपौ । ततः बहिरागतश्च बलेन । स उपाध्यायात् द्रोणात् शिक्षयन् चापविद्यां आनिनाय विसृष्टं बाणमपि । ततः सः बलरामेण शिक्षितसर्वविद्यः सन् आजगाम हस्तिपुरम् । शठेन दुःर्योधनेन लाक्षागृहे नियोजितः युक्त्या प्रच्यावितोsभूत् । वने हिडिम्बं विप्रोड्य हिडिम्बां ऊढ्वा पाञ्चालेषु स्वयंवरे द्रौपदीं संम्प्राप्य आजगाम नागपुरम् । तत्र कुसुतेन कौ अप्रदत्तायां सत्यां कृष्णप्रभावेन इन्द्रप्रस्थाख्यं पुरं प्रविवेश । राज्यभारं कुर्वन् सुयोधनद्यूते पराजितः सन् द्रौपदीवस्त्रापकर्षणे आह, अहं दुःशासनं हन्मि येन हस्तेन सो वस्त्रापकर्षणं चकार तं हस्तं भञ्जयामि । इति प्रतिज्ञां च चकार । पुनः राज्यं लब्ध्वा मुहुः द्यूते पराजितेन अग्रजेन सह वनं जगाम । तत्र नानाविधान् गन्धर्वसेवकान् राक्षसान् च निहत्य सौगन्धिककुसुमं च प्रदाय पत्न्यै सन्तोषयामास ताम् । तत्र तत्र रक्षयन् ब्राह्मणान् यापयामास द्वादशवर्षकालम् । अज्ञातवासे च विराटनगरे पाचको बभूव वललनाम्ना । स च भीमोत्सवे भीमो मल्लान् अहनत् चतुर्थे मासि । एवं कीचकं उपकीचकान् च अप्रोडत् । अथ प्रारब्धवैराटयुद्धे आहूतो वललवेषधारी भीमः सुशर्माणं सुवर्माणं जिगाय । एवं तत्र निर्विघ्नं त्रयोदशवत्सरात्मके वनवासाज्ञातवासे यापयामास । अथ अक्षमेण क्षमायां पुनः सत्यां अप्रदत्तायां नियोजितपाण्डवधार्तराष्ट्रयुद्धे समारब्धे सति तार्क्ष्यवेगक्षयकरः धर्मेण धर्मी नाभिकुलोत्पन्नः अपरप्लवङ्गमः युयोध भीमो रिपुभिः । सर्वाः प्रतिज्ञाः साधयन् स अहनत् एकोनशतं धार्तराष्ट्रान् । अन्तिमायां अवस्थायां क्षमो वृकोदरः अच्छषत् दुर्योधनम् । अथ लब्धराज्यः सन् बुभुजे पुरभोगान् च । एवं कृष्णे सुदीर्घकालं मनः निधाय अपयत स्वधाम ।।

श्रीकृष्णार्पणमस्तु

टिप्पणी

अस्ति पुरा- यावत्पुरानिपातयोर्लट् इति लट् (“अभिषिच्यते पुरा” सुमध्वविजयः ५ सर्गः १ श्लोकः वत् ) अतीतार्थे स्वीकृतम् ।।

विजितभूमण्डलपराक्रमी – विजितः भूमण्डलः येन सः विजितभूमण्डलः । पराक्रमः अस्य अस्ति इति इति पराक्रमी विजितभूमण्डलश्चासौ पराक्रमी च विजितभूमण्डलपराक्रमी ।।

पाण्डवललामः – ललामम् – प्रधानम् “ललामं पुच्छपुण्ड्राश्वभूषाप्राधन्यकेतुषु ” इत्यमरः ।।

महाललामः – ललामम् – तिलकम् ” ललामं पुच्छपुण्ड्राश्वभूषाप्राधन्यकेतुषु ” इत्यमरः ।।

सम्परायकुशलः – युद्धकुशलः । “युद्धायत्योस्सम्परायः” इत्यमरः ।।

धिष्ण्याभिख्यः – धिष्यम् – अग्निः “धिष्ण्यं स्थाने गृहे भेsग्नौ” इत्यमरः । अभिख्या – कान्तिः “अभिख्या नामशोभयोः” इत्यमरः ।।

समयसत्यः समयः – शपथः “समयाश्शपथाचार” इत्यमरः । सत्यम् – ऋतम् “सत्यं तथ्यमृतं सम्यक्” इत्यमरः

द्वीपिनः – व्याघ्रेण “शार्दूलद्वीपिनौ व्याघ्रे” इत्यमरः पञ्चमी भयेन  इति पञ्चमी।।

क्ष्वेलः विषम् “क्ष्वेलस्तु गरलं विषम्” इत्यमरः ।।

जग्ध्वा – अद भक्षणे त्वान्तमव्ययम् ।।

खेलया – क्रीडया ।।

तटाके – पद्माकरः (सरोवरः) “पद्माकरस्तटाकोस्त्री” इत्यमरः ।।

अधोभुवनम् पातलम् “अधोभुवनपातलम्” इत्यमरः ।।

इभ – गजः “मतङ्गजो गजो नागः कुञ्जरो वारणः करी । इभः स्तम्भेरमः पद्मी” इत्यमरः ।।

विप्रोड्य – वि इत्युपसर्गपूर्वक प्रुड मर्दने इति धातोः ल्यप् ।।

कुसुतेन – कुत्सितानि कुत्सनैः इति तत्पुरुषः कुत्सितश्चासो सुतश्च कुसुतः ।।

कुः – पृथिवी “गोत्रा कुः पृथिवी पृथ्वी” इत्यमरः ।।

अग्रजेन सह – सहयुक्तेऽप्रधाने इति सूत्रेण तृतीया अग्रजशब्दस्य

आह – ब्रूञ् व्यक्तायां वाचि इत्यतः विकल्पे कृते लटः ब्रुवः पञ्चानामादित आहो ब्रुवः इति सूत्रेण ।।

भीमोत्सवे भीमः – रुद्रः “भीमः स्थाणू रुद्र उमापतिः” इत्यमरः ।।

अमोडत् – मुड मर्दने लङ्

क्षमा – मेदनी “क्ष्मावनिर्मेदिनी मही” इत्यमरः ।।

तार्क्ष्यवेगक्षयकरः – तार्क्ष्यः – गरुडः “तुरङ्गगरुडौ तार्क्ष्यौ” इत्यमरः । तार्क्ष्यानां वेगः तार्क्ष्यवेगः तार्क्ष्यवेगस्यापि क्षयं करोति इति तार्क्ष्यवेगक्षयकरः ।।

धर्मेण धर्मी – धर्मेण – स्वभावेन । धर्मी आचारयुक्तः। “धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः” इत्यमरः ।।

नाभिः – क्षत्रियः “क्षत्रियेषु च नाभिर्ना” इत्यमरः ।।

क्षमम् – हितकारि “क्षमं शक्ते हिते त्रिषु” इत्यमरः ।।

अच्छषत् – छष हिंसायाम् आत्मनेपदि लङ्

अपयत – पय गतौ लङ्