आसीदयोद्ध्यायां सूर्यवंशजो धर्मात्मा सगरो नाम महाराजःसहि शताश्वमेधी बुभूषुः अश्वमेधेन देवमयष्ट। निर्वर्तितास्तेन एकोनशतं यज्ञाः। प्रारब्धे चशततमे मखे सगरोयं शतमखो भूत्वा मदीयं पदमपहरिष्यतीति भिया वासवो याज्ञियमश्वं रसातलमनैषीत्। तेन प्रयाकुलितस्सगरः स्वषष्टिसहस्राणि । पुत्रनाश्वानयनाय अदिक्षत्। एवमाज्ञिप्तास्तेन्विषन्तः कपिलं निकषा स्थितं वाजिनं दृष्ट्वा चायमेव याज्ञियाश्वापहर्ता अपराधीति मन्यमानाः तमभ्यधाविषुः। तेन रुडवाृतचक्षुस्तान् भस्मीचकार ततस्सगरः स्वपुत्रान्चि-रमनागतान्दृष््ट्वा स्वनप्तारमंशुमन्तं प्रेषयामास सच भस्मीभूतान्तान्वीक्ष्य शोकतप्तः साश्वः सन् सगराय तद्वृत्ान्तं न्यवेदयत् तेनोदन्तेन दःखस्य परां काष्ठामधिरूढः गाङ्गैर्वार्भिः तेषां तर्पणाय तपोतप्यत परन्तु भग्नोद्यमः दिवमरुक्षत। तदनु तद्वंशीयाः परमसाहसिका दिलीपादयो सुरधुनीं भुवमानेतुं यावज्जीवं प्रायतिषत तेपि वुफलोद्यमा अभूवन् । अथ गच्छति काले तस्मिन्नेेवसीर्यवंशे भगीरथो नाम राजा बभूव स च पूर्वजानां सगरात्मजानां वृत्तान्तेन नितान्तं सन्तप्तो राज्यधुरीं सचिवेषु निक्षिप्य स्वयं गङ्गानयनाय चिरमूर्ध्वबाहुः मासाहारी च भूत्वा घोरं तपोतप्यत। वर्षसहस्रान्ते च प्रीतो पद्मयोनिः तत्पुरस्तादाविर्भूय भो साहसिन् इक्ष्वाकुकुलमणे प्रीतोस्मिते तपसा वरं वृणीष्वाशु इत्यवोचत। भगीरश्च सञ्जातहर्षःसन् भोः करुणानिधे चिरात्खलुभस्मीभूता मे पितामहाः निरुदकाः क्लिश्यन्ते। तेषां च तर्पणाय यथा भगवतीं व्योमगङ्गां भुवमानेतुं प्रभवेयं तथा मामनुगृहाण इत्यप्राक्षीत् । तछृत्वा पद्मयोनिः फलिष्यति ते मनोरथः किन्तु महता वेगेनावतन्ती गङ्गा भुवमाप्लावयेत् तस्याश्चधारणय नपशुपतेरन्यः क्षमः इति प्रोच्यान्तर्दधे तदा स्वमुखोद्गीर्णसत्स्तुतिभिः प्रसन्नमानसस्य गङ्गाधरस्य साहायेन स्वकृतमहाप्रयत्नेन च व्योमगङ्गां भुवमानिनाय तत्कार्यदुरन्धरेण कृतत्वात् गङ्गा भागीरथीति व्यदिश्यते । यदुवाच भर्तृहरिः तदत्र स्मर्यते —-प्रारभ्यते नखलु विघ्नभयेन नीचैः प्रारभ्य विघ्ननिहिता विरमन्तिमध्याः।
विघ्नैःपुनःपुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना नपरित्यजन्ति ।।
रचयिता सुधर्मा कट्टे
Leave a comment