विश्वमञ्चे इदमत्रानुक्त्वा परिस्थातुं न प्रभवति मे चेतः । पद्यप्रपञ्चसमञ्चिता कवयः सूक्तिसुधाकरननिश्चोतद्रसचन्द्रिकया सारस्वतप्रपञ्चमुच्चकाशिरे । प्रकृतिसंस्कृत्योः सङ्गम एव कविप्रतिभाविभवं सम्भावयति । तदत्र प्रकृतिसुभगं चन्द्रमसं संवर्णयितुमीषत्प्रयासो विहितः । सोयं जनमानसं आस्वाद्यपदव्यां तथ्यमेव विहारयतीति विस्रम्भे ।।
अनेकवानरोद्योगे रामकार्येब्धिमन्थने । तमीबन्धुर्बन्धभयात्समुद्रादुदपद्यत ।।
दिनाधिनाथोपि विभात्यहर्मुखे शर्वोपरिष्टस्तु तदुत्तरेण ।
प्रायस्तरां क्लृप्तपदा हि लोके पराक्पतन्ति स्वविधानकाले ।।१।।
धावल्यतौल्यं कथमेव कुर्यां पर्यस्तगीर्वाणवचःप्रकीर्त्या ।
विस्रस्तविष्ण्वङ्घ्रिमदान्तरेण सर्वं नु निम्नं त्वमुदग्र आस्से ।।२।।
नक्षत्रबन्धुश्च कथं नु राजा विधुश्रुतस्त्वं कुमुनुदानुबन्धः ।
सोमाश्रितस्त्वं कथमेव सोमो हिमांशुनामासि कथं न्वमावसन् ।।३।।
3. नक्षत्रबन्धुः – नक्षत्राणां बन्धुः सोम सः राजा च राजा वह्नौ नृपे चन्द्रे इति कोशोक्तेः । द्वितीयोर्थः – न इति निषेधे नक्षत्रबन्धुः क्षत्रबन्धुर्न भवति चेदपि राजा कथं भवतीति भावः ।
विधुश्रुतस्त्वं कुमुदानुबन्धः – विधुनामा कुमुदपुष्पाणां अनुरागी च इत्येकोर्थः । अपरस्तु – अनुबन्धशब्दे अनु इत्यनेन न विद्यते उः यस्मिन स इति समासे उकाररहितत्वरूपोर्थो लभ्यते । विधुशब्दे च एक उकारः । कुमुदशब्दे च द्वि-उकारः । एवं स्थिते विधुः अनुः तथापि कुमुदैस्साकं बन्धं कथं कृतावनिति भावः ।
उमया सहितो रुद्रः तमाश्रितस्त्वं चन्द्रः कथं सोमशब्दवाच्यः । यः यमाश्रयते स कथं तच्छब्दवाच्यो भवतीति भावः ।
अमा = सह । अमा सह समीपे च इत्युक्तेः । सूर्येण अमा वसन् हिमांशुनामा असीति एकोर्थः । अमा इत्यस्य मारहिततया इति यदि स्वीक्रियते तदा कथं वा मारहिततया वसन् हिमांशुनामासि हिमांसुनाम्नि मा इत्यंशोयं वर्तते इति भावः ।
त्वद्बिम्बमङ्गार्धमहारि मन्मनो वर्षासु दान्तप्रशमस्वभावः ।
दुर्मेधसां धावनबुद्धिदाता मेधाविनां नैवमसीति चित्रम् ।।४।।
बिम्बं मन्मनः अर्धमहारि । बिम्बशब्दे अर्धमकारो वर्तते लुप्तं च वर्तते इति अर्धमहारि मनोहारि अपहारि चेति लभ्यते । दान्त इव साधुस्वभावस्त्वं । दकारान्तवारिदमध्यङ्गतो प्रशमस्वभाववानिति अपरोर्थः । मेघे चलति चन्द्रमाः चलतीति प्रतीतिः दुर्मेधसामानुभविकी । मेधाविशब्दे धाव् इत्यंशो वर्तते । दुर्मेधस् शब्दे तु न वर्तते । एवं स्थिते दुर्मेधसामेव धाव् अंशरहितानामेव धावनबुद्धिदाता असीति भावः ।
तारोपहारप्रणयङ्गहारस्तथापि नीहारकरो विभासि ।
मारस्य निर्माणकरो विधातः पारं कथं यामि भवन्महिम्नः ।।५।।
ताराः हारात्मना संवलिताः हारमार्पयन् । तथापि त्वं चन्द्र नीहारकर एव विभासि । नीहारो हिमम् । नीहारशब्देन हारराहित्यरूपोप्यर्थः स्फुरति । तथा च हाररहितकरवानेवासि । मारशब्देन मृतिमानप्युच्यते । तादृशस्य विधातुस्तव महिमा कथं शक्यवचना ।
सर्वांशहृद्यं परिलम्बमानशाखावलम्बायतपल्लवस्था ।
शाखान्तराद्वीक्ष्य मधुप्रबोधा पिपीलिका चुम्बति चन्द्रबिम्बम् ।।६।।
पिपीलिका शाखान्तरिता sweet इति मत्वा पूर्णचन्द्रं चुम्बति
सौदामिनीवाहिघनस्वनाकुले बलाहके साधनसम्पदालये ।
देवेषु कर्तव्यधुरन्धरेषु तद्बभूव यन्त्रं खलु चन्द्रमण्डलम् ॥ ७ ।।
चतुर्थपादं समस्यात्वेनापि स्वीकर्तुं युक्तम् ।
केचिद्व्याचक्षतेन्दुं चुलुकिततमसं चापलाचारहेतो-
रन्येेsमन्यन्त रौद्रप्रविहृतविकृतक्रोधविन्यस्तभीतिम् ।
आहुस्त्रैलोक्यबन्धुप्रियतममधुरस्वाम्बराहारिचोरं
मन्वे कामाग्निलेशग्लपितमलपनीयस्थितिं निष्कलङ्कम् ।।७।।
प्रणयजलधिपात्रं प्रेयसीकामसूत्रं प्रमुदितवनगात्रं प्रीतिसम्पद्वहित्रम् ।
प्रसरदमृतसत्रं प्रौढलावण्यनेत्रं प्रशमतरचरित्रं नौमि लोकाप्तमित्रम् ।।८।।
खरतरकरशोचिः क्वामृतस्यन्दिरोचिः ह्युपमितमितरेण स्यात्कथं न्वन्तरेण ।
विजयशरशतौघः पञ्चबाणस्य रागः न भवति भवितव्ये तुल्ययोगेत्र सव्ये ।।९।।
उपचितसितरागं तारकासम्प्रयोगं न खलु कलयसे त्वं कज्जलभ्रष्टदृष्टे ।
उदितमुदयकान्त्या तावकार्थेत्र रात्रे हतविधिलसितानां ही विचित्रो विपाकः ।।१०।।
रचयिता – सत्यवरः कट्टे
Leave a comment