- राघवेन्द्राचार्य राचूरि
- दिनाङ्कः – 02-09-2025
नृसिंह सिंहनादरिक्तदैत्यकुम्भिकुम्भकं
हिरण्यधन्यजन्यबालफालपालदोर्द्वयम्
मदीयपापलेपतापपावकाक्षियुग्मकम्
भजे सुपूर्णदोषदूर तेङ्घ्रिपारिजातकम् ।।1
कदाचिदागताश्शुभास्ससनन्दनादिपावकाः ।
विकुण्ठिता बभूवुराप्य ते विकुण्ठरक्षकान् ।।
जितारिषट्कुवर्गकास्त रोषताम्रलोचनाः
तदाशपन् कृपालवोपि यातमाश्वधोगतिम् ।। 2।।
रजस्तमोविलीनविष्णुपादमूलवर्जितम्
सुराहुजिह्वयोपरक्तचन्द्रमण्डलोपमम्
विदोषजालकालितं समस्तलोककण्टकम्
भवेत् त्रिजन्म भीकरं नृलोकदोषगोचरम् ।।3।।
इतीह शापतापितौ भभूवतुर्मदोत्कटौ
विकुण्ठधामपालकौ जयान्तविष्णुपार्षदौ ।
अमुक्तधामसंस्थितावतो न चाप्ततामसौ
दितेस्सुतत्वमापतुर्सुकश्यपात्मजावुभौ ।। 4
वराहवक्त्रतोत्रशस्त्रघातरूक्षराक्षसं
हिरण्मयाक्षनामकं मृतं समीक्ष्य विस्फुरन् ।
मदीयशूलभिन्नतुण्डमाशुसोदरान्तकं
विधाय तर्पये निजं प्रियानुजं त्विति ब्रुवन् ।।5
जटाप्रभाविभावितांशुमालिनव्यशोभया
हिरण्यकस्तदग्रजो चचार दुश्चरं तपः
विधिस्तुतोष तेन तस्य काङ्क्षितं वरं ह्यदात्
वरोर्जितो हिरण्यकोप्यभून्महाबलान्वितः ।। 6
विजित्य सर्वदिग्गणं सुरासुरोरगादिकं
पिशाचयक्षराक्षसान् तथा च सिद्धचारणान्
ऋषीन् पितृन् च हिंसयन् मनूनपि प्रकम्पयन्
समस्तलोकशासकोह्यभूत् स चण्डशासनः ।। 7
तथापि विष्णुपार्षदो ह्यभूत्तदीयपुत्रकः
प्रकोपितेन तेन वध्य एष इत्युदीरितो
मनो हि बन्धमोक्षयोर्निदानमस्ति विद्यताम्
न सन्ति विद्विषः समं मनो हरौ विधित्सताम् ।। 8
जहीह भावमासुरं भजस्व देवमात्मगम्
कुरुष्व योग्यतानुगं स्वहृद्यनन्तधारणम् ।
न केवलं ममेश्वरो तवापि चेश्वरो ह्यसौ
इतीह धैर्यसंयुतं वचश्च तेन भाषितम् ।। 9
(कदापि) (क्वास्ति) मन्दभाग्य यर्हि विद्यते स ईश्वरः
कुतोद्य न प्रदृश्यतेत्र यद्यसौ हि सर्वगः ।
हरामि ते शिरोधुना त्वदीश्वरोवतान्निजं
समीरयन् स्वमुष्टिघातमाददेच्छछर्दिपे ।। 10
(तदात्म)(ब्रह्म)भाण्डविस्फुटन्निनादजो नृकेसरी
ददार संपतन्तमाशु खड्गहस्तमद्भुतम् ।
नखाग्रगृध्रराजतुण्डखण्डितोरगप्रभं
वमद्दुरुक्तिजालतीक्ष्णदुर्विषाग्निमुल्बणम् ।। 11
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।।
उग्रं ह्युग्रनखत्विषा प्रमुषिताज्ञानान्धकारापदं
वीरं घोररिपुप्रचण्डनिनदप्रध्वंससर्वाननम् ।
मुत्योर्मृत्युमनन्तसौख्यदमहाविष्णुं नृसिंहाकृतिं
वन्दे भद्रमभद्रभीषणमहं प्रत्युज्वलन्तं हरिम् ।। 12
इति श्रीराघवेन्द्राचार्यकृतं नरसिंहावतारवर्णनम्
Leave a comment