अद्य प्रातः दर्पणनाम्नी कवितागोष्ठी प्रावर्तत । अस्याः गोष्ठ्याः अध्यक्षत्वेन विद्वांसः कवयः प्रेक्षाप्रतिष्ठानस्य सम्पादकाः श्रीमन्तः बि.एन् शशिकिरणवर्याः शोभामवर्धयन् । आत्माश्रमच्छात्राः आचार्याश्च रम्याः स्वकीयकविताः प्रास्तुवन्। शशिकिरणवर्या अपि अतिरमणीयाभिः स्वरचिताभिः कविताभिः सभामतोषयन्। गोष्ठ्याः अस्याः मुद्रणमचिरादेव लोकैः संविभज्यते

Posted in

Leave a comment