डा. राघवेन्द्राचार्यः राचूरि
निदाघवर्षाहिमशीतशैशिरम्
वसन्तमत्यन्तसुगन्धवासितम्
सर्वर्तुशोभाञ्चितपूर्णषड्गुणं
नमामि गोपीसुतमादिपूरुषम् ।।
वसन्तः
अशोकताम्राधरपाणिपल्लवः
सशोकगोपीवनिताविनोदः
लसन् स मायूरसुपिञ्छमौलिः
वसन्तगोपालकबालमौलिः
निदाघः
स तप्तवातागमदीपितस्मरः
सवल्लकीकाकलिगीतनिस्वनः
सचन्दनाम्बूत्कलितातपक्लमो
निदाघरूपोsनुमताङ्गनागणः।
वर्षाः
सुज्ञानतोयाक्तसुभक्तमानसः
प्ररूढभक्त्त्यङ्कुरश्रीनिकेतनः ।
तटित्प्रभोद्दीपितपुण्यकीर्तनो
वर्षर्तुलीलोल्लसतीह माधवः ।।
शरत्
विकचकुसुमरम्यं गोपिकामञ्जुलास्यं
मधुप इव समोदं चुम्बनाप्तप्रमोदं
विरचयति स पुत्रो गोपिकाया निशासु
शरदिवकृतगात्रः श्रीनिवासोमलासु ।
हेमन्तः
तुहिनकिरणशुभ्रः शुक्लशीतांशुगर्भः
दितिकुलकृतशिक्षः गोत्रभिद्गोत्ररक्षः
कविजनकृतमोदः कामिनीबन्धुरेषः
निजजनपरितापं हन्ति हेमन्तरूपः
शिशिरः
शशति कुजनदुष्टस्थाणुशोभाविशेषः
ह्युदयति शिशिरेस्मिन् शीर्णपर्णावसादः
भुवि सुजनकुलानां पुण्यसंरक्षितानां
स्वमथितसुमानां पद्मिनीनां विकासः ।।
समारोपः
ऋतुगणगुणगानं कृष्णभावेन चीर्णं
कविहृदयविनोदं भूयसे भूयतान्मे ।
न च कुकविनिन्दा संपतेत् शीर्ष्णि कर्तुः
शरणजनरिरक्षादीक्षरामैकभर्तुः ।।
Leave a comment