वृत्तम् – इन्द्रवज्रा

कवनम् – डा. राघवेन्द्राचार्यः राचूरि, प्राध्यापकः, आत्माश्रमगुरुकुलम्

हरयेनमः, सर्वाभ्यो देवताभ्यो नमः, सर्वेभ्यो गुरुभ्यो नमः, नमः सभायै

केभ्यश्चित् दिनेभ्यः पूर्वं अस्माभिः श्रीरङ्गपट्टने कावेर्याः दर्शनभाग्यं प्राप्तम् आसीत् । ततोपि मैसूरुनगरे रोगमोचनधन्वन्तरिदर्शनं च संपाद्य ततो गर्गेश्वरीक्षेत्रे बृहल्लिंगाकारेण स्थितस्य महारुद्रदेवस्य च दर्शनं कृतम् । ततश्चात्राणामौस्तुक्यमालक्ष्य गगनचुक्कीप्रपातस्य वीक्षणार्थं च प्रस्थितम् । सर्वत्र निरन्तरं महत्याः वृष्टेः कारणात् नद्यां प्रभूतं जलमासीत् । तत्र नद्याः अवस्थात्रयम् । पातात् पूर्वं नदी अत्यन्तं शान्ता इव आलक्ष्यते स्म । यदा तु पश्चात् यदा पर्वतशिलाः सङ्घट्ट्य अधोधः प्रपतति तदा तस्याः वेगः शक्तिः च विज्ञायतेस्माभिः । पश्चात् सरभसं स्यन्दन्ती सा जीवनदानाय अस्माभिरज्ञातान् स्वाभीष्टदेशान् समञ्चति । एवंभूतायाः मातुः कावेर्याः शभावर्णनं कतिपयैः पद्यैः अत्र चिकीर्षतमस्ति । कृपया विदांकुर्वन्तु सर्वे रसिकाः ।

प्रपातात् पूर्वं शान्तस्थितिः पश्चात् सरभसं प्रपातः

स्रोतस्विनी सज्जनमानसाभा दुर्बोधभावाचलचित्रशोभा ।

सङ्घट्टिनी पर्वतपातवेगा प्रवालमालेव विभाति शुभ्रा ।। 1 ।।

पतिगृहं विविक्षन्त्याः वध्वाः इव नदी तलमेलनाय प्रसर्पति

सीमन्तिनी मातृगृहात्स्वभर्तुर्निवेशवेशाय समञ्चतीव ।

गम्भीरवेगाञ्चितचारुभावा तलप्रसङ्गाय पतत्यधोधः ।। 2 ।।

प्रपातकाले रङ्गस्थलारूढा स्वालङ्कृता नर्तकीव प्रतिभाति

सुफेनहासा ससमुद्रघोषा सौदामिनीशुभ्रलसद्दुकूला ।

संगीतचर्याभिनया सुरङ्गस्थलाधिरूढा नवनर्तकीव ।। 3 ।।

मोक्षसंपादनाय भुवमवतीर्णा तपस्विनी इव

दिव्याङ्गना मोक्षफलोदयाय बुभूषती भूतलजन्मधन्या ।

तपोभिरुग्रैः पृथिवीतलेस्मिन्नुपासनाशा मुनिकन्यकेव ।। 4

शिष्टरक्षणदुष्टशिक्षणस्वभाववर्णनम्

निःस्यन्दमाना भुवि भूधराग्रात् दुर्भूरुहान्भङ्गमुपानयन्ती ।

नम्रस्वभावानवनामयन्ती शिष्टान्यरक्षान्यविधानशिक्षा  ।। 5 ।।

क्वचित् विकीर्णा क्वचित् प्रकीर्णा

संस्पृश्य देशानुपलप्रकीर्णान् विशीर्णतां याति कदाचिदेषा ।

पुनः समान् प्राप्य तलप्रदेशान् सुप्रेक्षणीया भवतीह फुल्ला ।। 6 ।।

अस्याः जनप्रियतायाः कारणम्

गाम्भीर्यवैशाल्यगुणे समानं भावं विधत्ते जलधेस्सदैव ।

लावण्यमस्याः जलधेस्तु नैव प्रियं जनानामिति पक्षपातः ।। 7 ।।

सागरस्य वार्धित्वं किं औपचारिकम्

पुष्णाति लोकान् स्वजलेन नूनं वार्धित्वमस्या न तु सागरस्य ।

जनोपकारानुगुणं प्रवृत्तिः नाम्नां स्ववाच्येष्विति तथ्यमेव ।। 8 ।।

।। श्रीकृष्णार्पणमस्तु ।।

Posted in

Leave a comment