अपरमिदं भारतसाम्राज्यं खलु निश्शेषमाखण्डलस्येव । बहवः खलु विशेषाः । यदेकेनापि समग्रं जीवनमानन्दोदग्रं जीवेः । अथापि कश्चित् ग्रासी राहुः चन्द्रलेखामिव । यमाहुः वैदेशिक इति । तथा हि सन्ति बहवो देशाः तत्र भवाश्च देशीयाः । येषामत्ययेनापि, सम्प्रति उपजीवनेन जीवातुभूतेन निर्बाधं जीवनमातिष्ठामहे । एषु विश्वेष्वपि देशेषु साध्व्यो राज्यतदङ्गप्रकृतयः सक्रममास्थिषत । तदेतन्निरीक्षणाक्षिप्तविक्षेपात्मानो अस्वस्थात्मानो मानवापसदाः कुनयदनुयोनयो विकृतयोनयस्तुरुष्काः स्ववशमनैषत । कथं नु भगवत्सु मूर्धाभिषिक्तेषु साम्राज्यदीक्षितेषु अन्यायत्तता ? शृणु । mugals इति वंशो गणो वा इति अन्तर्जालाः । यद्वाचकमपि पदमपदं भवति । अर्थोप्यनर्थो भवति । ईश्वरेच्छात्मिका शक्तिरपि अशक्तीभवति । स्फोटोपि अस्फुटो भवति । अपाकुरुते च सर्वापि प्रकृतिः । समुद्रजीमूतजम्बूकभस्त्रप्रभृतयो विरोधं शब्दापयन्ति । न हि तन्नामकृत्वा गीर्वाणा व्याहरन्ति पुनर्लज्जन्ति । मोच्चैर्वोचः परोपि शृणुयादिति कर्णावघातभीरुणा मन्दं वक्तव्यम् । अतो यथास्थिमेव उट्टङ्कितम् । तथा च ते पुनर्गणाः भूतगणा इव अभूतमात्रां श्रियमुत्कृन्तितुमापतन् । काले काले कालनामा कृतान्तः प्रायः अवतरेद्वा । दर्शं दर्शं निर्ममन्थुः । यं बालं यं यूनं यां बालां यां युवतिं वा पश्येत् तं तं तां तां च वध्यात् इति तदभिमता वेदवाणी । न किमपि आवेदयति ऋते कामम् । दुष्कामसम्पूरिताशयाः । पदं पदं जनपदं घ्नन्तः आसेदिरे । पञ्चदशे शतके aurangzeb इति कश्चित् विश्वनियमबहिष्कृतः दुष्कृतः आस । अत्र विरुरुवुः – aurangzeb इति सिंहासनाधीश इत्यर्थः । तदतीव हदयकुहरक्रकचायितम् । न हि असिंहं सिंहम्मन्यमाना तदर्थमासनकल्पनहिंसामासदन्ति । न हि क्रोष्टुः सिंहासनं प्रष्टुमर्हति ।

– अनुवर्तते

Posted in

Leave a comment