विद्या ह वै ब्राह्मणमाजगाम गोपाय माम् इति हि श्रुतिः । नाम्ना इयं श्रुतिरपि श्रवणकुहरकुणकायिता । या खल्वमरभारतीति प्रथिततमापि सरस्वती निस्स्वार्थं सकलजनमानसचोदयित्री गिरामावेदयित्री, भानुदारं दारित स्यामिति भूरिमनोभीरुः प्रार्थितपत् । तदनु यथाकालं वैदिकपरम्परापर्यवसितप्रयतमानसा कालत्रयविहितत्रियुगकृतिमन्तो ब्राह्मणा अमरभारतीमरणयोगमुत्कृन्तन्तो यथाकालं स्वाचारपरिचरणादिना इह परिरेमिरे । सेयं परम्परा अनादिकालतो निलिम्पपतिसमुपदिष्टा आस्यादास्यं धिषणाधिषणं हृदयाद्धृदयं प्रावृतत् । उपदेष्टा गुरुः । शिरोनिहितानुदेशशिष्टः शिष्यः । सोयं यज्ञः । तथाहि –
बह्वर्थप्रतिसन्धिपूर्णपदवीसम्पुष्टहृद्वेदिका
मूलाकर्षनिघातगोमयरसप्रस्विन्नभावस्मिता ।
आबन्धप्रशमेष्टसाधनमहादीक्षाव्रतेन प्रधी-
तीर्थेन क्षणशो विविच्य हविषा निर्धूममेवेज्यते ।।
तदत्र सत्रे परमो गुरुः कारणीभूतः । न हि अगरुणा विना गुरुर्गन्धसम्बन्धः सम्भवति । न वा गुुरुं विना गोरवपदमुपस्थापितं भवति । न हि सवितारमन्तरा प्रकाशो जगदन्तः सूयते । नापि निशाविषसम्प्रमोषः सुधांशुमन्तरा निष्पद्यते । समं तदेतदृततमं यद्गुरुजनचरणपरिचरणं हिरुक् वागर्थः सङ्गच्छते । अनन्यं परिचरणं श्रेयसे परिकल्पते। यथाहुर्महाभारते –
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भं ब्रह्मचर्यं चरन्ति ।
इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ।। इति ।
ब्रह्मचर्यं नाम ब्रह्मणि गुरौ चरणं परिचरणं ब्रह्मचर्या । आचार्यो ब्रह्मणो मूर्तिरिति मनुमननात् । आचार्यपरिचरणं च न केवलं नैमित्तिकम् । किन्तु निर्व्याजमेव । तस्य सदासेव्यत्वात् । आचार्यस्य च सर्वदा प्रियं कुर्यादित्युक्तेः । तद्धि तप इति निगद्यते । तपः सर्वं समाप्यते इति मनुविबोधनाच्च । इदमत्रोदहरामः – अनन्नः इह न प्राणिति । प्राणस्य अन्नगतत्वात् । अविद्यः इहामुत्र च न विद्यते । आत्मगतत्वात् विद्यायाः । अत एवेदमध्यात्ममिति औपनिषदाः । एवं च गुरुजनपरमपदपरिचरणोपवृत्त्या अपरिव्युप्तयाथात्म्यबीजोsपरिरब्धतमःपरिवर्जनपरविद्याचञ्चलः कथं नु संसारसंसर्गार्गलमपवर्गं अपवृक्तपरिवृढं प्रधानोपकरणं शरणं, मरणावस्थायां स्मरणीकुर्यात् कथं च तमपरोक्षमीक्षते । तदयं सकलजीवनिकरैर्यथायथं संसेव्यो गुरुरिति ।
तमःप्रतानिनीस्तब्धं मनोलुब्धकलक्षितम् । पक्षिणं वीक्षयारक्ष्य क्षेमं वाहयते गुरुः ।।
Leave a comment