श्रीतिरुमले नवरात्रिकाले वाहनोत्सवविशेषचिन्तनम्
अखण्डभूमण्डलमण्डनस्य रमावरस्य श्रीनिवासस्य ब्रह्मोत्सवः कस्य न प्रमोदातिशयकारकः । यस्मिन् महोत्सवे वाहनमारुह्य श्रीभूभ्यां सह विराजन्तमादिदेवं दिदृक्षवः कुतूहलार्द्रमनसः भक्तिभावसमुद्गतप्रमोदाश्रुबिन्दवः लक्षाधिकाः जनाः कृतार्थाः अमृताः भवन्ति । रथस्थं केशवं दृष्ट्वा पुनर्जन्म न विद्यते इति भणितिः न खलु वन्ध्यवाक्। रथो नाम स्यन्दनः । एवमेव रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च इति विश्वोक्त्या आत्मानं रथिनं विद्धि शरीरं रथमेव चेति गीताचार्योक्तरीत्या देहोपि रथ इत्युच्यते । ततश्च रथस्थं केशवं दृष्ट्वा – सच्छास्त्रोक्तमार्गेण अस्मद्देहस्थं भगवन्तं बिम्बरूपिणं दृष्ट्वा पुनर्जन्म न विद्यते इति हि परमार्थः । तं श्रीनिवासं वयं ज्ञानं प्राप्यैव साक्षात्कर्तुं शक्नुमः । ब्रह्मविद्यासम्प्राप्तब्रह्मतत्वज्ञानेभ्यः हरिं निरन्तरं ध्यायद्भ्यः प्रसन्नो भगवान् पुमर्थं यच्छति । अथापि देहे विराजन्तं हरिं द्रष्टुमेवेदं ब्रह्मरथोत्सवाख्यं कर्म करणान्तरमस्ति । ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत् इति आर्योक्तिरत्र प्रमाणम् । इमं भावमनुसन्धाय ज्ञानपूर्वकः एव क्रियमाणः उत्सवः पुमर्थसम्पादको भवति । अत एव विचक्षणा अस्माकं प्राञ्चः सर्वरीत्या ज्ञानेन कर्मणापि भगवन्तमाराधयितुमेव उत्सवान् रथोत्सवान् व्यदधत । सर्वेष्वपि बाह्येषु कर्मसु कश्चन परमार्थस्तेषामभिमतः आसीत् । प्रकृते नवसु दिनेषु नववाहनरथानारुह्य रममाणः श्रीनिवासः कथमिव आध्यात्मिकया भङ्ग्या प्रेक्षणीयो वर्तते, कुतो वा अयं रथोत्सवः एतावज्जनताशरण्यः वर्तते, किं वा तत्र तत्वमिति ईशदिव आकलयामः ।
१. शेषवाहनोत्सवः
सकलमिदं भुवनं स्वफणासु धरतः शेषस्य स्कन्धमारुह्य निजतनुं लोकालोकविषयं करोति श्रीवेङ्कटेशः। अत्र शेषः सकलसच्छास्त्राभिमानित्वात् सच्छास्त्रप्रतीकः । तं वाहनं करोति भगवान् । अनेन अहं सच्छास्त्राणि वहामि, अथ च सच्छास्त्राणि स्वशिरसि वहतामेव स्कन्धमारोहामि तेषामनुग्राहकः सन्मार्गप्रेरकश्चास्मि इति भगवान् सूचयन्निव तस्मिन्ननेहसि शेषवाहनः शेषस्कन्धे राराष्टि । एवम् सर्वदापि सच्छास्त्रच्छात्रैः सच्छास्त्रश्रोतृभिरस्माभिर्भवनीयम् । सच्छास्त्रश्रवणं विधेयमिति विज्ञायते । मोक्षस्य श्रवणमनननिधिध्यासनानि निदानानि भवन्ति ।
२. हंसवाहनोत्सवः
हंस पक्षिराजः । प्रकृत्या निर्मलः । ज्ञानप्रतीकः । सदा मानसावासः । द्वितीये दिने हंसवरमारुह्य काञ्चन्तं भगवन्तमित्थं विचिन्तयामः। श्रवणं विधेयमिति शेषवाहनेनाज्ञासिष्म । इदानीं मननमपि विधेयमिति ज्ञापयति हंसवाहनः नारायणः । यतः मननं नाम शृतस्यार्थस्य युक्तिभिरनवरतमनुचिन्तनेन ज्ञानस्य निश्चयीकरणम् । तस्य निश्चयज्ञानस्य हंस एव सङ्केतः । ततश्च मोक्षं ये ईप्सन्ति तेषां हंसः निश्चयज्ञानं तद्धेतुभूतं मननमेव वाहनमस्ति – मोक्षप्रयाणसाधनमस्तीतीमं प्रमेयं भगवान् सूचयतीति विज्ञायते । अथवा हंस इति भगवतः अपरं रूपम् । तस्य मन्त्र एव हंसमन्त्रः । तं मन्त्रं भगवान् वायुः सर्वेषां हृदयेषु अहर्निशं २१००० वारं जपति । तज्जपेनैव सर्वोपि प्राणी प्राणिति । उपरते तस्मिन् जपे स कायः अचिरान्नश्यति । अतः हंसवाहनः श्रीनिवासः हंसमन्त्रमनुदिनं वहन्तं – जपन्तं वायुं स्वमनसि सर्वे धरन्तु । तेनैव भवतामपि हंसमन्त्रमहं वाहयामि – इतोप्यतिशयेन दास्यामि दीर्घायुः प्रयच्छामीति सूचयति ।
3. सिंहवाहनोत्सवः
तृतीये दिवसे सिंहमारुह्य विभ्राजते । तदैवं विचिन्तयामः । सिंहासनं नृपासनमुच्यते । नृपासनं तु यद्भद्रासनं सिंहासनं च तत् इत्यमरोक्तिरत्र प्रमाणम् । सिंहमेव वाहनं कृत्वा आगच्छन् देवः तस्य सनवावराण्डाधिपतित्वं लक्ष्मीनियामकत्वं पादोपान्तसकलजीवराशित्वं सर्वासु क्रियासु परानपेक्षत्वं स्वतन्त्रत्वं सूचयति । अनेन भवन्तः मम सर्वोत्तमत्वमुपासीरन् तदैवाहं समधिगम्य इति सूचयति ।
4. कल्पवृक्षवाहनोत्सवः
चतुर्थे अहनि भगवान् कल्पवृक्षमारुह्य सकलाभीष्टं प्रयच्छति । अथ कोयं कल्पवृक्षः । स खलु नन्दनवनसुधारसज्ञः कामनामात्रेण सकलार्थप्रदः । तं वाहयति प्रापयति भवगवान्। अथवा कल्पवृक्षः न स्वातन्त्र्येण सकलार्थदः। तस्यापि नियामकोस्मि, तस्य सकलेष्टदातृत्वशक्तिरपि मत्सामर्थ्यजन्या इति श्रीवेङ्कटेशः सूचयति । अपि च कल्पवृक्षः चिन्तितमेवार्थं प्रयच्छति । यदि भगवानपि अस्माभिश्चिन्तितमेवार्थं आदास्यत् तर्हि का नो गतिः। न वयमस्मद्देहगतानानन्तसङ्ख्यान् रक्तकणान् जानीमः । न वा वयं देहधारणसाधनानि जानीमः । अतश्च तानि न पृच्छामः । तर्हि अस्माभिरप्रार्थितानि शरीरधारणसाधानानि जीवनोपायभूतानि नः न प्राप्स्यन् । किन्तु न तथा । स्वयमेव अस्मद्धिताहितानि विज्ञाय तानि यथायोग्यं यथाकालं यथाप्रदेशं प्रयच्छति । अतः सः कल्पवृक्षापेक्षया उत्तमः । तदर्थमेव कल्पवृक्षमारुह्य तदुत्तमत्वं सूचयति श्रीवेङ्कटेशः ।
5. गरुडवाहनोत्सवः
पञ्चमे दिवसे आरूढगरुडस्कन्धः विराजते प्रभुः । भगवतः ऊरू प्रतिदिनं सुपर्णभुजयोरधिशोभमानौ स्मर्तव्यावित्याह भगवान् कपिलः । गरुडः सुपर्णः । अतः भगवान् सुपर्णवाहनः । मयि ये अनन्यमनसः सन्ति तेषां गेहे अहं सुपर्णानि (भोजनपर्णानि) वाहयामि (नयामीति) सुपर्णारूढत्वेन सूचयति । भगवान् तानेव उपादत्ते इति विचिन्तयितुं शक्नुमः । अथ च गरुडः विषहरः । संसारे विषयविषं च मम वाहनेनैवाहं निवारयामीति गरुडमारूढवान् ।
6. वायुवाहनोत्सवः ।
षष्ठे अहनि सकलभुवनत्राणं अखिलज्ञं भारतीकान्तं वायुं वाहनं कृत्वा क्षिप्रं प्रसीदति प्रभुः । वायुश्च सकलजीवानां श्रेष्ठः, अनवरतपरिचर्यमाणविष्णुः, सकलसुरगुरुरस्ति । अस्य प्रसादं विना न कोपि कैवल्यमाप्नोति । विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया इति भणितिर्न खलु प्रतीपमर्हति । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इत्युक्तदिशा गुरुभक्तिरेव मुकुन्दभक्तिं सम्पादयति । वायुश्च सकलभुवनगुरुः । अतः गुरुं प्राप्यैव मामाप्नुहि इति वायुमारूढवानिति विज्ञायते । अपि च वायुः इमं ते भक्तमनाथमुद्धरेति अस्मद्विषयकविज्ञापनेनैव विष्णुरस्मान् दययति । तदप्यनेन विज्ञायते ।
7. गजवाहनोत्सवः
सप्तमे दिवसे श्रीनिवासः स्वलङ्कृतः गजमारुह्य प्राकारे सञ्चरति । अहं त्वरया यथा पूर्वं गजोद्दिधीर्षया गरुडमपि परित्यज्य आगच्छमेवमेव गरुडवाहनादिकं परित्यज्य गजराजमिव जनानुद्दिधीर्षुः गजमेव वाहनमकरवमिति सूचयतीव । अथ गजः सामजः इति कीर्त्यते । अतः श्रीनिवासः सामजवाहनः । साम नाम वेदः । गानात्मको वर्तते । सामजगानेन अहं प्राप्तो भविष्यामीत्यपि सामजवाहनः सन् प्रभुः सन्दिशति ।
8. सूर्यप्रभ-चन्द्रप्रभवाहनोत्सवः
अष्टमे अहनि सूर्यमारुह्य भगवान् जाज्वल्यते । तेन तस्य नित्यतृप्तत्वं सूचयति । यतः सकलजगद्गतमहातेजोनियामकस्य सूर्यकोटिप्रतीकाशस्य विष्णोः सूर्यादयः एव कीटमणिप्रभाः सन्तः व्यर्थाः सन्ति । एवं सति अस्मद्दत्तैर्नीराजनादिभिर्न ईषदपि तस्य प्रयोजनं किन्तु अस्मदनुग्रहायैव तत्कर्म कारयति, सर्वमपि लक्ष्म्यादिकर्तृकं कर्म न तस्य अतिशयदानक्षममिति सूचयति । तेन नीराजनादिभिः दीपप्रज्वालनैर्वा देवः उपकृतोस्तीति नास्माभिर्विचन्तनीयं मनागपीत्येतत् विज्ञायते । इमं प्रमेयं स्वापेक्षया अत्यन्तहीनप्रभं सूर्य चन्द्रं वा आरुह्य भगवान् कथयति ।
9. अश्ववाहनोत्सवः ।
तुरगमारुह्य राजाधिराजों भगवान् चामीकरकृतभूषणाङ्गः श्रीभूभ्यामुपगूढः न कस्य मनसः सुखमेधयति । इन्द्रियाणि हयानाहुरित्युपनिषदुक्तरीत्या इन्द्रियप्रेरकत्वमनेन सूचितम् । अथ च अश्वः इत्यस्य श्वः न इत्यर्थः विज्ञायते । तथा च सङ्कल्पितानि सकलानि कर्माणि अश्वः (न श्वः किन्तु अद्यैव) कुरु इति आज्ञापयति । यतो हि आयुः न कस्यापि ज्ञानगोचरम् । श्वः भवितव्यं न जनो जानाति अतः अश्वारूढः सन् अश्वः पुण्यमार्जयेति कथयति । अथवा ज्ञानं मोक्षं प्रति मुख्यसाधनम् । तस्य सम्पादनाय अहं अश्वरूपी सन् नस्तो मुखादपि वेदान् समुद्गिरामि । मामाराध्य ज्ञानमाप्नुहि इत्यपि ज्ञापयति । एवं नवसु दिनेषु भगवान् नवरथारूढः मुक्तिसोपानानि सूचयति । तमिमं प्रमेयमनुसन्धाय सर्वेपि वयं विश्वविस्मयकरं ब्रह्मोत्सवमाकलयेम ।
Leave a comment