गीर्वाणतरङ्गिणी

आपरितोषात् विदुषां न साधु मन्ये प्रयोगविज्ञानम्

नवरात्रिवैभवम् – श्रीमदुत्तरादिमठे उत्सववैशिष्ट्यम्

सनातनधर्मस्य वैशिष्ट्यं तस्य ज्ञानपरम्परायां विभिन्नेषु आचारपद्धतिषु च निहितमस्ति । काले काले आचर्यमाणाः उत्सवाः न केवलं वैय्यक्तिकस्थरे अपि तु सामाजिकस्थरे अपि नवनवोल्लासं समासजन्ति । ते च हृदयङ्गमाः उत्सवाः न केवलं आबालगोपालं अनुरञ्जयन्ति अपि तु प्राकृतिक-पौराणिक-सामाजिक-आध्यात्मिकस्थरेषु कस्मैचित् आत्यन्तिकप्रयोजनाय च प्रकल्पन्ते । प्रायः उत्सवाः प्रशस्तेषु पर्वकालेषु आचर्यन्ते । योग्यकाले तेषां आचरणेन लोके शान्तिसम्पदः समुल्लसन्ति । सकाले वृष्टिः, प्रकृतेः प्रसन्नता, आधि-व्याधि-ईति-बाधानां निवारणं च एतेषामनुष्ठानेन प्राप्यते । महती दैवीशक्तिः इदं सकलमपि ब्रह्माण्डं तद्गतसमग्रं व्यापारं च नियमयति इति हि सनातनधर्मस्य मूलस्रोतस्सु वेदेषु उपदिष्टमस्ति । देवान् भावयतानेन ते देवा भावयन्तु वः इति गीताचार्यभणितिः देवतासमाराधनं सर्वेषां कर्तव्यत्वेन बोधयति । देवतातोषणं लोककल्याणाय प्रभवति इति निश्चप्रचम् । अत एव न देवतोषणं वृथा इति आर्योक्तिः । श्रुति-स्मृति-इतिहास-पुराणानि अस्माकं आचारपद्धतिं सम्यगवगमयन्ति । तत्त्वज्ञानपुरस्सरं वेदविहितकर्मानुष्ठानेन देवता आशु प्रसीदति । फलं च अर्चकस्य योग्यतामनुसृत्य प्राप्यते । भाग्यदैवमिह योग्यतानुगं इति वचनमत्र ज्ञापकम् । व्याप्ता अपि देवता कस्मिंश्चित् चले अचले वा प्रतीके सन्निधापिता अनुग्रहोन्मुखा वरप्रदा च भवति इति चिरन्तनेन तन्त्रशास्त्रेण अवगम्यते । अत एव नैसर्गिकतया स्वयं व्यक्तेषु योग्यैः तपस्विभिः सन्निधापितेषु वा प्रतीकेषु देवतासमाराधनं प्रशस्यते । लक्षणवती प्रतिमा एव प्रतीकत्वेन कल्पनार्हा, प्रतिष्ठापनार्हा च भवति । प्रतिमालक्षणानि तन्त्रशास्त्रे कथितानि । अस्मद्देशे उत्तरे बदरी, काशी दक्षिणे श्रीरङ्गं, शेषाद्रिः इत्येवमादीनि पुण्यक्षेत्राणि समुल्लसन्ति । सत्यलोके ब्रह्मणा संपूज्यमानः रङ्गनाथः तस्यैवानुग्रहेण इक्ष्वाकुणा अलाभि । तद्वंशीयैः दशरथादिभिः समर्चितः स साम्प्रतं श्रीरङ्गक्षेत्रे विराजते । एवमेव ब्रह्मकरार्चिता विश्वकर्मनिर्मिता चतुर्युगेष्वपि सम्पूज्यमाना श्रीसीतासमेतश्रीमूलराममूर्तिः श्रीमन्मध्वाचार्यमूलसंस्थानभूते श्रीमदुत्तरादिमठे विराजते। कालान्तरे ब्रह्मणा विवस्वते इयं मूर्तिः प्रदत्ता इति ऐतिह्यमस्ति । ततः दशरथादिभिः सूर्यवंशीयैः राजभिः सम्पूजिता क्रमेण द्वापरे पाण्डवैश्चापि समर्चिता इयं कालान्तरे गजपतिसंस्थानस्य कोशे सन्निवेशिता किञ्चित्कालं न केनापि संलक्षिता । ततः त्रिकालदर्शिभिः श्रीमन्मध्वाचार्यैः नरहरतीर्थाख्येन स्वशिष्येण सा श्रीमठं प्रति समानिन्ये । ततः प्रभृति श्रीमठे सम्पूज्यमाना सीतासमेता श्रीमन्मूलराममूर्तिः स्वसन्निधानविशेषेण श्रीमठस्य पीठाधिपतिभिः सवैभवं समर्च्यमाना अधुनापि विराजतेतमाम् । अनया श्रीमूलराममूर्त्या सह प्रत्यहं श्रीद्विग्विजराम-श्रीविष्ठल-श्रीवंशराम-श्रीवेदव्यास-मूर्तयः अपि संपूज्यन्ते । आहत्य अष्टाविंशतिः मूर्तयः, व्यासप्रदत्ताः पञ्चव्यासमुष्टयः, कूर्मादिशताधिकशालग्रामशिलाः अत्यन्तवैभवेन शुद्धतया प्रत्यहं श्रीमठे सम्पूज्यन्ते ।  एवमिदं संस्थानं अनेकदेवतासन्निधानोपेतं दिव्यं क्षेत्रमिव राराज्यते । श्रीमठे देवतार्चने बद्धादराः वैराग्यमूर्तयः परहंसपारिव्राजकाचार्यादिनामाङ्किताः सर्वतन्त्रस्वतन्त्राः मठशिष्याणां कृते भाष्यादिग्रन्थान् अध्यापयन्ति । लोककल्याणाय च समग्रे भारते परमहंसयतिधर्मान् पालयन्तः भक्तानुद्धरन्तश्च नित्यं सञ्चरन्ति । प्रत्यहं बहवः भक्ताः श्रीक्षेत्रदर्शनाय सुदूरेभ्यः देशेभ्यः तीर्थयात्राभावनया यानैर्वा पादयात्रादिक्रमेण वा समागत्य पूजाकाले जगद्गुरुभिः सम्पूज्यमानानां भगवन्मूर्तीनां विशेषदर्शनं प्राप्य दर्शं दर्शं अलौकिकं हृदयानन्दं प्राप्नुवन्ति । जगद्गुरुभ्यः वैष्णवदीक्षां अनुग्रहमन्त्राक्षतान् च प्राप्य कृतार्थाः भवन्ति । श्रीमठे नवरात्र्यादि-उत्सवदिनेषु सम्प्रदायागताः विशेषपूजाः सभक्तिश्रद्धं समर्प्यन्ते । नवरात्र्युत्सवः सप्तरात्र्युत्सवः पञ्चरात्र्युत्सवः त्रिरात्र्युत्सवः इत्येवं रूपेण यथावैभवं उत्सवाचरणं विधीयते । श्रीमठे विशेषेण त्रिरात्रोत्सवः समाचर्यते । वेदिकाः रङ्गवल्लीभिः, तोरणैः, पूष्पराजिभिश्च अलङ्कृताः भवन्ति । उत्सवात् पूर्वेद्युः सरस्वत्यावाहनं क्रियते । तत्पश्चात् परेद्युः उत्सवदिनमारभ्य प्रत्यहं रत्नखचिते स्वलङ्कृते सुवर्णमण्डपे मूलरामादिसंस्थानप्रतिमापूजा विधीयते । त्रिरात्रोत्सवे मूलं नक्षत्रमारभ्य श्रवणानक्षत्रपर्यन्तं देवस्य समीपे अन्यस्मिन् सुवर्णमण्डपे सच्छास्रपुस्तकानि संस्थाप्य पट्टवस्त्रादिभिः व्यासप्रतिमारूपेण अलङ्कृत्य सरस्वतीपूजा क्रियते । अत्र पुस्तकेषु सरस्वतीरूपेण विशेषतः श्रीवेदव्यासस्य श्रीपरशुरामस्य च पूजा विधीयते । तथा कपिल-दत्तात्रेय-हयग्रीव-राम-कृष्ण-नृसिंहादि-भगवद्रूपाणि तत्तन्मन्त्रैः आवाह्य तथा श्रीभूदुर्गाप्राणसरस्वतीभारती-गरुड-शेष-रुद्र-गौरी-विनायकादींश्च तत्तद्वेदमन्त्रैः आवाह्य प्रतिष्ठाप्य षोडशोपचारैः संपूज्यते । बादरि-जैमिनि-सुमन्तु-वैशंपायन-आश्मरथ्य-पैल-काशकृत्स्न-लोमशादिव्यासशिष्यान्, गुङ्गुं, सिनीवालीं, राकां, सरस्वतीं, इन्द्राणीं, वरुणानीं च सूक्तदेवताः, गुरुपरम्परां, भाष्यटीकाटिप्पणीकर्तृन् च आवाह्य पूजा विधीयते । प्रतिष्ठापनात् प्रभृति विसर्जनपर्यन्तं शास्त्राणां अनध्ययनं भवति । तत्काले विशिष्य वेदशास्त्रग्रन्थानां पारायणं प्रवचनं च क्रियते । पूजाकाले अंभृणीसूक्त, मन्युसूक्त, सरस्वतीसूक्त-रात्रिसूक्तादीनि तथा ब्राह्मणपञ्चिकाश्च श्रीमठशिष्यैः पठ्यन्ते । एवं दिनत्रयं प्रातः सायं च विशेषपूजा, गन्धपुष्पनैवेद्यसमर्पणं, महानीराजनं च क्रियते । प्रत्यहं दर्शनार्थं समागतानां भक्तानां कृते भोजनव्यवस्था च प्रकल्प्यते । विजयदशम्यां विशेषतः पञ्चखाद्यादिनैवेद्यैः सरस्वतीपूजां विधाय उत्तिष्ठेति मन्त्रेण आवाहितदेवताः उद्वास्यन्ते । ततः विद्यार्थिनां शान्तिपाठपुरस्सरं शास्त्रग्रन्थानां पुनः पाठारम्भः भवति । विजयदशम्यां शमीपूजापि विशेषतः क्रियते । विजयदशमी श्रीमध्वाचार्याणां अवतारदिनमपि । अतः श्रीमठे तन्निमित्तीकृत्य मध्वविजयकाव्यस्य सामूहिकपारायणं प्रवचनं च विशेषरूपेण क्रियते । नवरात्रेः प्रथमदिनं आरभ्य दशमीपर्यन्तं श्रीनिवासस्य ब्रह्मोत्सवं निमित्तीकृत्य विशेषतः श्रीनिवासकल्याणकथाश्रवणं च प्रवर्तते । प्रत्यहं नृत्य-गीतादि-विविधाः सांस्कृतिककार्यक्रमाश्च आयोज्यन्ते । तदेवं पर्वकालेस्मिन् सर्वत्र परिसरे कापि नूतना अभिख्या प्रसरति । दिव्यज्ञानगङ्गा भुवमवतरति। भक्तानां हदयेषु भक्तिगङ्गा प्रवहति । एताः नव रात्रयः नवविधभक्तेः प्रतीकाः । विजयदशमी अन्तःशत्रूणां च उपरि विजयस्य सङ्केतरूपा भवति ।  

।। श्रीकृष्णार्पणमस्तु ।।

लेखकः – राघवेन्द्राचार्यः राचूरी

Posted in ,

Leave a comment